ये नाध्वरस्य राजानं पूजयध्वं महेश्वरम्
पूज्यते सर्वयज्ञेषु सर्वाभ्युदसिद्धिदः
न मेनिरे ययुर्मन्त्रा देवान् मुक्त्वा स्वमालयम्
स्पृशन् कराभ्यां ब्रह्मर्षि दधीचं प्राह देवताः
यस्मात् प्रसह्य तस्माद् वो नाशयाम्यद्य गर्वितम्
गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः
गृहीत्वा भीषणाः सर्वे गङ्गास्त्रोतसि चिक्षिपुः
व्यष्टम्भयददीनात्मा तथान्येषां दिवौकसाम्
निहत्य मुष्टिना दन्तान् पूष्णश्चैवमपातयत्
धर्षयामास बलवान् स्मयमानो गणेश्वरः
जघान मूर्ध्नि पादेन मुनीनपि मुनीश्वराः
विव्याध निशेतैर्बाणैः स्तम्भयित्वा सुदर्शनम्
जघान पक्षैः सहसा ननादाम्बुनिधिर्यथा
वैनतेयादभ्यधिकान् गरुडं ते प्रदुद्रुवुः
विसृज्य माधवं वेगात् तदद्भुतमिवाभवत्
आगत्य वारयामास वीरभद्रं च केशवम्
संस्तूय भगवानीशः साम्बस्तत्रागमत् स्वयम्
तुष्टाव भगवान् ब्रह्मा दक्षः सर्वे दिवौकसः
स्तोत्रैर्नानाविधैर्दक्षः प्रणम्य च कृताञ्जलिः
प्रसन्नमानसा रुद्रं वचः प्राह घृणानिधिः
अनुग्राह्यो भगवता दक्षश्चापि दिवौकसः
उवाच प्रणतान् देवान् प्राचेतसमथो हरः
संपूज्यः सर्वयज्ञेषु न निन्द्यो ऽहं विशेषतः
त्यक्त्वा लोकैषणामेतां मद्भक्तो भव यत्नतः
तावत् तिष्ठ ममादेशात् स्वाधिकारेषु निर्वृतः
अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः
व्याजहार स्वयं दक्षमशेषजगतो हितम्
यदाचष्ट स्वयं देवः पालयैतदतन्द्रितः
पश्यन्त्येनं ब्रह्मभूता विद्वांसो वेदवादिनः
स्तूयते वैदिकैर्मन्त्रैर्देवदेवो महेश्वरः