रक्षकं जगतां देवं जगाम शरणं स्वयम्
रक्षते भगवान् विष्णुः शरणागतरक्षकः
संप्रेक्ष्यर्षिगणान् देवान् सर्वान् वै ब्रह्मविद्विषः
नरः पापमवाप्नोति महद् वै नात्र संशयः
दण्डो देवकृतस्तत्र सद्यः पतति दारुणः
समागतान् ब्राह्मणांस्तान् दक्षसाहाय्यकारिणः
विनिन्दितो महादेवः शङ्करो लोकवन्दितः
निन्दन्तो ह्यैश्वरं मार्गं कुशास्त्रासक्तमानसाः
प्राप्य घोरं कलियुगं कलिजैः किल पीडिताः
भविष्यति हृषीकेशः स्वाश्रितो ऽपि पराङ्मुखः
जगाम मनसा रुद्रमशेषाघविनाशनम्
पतिं पशुपतिं देवं ज्ञात्वैतत् प्राह सर्वदृक्
विनिन्द्य भवतो भावमात्मानं चापि शङ्कर
विनाशयाशु तं यज्ञं वरमेकं वृणोम्यहम्
ससर्ज सहसा रुद्रं दक्षयज्ञजिघांसया
सहस्त्रपाणिं दुर्धर्षं युगान्तानलसन्निभम्
दण्डहस्तं महानादं शार्ङ्गिणं भूतिभूषणम्
स जातमात्रो देवेशमुपतस्थे कृताञ्जलिः
विनिन्द्य मां स यजते गङ्गाद्वारे गणेश्वर
वीरभद्रेण दक्षस्य विनाशमगमत् क्रतुः
तया च सार्धं वृषभं समारुह्य ययौ गणः
रोमजा इति विख्यातास्तस्य साहाय्यकारिणः
कालाग्निरुद्रसंकाशा नादयन्तो दिशो दश
समावृत्य गणश्रेष्ठं ययुर्दक्षमखं प्रति
ददृशुर्यज्ञदेशं तं दक्षस्यामिततेजसः
वीणावेणुनिनादाढ्यं वेदवादाभिनादितम्
उवाच भद्रया रुद्रैर्वोरभद्रः स्मयन्निव
भागाभिलप्सया प्राप्ता भागान् यच्छध्वमीप्सितान्
तं ब्रूताज्ञापयति यो वेत्स्यामो हि वयं ततः
देवा ऊचुर्यज्ञभागे न च मन्त्रा इति प्रभुम्