त्रिकालबद्धं पापघ्नं प्रजासर्गस्य विस्तरम्
विनिन्द्य पूर्ववैरेण गङ्गाद्वरे ऽयजद् भवम्
सहैव मुनिभिः सर्वैरागता मुनिपुङ्गवाः
दधीचो नाम विप्रर्षिः प्राचेतसमथाब्रवीत्
स देवः सांप्रतं रुद्रो विधिना किं न पूज्यते
न मन्त्रा भार्यया सार्धं शङ्करस्येति नेज्यते
शृण्वतां सर्वदेवानां सर्वज्ञानमयः स्वयम्
संपूज्यते सर्वयज्ञैर्विदित्वा किल शङ्करः
नग्नः कपाली विकृतो विश्वात्मा नोपपद्यते
सत्त्वात्मको ऽसौ भगवानिज्यते सर्वकर्मसु
सर्वलोकैकसंहर्ता कालात्मा परमेश्वरः
सो ऽयं साक्षी तीव्ररोचिः कालात्मा शाङ्करीतनुः
आदित्यो भगवान् सूर्यो नीलग्रीवो विलोहितः
पश्यैनं विश्वकर्माणं रुद्रमूर्ति त्रयीमयम्
सर्वे सूर्या इति ज्ञेया न ह्यान्यो विद्यते रविः
बाढमित्यब्रुवन् वाक्यं तस्य साहाय्यकारिणः
सहस्त्रशो ऽथ शतशो भूय एव विनिन्द्यते
अपूजयन् दक्षवाक्यं मोहिता विष्णुमायया
नापश्यन् देवमीशानमृते नारायणं हरिम्
पश्यतामेव सर्वेषां क्षणादन्तरधीयत
रक्षकं जगतां देवं जगाम शरणं स्वयम्
रक्षते भगवान् विष्णुः शरणागतरक्षकः
संप्रेक्ष्यर्षिगणान् देवान् सर्वान् वै ब्रह्मविद्विषः
नरः पापमवाप्नोति महद् वै नात्र संशयः
दण्डो देवकृतस्तत्र सद्यः पतति दारुणः
समागतान् ब्राह्मणांस्तान् दक्षसाहाय्यकारिणः
विनिन्दितो महादेवः शङ्करो लोकवन्दितः
निन्दन्तो ह्यैश्वरं मार्गं कुशास्त्रासक्तमानसाः
प्राप्य घोरं कलियुगं कलिजैः किल पीडिताः
भविष्यति हृषीकेशः स्वाश्रितो ऽपि पराङ्मुखः