ददौ तदैश्वरं ज्ञानं स्वशाखाविहितं व्रतम्
अन्त्याश्रममिति ख्यातं ब्रह्मादिभिरनुष्ठितम्
ब्राह्मणान् क्षत्रियान् वैश्यान् ब्रह्मचर्यपरायणान्
समासते महादेवं ध्यायन्तो निष्कलं शिवम्
अध्यास्ते भगवानीशो भक्तानामनुकम्पया
आराधयन्महादेवं लोकानां हितकाम्यया
आराध्य महतीं सिद्धिं लेभिरे देवदानवाः
दृष्ट्वा तपोबलाज्ज्ञानं लेभिरे सार्वकालिकम्
तिष्ठ नित्यं मया सार्धं ततः सिद्धिमवाप्स्यसि
आचचक्षे महामन्त्रं यथावत् स्वार्थसिद्धये
अग्निरित्यादिकं पुण्यमृषिभिः संप्रवर्तितम्
साक्षात् पाशुपतो भूत्वा वेदाभ्यासरतो ऽभवत्
शान्तो दान्तो जितक्रोधः संन्यासविधिमाश्रितः
प्राचीनबर्हिषं नाम्ना धनुर्वेदस्य पारगम्
समुद्रतनयायां वै दश पुत्रानजीजनत्
अधीतवन्तः स्वं वेदं नारायणपरायणाः
दक्षो जज्ञे महाभागो यः पूर्वं ब्रह्मणः सुतः
कृत्वा विवादं रुद्रेण शप्तः प्राचेतसो ऽभवत्
दृष्ट्वा यथोचितां पूजां दक्षाय प्रददौ स्वयम्
पूजामनर्हामन्विच्छन् जगाम कुपितो गृहम्
भर्त्रा सह विनिन्द्यैनां भर्त्सयामसा वै रुषा
त्वमप्यसत्सुतास्माकं गृहाद् गच्छ यथागतम्
विनिन्द्य पितरं दक्षं ददाहात्मानमात्मना
हिमवद्दुहिता साभूत् तपसा तस्य तोषिता
शशाप दक्षं कुपितः समागत्याथ तद्गृहम्
स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि
स्वायंभुवो ऽपि कालेन दक्षः प्राचेतसो ऽभवत्
विसर्गं दक्षपर्यन्तं शृण्वतां पापनाशनम्
उत्पत्तिं विस्तरात् सूत ब्रूहि वैवस्वते ऽन्तरे
किमकार्षोन्महाबुद्धे श्रोतुमिच्छाम सांप्रतम्