गोवर्धनगिरिं प्राप्य तपस्तेपे जितेन्द्रियः
आगत्य देवो राजानं प्राह दामोदरः स्वयम्
एकमुक्त्वा हृषीकेशः स्वकीयां प्रकृतिं गतः
अपालयत् स्वकं राज्यं न्यायेन मधुसूदने
खिखण्डनं हविर्धानमन्तर्धाना व्यजायत
धार्मिको रूपसंपन्नो वेदवेदाङ्गपारगः
मतिं चक्रे भाग्ययोगात् संन्यां प्रति धर्मवित्
जगाम हिमवत्पृष्ठं कदाचित् सिद्धसेवितम्
अपश्यद् योगिनां गम्यमगम्यं ब्रह्मविद्विषाम्
पद्मोत्पलवनोपेता सिद्धाश्रमविभूषिता
सुपुण्यमाश्रमं रम्यमपश्यत् प्रीतिसंयुतः
अर्चयित्वा महादेवं पुष्पैः पद्मोत्पलादिभिः
संप्रेक्षमाणो भास्वन्तं तुष्टाव परमेश्वरम्
अन्यैश्च विविधैः स्तोत्रैः शांभवैर्वेदसंभवैः
श्वेताश्वतरनामानं महापाशुपतोत्तमम्
तपसा कर्षितात्मानं शुक्लयज्ञोपवीतिनम्
ववन्दे शिरसा पादौ प्राञ्जलिर्वाक्यमब्रवीत्
योगीश्वरो ऽद्य भगवान् दृष्टो योगविदां वरः
किं करिष्यामि शिष्यो ऽहं तव मां पालयानघ
शिष्यत्वे परिजग्राह तपसा क्षीणकल्पषम्
ददौ तदैश्वरं ज्ञानं स्वशाखाविहितं व्रतम्
अन्त्याश्रममिति ख्यातं ब्रह्मादिभिरनुष्ठितम्
ब्राह्मणान् क्षत्रियान् वैश्यान् ब्रह्मचर्यपरायणान्
समासते महादेवं ध्यायन्तो निष्कलं शिवम्
अध्यास्ते भगवानीशो भक्तानामनुकम्पया
आराधयन्महादेवं लोकानां हितकाम्यया
आराध्य महतीं सिद्धिं लेभिरे देवदानवाः
दृष्ट्वा तपोबलाज्ज्ञानं लेभिरे सार्वकालिकम्
तिष्ठ नित्यं मया सार्धं ततः सिद्धिमवाप्स्यसि
आचचक्षे महामन्त्रं यथावत् स्वार्थसिद्धये