आराधयामास परं भावपूतः समाहितः
संन्यस्य सर्वकर्माणि परं वैराग्यमाश्रितः
संप्राप्य भावनामन्त्यां ब्राह्मीमक्षरपूर्विकाम्
यं विनिद्रा जितश्वासाः काङ्क्षन्ते मोक्षकाङ्क्षिणः
आकाशेनैव विप्रेन्द्रो योगैश्वर्यप्रभावतः
दृष्ट्वान्ये पथि योगीन्द्रं सिद्धा ब्रह्मर्षयो ययुः
स्थानं तद्योगिभिर्जुष्टं यत्रास्ते परमः पुमान्
विवेश चान्तर्भवनं देवानां च दुरासदम्
अनादिनिधनं देवं देवदेवं पितामहम्
तन्मध्ये पुरुषं पूर्वमपश्यत् परमं पदम्
चतुर्मुखमुदाराङ्गमर्चिभिरुपशोभितम्
प्रत्युद्गम्य स्वयं देवो विश्वात्मा परिषस्वजे
ऋग्यजुः सामसंज्ञं तत् पवित्रममलं पदम्
ब्रह्मतेजोमयं श्रीमन्निष्ठा चैव मनीषिणाम्
अपश्यदैश्वरं तेजः शान्तं सर्वत्रगं शिवम्
आनन्दमचलं ब्रह्म स्थानं तत्पारमेश्वरम्
प्राप्तवानात्मनो धाम यत्तन्मोक्षाख्यमव्ययम्
समाश्रित्यान्तिमं भावं मायां लक्ष्मीं तरेद् बुधः
शक्रेण सहिताः सर्वे पप्रच्छुर्गरुडध्वजम्
तद् वदाशेषमस्माकं यदुक्तं भवता पुरा
शुश्रूषुश्चाप्ययं शक्रः सखा तव जगन्मय
रसातलगतो देवो नारदाद्यैर्महर्षिभिः
सन्निधौ देवराजस्य तद् वक्ष्ये भवतामहम्
पुराणश्रवणं विप्राः कथनं च विशेषतः
उपाख्यानमथैकं वा ब्रह्मलोके महीयते
उक्तं देवाधिदेवेन श्रद्धातव्यं द्विजातिभिः
वक्ष्यमाणं मया सर्वमिन्द्रद्युम्नाय भाषितम्
पुराणं पुण्यदं नृणां मोक्षधर्मानुकीर्तनम्
उपास्य विपुलां निद्रां भोगिशय्यां समाश्रितः
ततो मे सहसोत्पन्नः प्रसादो मुनिपुङ्गवा