पुराणं संप्रवक्ष्यामि यदुक्तं विश्वयोनिना
पुराणसंहितां पुण्यां पप्रच्छू रोमहर्षणम्
इतिहासपुराणार्थं व्यासः सम्यगुपासितः
द्वैपायनस्य भगवांस्ततो वै रोमहर्षणः
मुनीनां संहितां वक्तुं व्यासः पौराणिकीं पुरा
संभूतः संहितां वक्तुं स्वांशेन पुरुषोत्तमः
वक्तुमर्हसि चास्माकं पुराणार्थविशारद
प्रणम्य मनसा प्राह गुरुं सत्यवतीसुतम्
वक्ष्ये पौराणिकीं दिव्यां कथां पापप्रणाशिनीम्
न नास्तिके कथां पुण्यामिमां ब्रूयात् कदाचन
इमां कथामनुब्रूयात् साक्षान्नारायणेरिताम्
वंशानुचरितं चैव पुराणं पञ्चलक्षणम्
शैवं भागवतं चैव भविष्यं नारदीयकम्
लैङ्गं तथा च वाराहं स्कान्दं वामनमेव च
अष्टादशं समुद्दिष्टं ब्रह्मण्डमिति संज्ञितम्
अष्टादशपुराणानि श्रुत्वा संक्षेपतो द्विजाः
तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम्
दुर्वाससोक्तमाश्चर्यं नारदोक्तमतः परम्
ब्रह्माण्डं वारुणं चाथ कालिकाह्वयमेव च
पराशरोक्तमपरं मारीचं भार्गवाह्वयम्
चतुर्धा संस्थितं पुण्यं संहितानां प्रभेदतः
चतस्त्रः संहिताः पुण्या धर्मकामार्थमोक्षदाः
भवन्ति षट्सहस्त्राणि श्लोकानामत्र संख्यया
माहात्म्यमखिलं ब्रह्म ज्ञायते परमेश्वरः
वंशानुचरितं दिव्याः पुण्याः प्रासङ्गिकीः कथाः
तामहं वर्तयिष्यामि व्यासेन कथितां पुरा
मन्थानं मन्दरं कृत्वा ममन्थुः क्षीरसागरम्
बभार मन्दरं देवो देवानां हितकाम्यया
कूर्मरूपधरं दृष्ट्वा साक्षिणं विष्णुमव्ययम्
जग्राह भगवान् विष्णुस्तामेव पुरुषोत्तमः