ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति
The sin of killing a brāhmaṇa and other such sins will quickly perish for them.
ते यान्ति तत् परं स्थानं नात्र कार्या विचारणा
They attain that supreme abode—there is no need for deliberation here.
अर्चयन्ति महादेवं मध्यमेश्वरमीश्वरम्
They worship Mahādeva, the Lord, the Lord of the middle region.
एकैकशः कृतं विप्राः पुनात्यासप्तमं कुलम्
Each brāhmaṇa, by performing it, purifies up to the seventh generation of his family.
यत् फलं लभते मर्त्यस्तस्माद् दशगुणं त्विह
Whatever fruit a mortal obtains from that, here it is tenfold.
उवास सुचिरं कालं पूजयन् वै महेश्वरम्
He remained for a long time, indeed, worshipping the great Lord.
जगाम भगवान् व्यासो जैमिनिप्रमुखैर्वृतः
The blessed Vyāsa went forth, surrounded by Jaimini and the foremost sages.
विश्वरूपं तथा तीर्थं तालतीर्थमनुत्तमम्
He visited Viśvarūpa, and likewise the holy place Tālatīrtha, unsurpassed.
स्वर्नोलं च महातीर्थं गौरीतीर्थमनुत्तमम्
And Svarnola, the great holy place, and Gaurītīrtha, unsurpassed.
जम्बुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमम्
The excellent holy place called Jambukeśvara, known as Dharma.
नारायणं परं तीर्थं वायुतीर्थमनुत्तमम्
Nārāyaṇa, the supreme holy place, and Vāyutīrtha, unsurpassed.
यमतीर्थं महापुण्यं तीर्थं संवर्तकं शुभम्
Yamatīrtha, of great merit, and the auspicious holy place Saṃvartaka.
नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च
Nāga Tīrtha, Soma Tīrtha, and Sūrya Tīrtha likewise,
घटोत्कचं तीर्थवरं श्रीतीर्थं च पितामहम्
Ghaṭotkaca, the excellent tīrtha, Śrī Tīrtha, and Pitāmaha,
कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमम्
Kāpila, Someśa, and Brahma Tīrtha, the unsurpassed,
तदानीं स्थापयामास विष्णुस्तल्लिङ्गमैश्वरम्
At that time, Viṣṇu established that divine liṅga there.
मयानीतमिदं लिङ्गं कस्मात् स्थापितवानसि
This liṅga was brought by me; for what reason have you installed it?
तस्मात् प्रतिष्ठितं लिङ्गंनाम्ना तव भविष्यति
Therefore, the liṅga established here will bear your name.
गन्धर्वतीर्थं परमं वाह्नेयं तीर्थमुत्तमम्
Gandharva Tīrtha, the supreme, and Vāhneya, the excellent tīrtha,
चित्राङ्गदेश्वरं पुण्यं पुण्यं विद्याधरेश्वरम्
Citrāṅgadeśvara, the sacred, and Vidyādhareśvara, the sacred,
सारस्वतं प्रभासं च भद्रकर्णं ह्रदं शुभम्
Sārasvata, Prabhāsa, and Bhadrakarṇa, the auspicious lake,
हिरण्यगर्भं गोप्रेक्ष्यं तीर्थं चैव वृषध्वजम्
Hiraṇyagarbha, Goprekṣya, and Vṛṣadhvaja Tīrtha as well,
त्रिलोचनं महातीर्थं लोलार्कं चोत्तराह्वयम्
Trilocana, the great tīrtha, and Lolārka, called Uttara,
शुक्रेश्वरं महापुण्यमानन्दपुरमुत्तमम्
Śukreśvara, of great merit, and Ānandapura, the supreme,
न शक्यं विस्तराद् वक्तुं तीर्थसंख्या द्विजात्तमाः
It is not possible to describe in detail the number of tīrthas, O best of twice-born.
उपोष्य तत्र तत्रासौ पाराशर्यो महामुनिः
Having observed a fast there, the great sage Pārāśarya,
जगाम पुनरेवापि यत्र विश्वेश्वरः शिवः
Went again to the place where Śiva, Lord of All, resides.
उवाच शिष्यान् धर्मात्मा स्वान् देशान् गन्तुमर्हथा
The righteous one spoke to his disciples: 'You ought to return to your own lands.'
वासं च तत्र नियतो वाराणस्यां चकार सः
He made his residence there, in Vārāṇasī, with discipline.
भैक्षाहारो विशुद्धात्मा ब्रह्मचर्यपरायणः
Sustaining himself by alms, pure in mind, devoted to celibacy.