मांसलुब्धो यथा मत्स्यो लोहशङ्कुं न पश्यति । सुखलुब्धस्तथा देही यमवाधां न पश्यति ॥ २,४९.
हिताहितं न जानन्तो नित्यमुन्मार्गगामिनः । कुक्षिपूरणनिष्ठा ये ते नरा नारकाः खग ॥ २,४९.
निद्राभीमैथुनाहाराः सर्वेषां प्राणिनां समाः । ज्ञानवान्मानवः प्रोक्तो ज्ञानहीनः पशुः स्मृतः ॥ २,४९.
प्रभाते मलमूत्त्राभ्यां क्षुत्तृड्भ्यां मध्यगे रवौ । रात्रौ मदननिद्राभ्यां बाध्यन्ते मूढमानवाः ॥ २,४९.
स्वदेहधनदारादिनिरताः सर्वजन्तवः । जायन्ते च म्रियन्ते च हा हन्ताज्ञानमोहिताः ॥ २,४९.
तस्मात्सङ्गः सदा त्याज्यः सचेत्त्यक्तुं न शक्यते । महद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥ २,४९.
सत्सङ्गश्च विवेकश्च निर्मलं नयनद्वयम् । यस्य नास्ति नरः सोऽन्धः कथं न स्यादमार्गगः ॥ २,४९.
स्वस्ववर्णाश्रमाचारनिरताः सर्वमानवाः । न जानन्ति परं धर्मं वृथा नश्यन्ति दाम्भिकाः ॥ २,४९.
किमायासपराः केचिद्व्रतचर्यादिसंयुताः । अज्ञानसंवृतात्मानः सञ्चरन्ति प्रचारकाः ॥ २,४९.
नाममात्रेण सन्तुष्टाः कर्मकाण्डरता नराः । मन्त्रोच्चारणहोमाद्यैर्भ्रामिताः क्रतुविस्तरैः ॥ २,४९.
एकभुक्तोपवासाद्यैर्नियमैः कायशोषणैः । मूढाः परोक्षमिच्छन्ति मम मायाविमोहिताः ॥ २,४९.
देहदण्डनमात्रेण का मुक्तिरविवेकिनाम् । वल्मीकताडनादेव मृतः किन्नु महोरगः ॥ २,४९.
जटाभाराजिनैर्युक्ता दाम्भिका वेषधारिणः । भ्रमन्ति ज्ञानिवल्लोके भ्रामयन्ति जनानपि ॥ २,४९.
संसारजसुखासक्तं ब्रह्मज्ञोऽस्मीतिवादिनम् । कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा ॥ २,४९.
गृहारण्यसमा लोके गतव्रीडा दिगम्बराः । चरन्ति गर्दभाद्याश्च विरक्तास्ते भवन्ति किम् ॥ २,४९.
मृद्भस्मोद्धूलनादेव मुक्ताः स्युर्यदि मानवाः । मृद्भस्मवासी नित्यं श्वा स किं मुक्तो भविष्यति ॥ २,४९.
तृणपर्णोदकाहाराः सततं वनवासिनः । जम्बूकाखुमृगाद्याश्च तापसास्ते भवन्ति किम् ॥ २,४९.
आजन्ममरणान्तञ्च गङ्गादितटिनीस्थिताः । मण्डूकमत्स्यप्रमुखा योगिनस्ते भवन्ति किम् ॥ २,४९.
पारावताः शिलाहाराः कदाचिदपि चातकाः । न पिबन्ति महीतोयं व्रतिनस्ते भवन्ति किम् ॥ २,४९.
तस्मान्नित्यादिकं कर्म लोकरञ्जनकारकम् । मोक्षस्य कारणं साक्षातत्त्वज्ञान खगेश्वर ॥ २,४९.
षर्ड्शनमहाकूपे पतिताः पशवः खग । परमार्थं न जानन्ति पशुपाशनियन्त्रिताः ॥ २,४९.
वेदशास्त्रार्णवैर्घेरैरुह्यमाना इतस्ततः । षडूर्मिनिग्रहग्रस्तास्तिष्ठन्ति हि कुतार्किकाः ॥ २,४९.
वेदागमपुराणज्ञः परमार्थं न वेत्ति यः । विडम्बकस्य तस्यैव तत्सर्वं काकभाषितम् ॥ २,४९.
इदं ज्ञानमिदं ज्ञेयमिति चिन्तासमाकुलाः । पठन्त्यहर्निशं शास्त्रं परतत्त्वपराङ्मुखाः ॥ २,४९.
वाक्यच्छन्दोनिबन्धेन काव्यालङ्कारशोभिताः । चिन्तया दुःखिता मूढास्तिष्ठन्ति व्याकुलेन्द्रियाः ॥ २,४९.
अन्यथा परमं तत्त्वं जनाः क्लिश्यन्ति चान्यथा । अन्यथा शास्त्रसद्भावो व्याख्यां कुर्वन्ति चान्यथा ॥ २,४९.
कथयन्त्युवन्मनीभावं स्वयं नानुभवन्ति च । अहङ्कारस्ताः केचिदुपदेशादिवार्जिताः ॥ २,४९.
पठन्ति वेदशास्त्राणि बोधयन्ति परस्परम् । न जानन्ति परं तत्त्वं दर्वी पाकरसं यथा ॥ २,४९.
शिरो वहति पुष्पाणि गन्धं जानाति नासिका । पठन्ति वेदशास्त्राणि दुर्लभो भावबोधकः ॥ २,४९.
तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु मुह्यति । गोपः कक्षागते च्छागे कूपं पश्यति दुर्मतिः ॥ २,४९.