श्वः कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम् । न हि मृत्युः प्रतीक्षेत कृतं वाप्यथ वाकृतम् ॥ २,४९.
जरादर्शितपन्थानं प्रचण्डव्याधिसैनिकम् । अधिष्ठितो मृत्युशत्रुं त्रातारं किं न पश्यति ॥ २,४९.
तृष्णासूचीविनिर्भिन्नं सिक्तं विषयसर्पिषा । रागद्वेषानले पक्वं मृत्युरश्राति मानवम् ॥ २,४९.
बालांश्च यौवनस्थांश्च वृद्धान गर्भगतानपि । सर्वानाविशते मृत्युरेवम्भूमिदं जगत् ॥ २,४९.
स्वदेहमपि जीवोऽयं मुक्त्वा याति यमालयम् । स्त्रीमातृपितृपुत्त्रादिसम्बन्धः केन हेतुना ॥ २,४९.
दुः खमूलं हि संसारः स यस्यास्ति स दुः खितः । तस्य त्यागः कृतो येन स सुखी नापरः क्वचित् ॥ २,४९.
प्रभवं सर्वदुः खानामालयं सकलापदाम् । आश्रयं सर्वपापानां संसारं वर्जयेत्क्षणात् ॥ २,४९.
लोहदारुमयैः पाशैः पुमान्बद्धो विमुच्यते । पुत्त्रदारमयैः पाशैर्मुच्यते न कदाचन ॥ २,४९.
यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः ॥ २,४९.
वञ्चिताशेषवित्तैस्तैर्नित्यं लोको विनाशितः । हा हन्त विषयाहारैर्देहस्थोन्द्रियतस्करैः ॥ २,४९.
मांसलुब्धो यथा मत्स्यो लोहशङ्कुं न पश्यति । सुखलुब्धस्तथा देही यमवाधां न पश्यति ॥ २,४९.
हिताहितं न जानन्तो नित्यमुन्मार्गगामिनः । कुक्षिपूरणनिष्ठा ये ते नरा नारकाः खग ॥ २,४९.
निद्राभीमैथुनाहाराः सर्वेषां प्राणिनां समाः । ज्ञानवान्मानवः प्रोक्तो ज्ञानहीनः पशुः स्मृतः ॥ २,४९.
प्रभाते मलमूत्त्राभ्यां क्षुत्तृड्भ्यां मध्यगे रवौ । रात्रौ मदननिद्राभ्यां बाध्यन्ते मूढमानवाः ॥ २,४९.
स्वदेहधनदारादिनिरताः सर्वजन्तवः । जायन्ते च म्रियन्ते च हा हन्ताज्ञानमोहिताः ॥ २,४९.
तस्मात्सङ्गः सदा त्याज्यः सचेत्त्यक्तुं न शक्यते । महद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥ २,४९.
सत्सङ्गश्च विवेकश्च निर्मलं नयनद्वयम् । यस्य नास्ति नरः सोऽन्धः कथं न स्यादमार्गगः ॥ २,४९.
स्वस्ववर्णाश्रमाचारनिरताः सर्वमानवाः । न जानन्ति परं धर्मं वृथा नश्यन्ति दाम्भिकाः ॥ २,४९.
किमायासपराः केचिद्व्रतचर्यादिसंयुताः । अज्ञानसंवृतात्मानः सञ्चरन्ति प्रचारकाः ॥ २,४९.
नाममात्रेण सन्तुष्टाः कर्मकाण्डरता नराः । मन्त्रोच्चारणहोमाद्यैर्भ्रामिताः क्रतुविस्तरैः ॥ २,४९.
एकभुक्तोपवासाद्यैर्नियमैः कायशोषणैः । मूढाः परोक्षमिच्छन्ति मम मायाविमोहिताः ॥ २,४९.
देहदण्डनमात्रेण का मुक्तिरविवेकिनाम् । वल्मीकताडनादेव मृतः किन्नु महोरगः ॥ २,४९.
जटाभाराजिनैर्युक्ता दाम्भिका वेषधारिणः । भ्रमन्ति ज्ञानिवल्लोके भ्रामयन्ति जनानपि ॥ २,४९.
संसारजसुखासक्तं ब्रह्मज्ञोऽस्मीतिवादिनम् । कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा ॥ २,४९.
गृहारण्यसमा लोके गतव्रीडा दिगम्बराः । चरन्ति गर्दभाद्याश्च विरक्तास्ते भवन्ति किम् ॥ २,४९.
मृद्भस्मोद्धूलनादेव मुक्ताः स्युर्यदि मानवाः । मृद्भस्मवासी नित्यं श्वा स किं मुक्तो भविष्यति ॥ २,४९.
तृणपर्णोदकाहाराः सततं वनवासिनः । जम्बूकाखुमृगाद्याश्च तापसास्ते भवन्ति किम् ॥ २,४९.
आजन्ममरणान्तञ्च गङ्गादितटिनीस्थिताः । मण्डूकमत्स्यप्रमुखा योगिनस्ते भवन्ति किम् ॥ २,४९.
पारावताः शिलाहाराः कदाचिदपि चातकाः । न पिबन्ति महीतोयं व्रतिनस्ते भवन्ति किम् ॥ २,४९.
तस्मान्नित्यादिकं कर्म लोकरञ्जनकारकम् । मोक्षस्य कारणं साक्षातत्त्वज्ञान खगेश्वर ॥ २,४९.