स्थावराः कृमयश्चाजाः पक्षिणः पशवो नगः । धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥ २,४९.
चतुर्विधशरीराणि धृत्वा मुक्त्वा सहस्रशः । सुकृतान्मा नवो भूत्वा ज्ञानी चेन्मोक्षमाप्नुयात् ॥ २,४९.
चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् । न मानुषं विनान्यत्र तत्त्वज्ञानन्तु लभ्यते ॥ २,४९.
अत्र जन्मसहस्राणां सहस्रैरपि कोटिभिः । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥ २,४९.
सोपानभूतं मोक्षस्य मानुष्यं प्राप्य दुर्लभम् । यस्तार यति नात्मानं तस्मात्पापतरोऽत्र कः ॥ २,४९.
नरः प्राप्येतरज्जन्म लब्ध्वा चेन्द्रियसौष्ठवम् । न वेत्त्यात्महितं यस्तु स भवेद्ब्रह्मघातकः ॥ २,४९.
विना देहेन कस्यापि पुरुषार्थो न विद्यते । तस्माद्देहं धनं रक्षेत्पुण्यकर्माणि साधयेत् ॥ २,४९.
रक्षेच्चसर्वदात्मानमात्मा सर्ब्वस्य भाजनम् । रक्षणे यत्नमातिष्ठेज्जीवन् भद्राणि पश्यति ॥ २,४९.
पुनर्ग्रामः पुनः क्षेत्र पुनर्वित्तं पुनर्गृहम् । पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः ॥ २,४९.
शरीररक्षणोपायाः क्रि यन्ते सर्वदा बुधैः । नेच्छन्ति च पुनस्त्यागमपि कुष्ठादिरोगिणः ॥ २,४९.
तद्गोपितं स्याद्धर्मार्थं धर्मो ज्ञानार्थमेव च । ज्ञानं तु ध्यानयोगार्थमचिरात्प्रविमुच्यते ॥ २,४९.
आत्मैव यदि नात्मानमहीतेभ्यो निवारयेत् । कोऽन्यो हितकरस्तस्मादात्मानं सुखयिष्यति ॥ २,४९.
इहैव नरकव्याधेश्चिकित्सां न करोति यः । गत्वा निरौषधं देशं व्याधिम्थः किं करिष्यति ॥ २,४९.
व्याघ्रीवास्ते जरा चायुर्याति भिन्नघटाम्बुवत् । निघ्नन्ति रिपुवद्रोगास्तस्माच्छ्रेयः समभ्यसेत ॥ २,४९.
यावन्नाश्रयते दुः खं यावन्नायान्ति चापदः । यावन्नेन्द्रियवैकल्यं तावच्छ्रेयः समभ्यसेत् ॥ २,४९.
यावत्तिष्ठति देहोऽयं तावत्तत्त्वं समभ्यसेत् । सन्दीप्तकोशभवने कूपं खनति दुर्मतिः ॥ २,४९.
कालो न ज्ञायते नानाकार्यैः संसारसम्भवैः । सुखं दुःखं जनो हन्त न वेत्ति हितमात्मनः ॥ २,४९.
जातानार्तान्मृतानापद्भष्टान्दृष्ट्वा च दुः खितान् । लोको मोहसुरां पीत्वा न बिभेति कदाचन ॥ २,४९.
सम्पदः स्वप्नसंकाशा यौवनं कुसुमोपमम् । तडिच्चपलमायुष्यं कस्य स्याज्जानतो धृतिः ॥ २,४९.
शतं जीवितमत्यल्पं निद्रालस्यैस्तदर्धकम् । बाल्यरोगजरादुः खैरल्पं तदपि निष्फलम् ॥ २,४९.
प्रारब्धव्ये निरुद्योगी जागर्तव्ये प्रसुप्तकः । विश्वस्तश्च भयस्थाने हा नरः को न हन्यते ॥ २,४९.
तोयफेनसमे देहे जीवेनाक्रम्य संस्थिते । अनित्याप्रयसवासे कथ तिष्ठति निर्भयः ॥ २,४९.
अहिते हितसंज्ञः स्यादध्रुवे ध्रुवसंज्ञकः । अनर्थे चार्थविज्ञानः स्वमर्थं यो न वेत्ति सः ॥ २,४९.
पश्यन्नपि प्रस्खलति शृण्वन्नपि न बुध्यति । पठन्नपि न जानाति देवमायाविमोहितः ॥ २,४९.
तन्निमज्जज्जगदिदं गम्भीरे कालसागरे । मृत्युरोगजराग्राहैर्न कश्चिदपि बुध्यते ॥ २,४९.
प्रतिक्षणभयं कालः क्षीयमाणो न लक्ष्यते । आमकुंभ इवांभः स्थो विशीर्णो न विभाव्यते ॥ २,४९.
युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् । ग्रथनञ्च तरङ्गाणामास्था नायुषि युज्यते ॥ २,४९.
पृथिवी दह्यते येन मेरुश्चापि विशीर्यते । शुष्यते सागरजलं शरीरस्य च का कथा ॥ २,४९.
अपत्यं मे कलत्रं मे धनं मे बान्धवाश्च मे । जल्पन्तमिति मर्त्याजं हन्ति कालवृको बलात् ॥ २,४९.
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् । एवमीहासमायुक्तं कृतान्तः कुरुते वशम् ॥ २,४९.