कृच्छ्रेण लक्ष्मीः समुपार्जिता स्वयं मया न भुक्तं मनसेप्सितं धनम् । ताम्बूलमन्नं मधुरं सगोरसं दत्त्वाग्निदेवातिथिबन्धुवर्गे ॥ २,४८.
सोमग्रहे सूर्यसमागमेपि वा न सेवितं तीर्थवरिष्ठमुत्तमम् । कोशं स्वकीयं मलमूत्रपूरितं देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,४८.
मया न दृष्टा न नता न पूजिता त्रैविक्रमी मूर्तिरिह स्थिता भुवि । प्रभासनाथो न च भक्तिसंस्तुतो देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,४८.
गत्वा वरिष्ठे भुवि तीर्थसन्निधौ धनं न दत्तं विदुषां करे मया । आप्लुत्य देहं विधिना द्विजे गुरौ दिहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,४८.
न मातृपूजा न च विष्णुशङ्करौ गणेशचणड्यौ न च भास्करोऽपि वा । यञ्चोपचारैर्बलियुक्तचन्दनैर्देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,४८.
लब्धा मया मानवदेवतोपमा मोहाद्गता सर्वमिदञ्च पार्थिव । गतिं न वीक्षेत स वै विमूढधीर्देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,४८.
एतानि पक्षिन्मनसा विचिन्त्य वाक्यानि धर्मार्थयशस्कराणि । मुक्तिं समायान्ति मनुष्यलोके वसन्ति ये धर्मरताः सुदेशे ॥ २,४८.
इति ब्रुवाणैर्यमधूतवर्गैर्विहन्यते कालमयैश्च मुद्गरैः । हा दैव हा दैव इति स्मरन् वै धनं न दत्तं स्वयमर्जितं यत् ॥ २,४८.
न भूमिदानं न च गोप्रदानं न वारिदानं न च वस्त्रदानम् । फलं सताम्बूलविलेपनं वा त्वया न दत्तं भुवि शोचसे कथम् ॥ २,४८.
पिता मृतस्ते च पितामहः सा यया धृतो वाप्युदरे स्वकीये । मृतोऽप्यसौ बन्धुजनः समस्तो दृष्टं त्वया सर्वमिदं गतायः ॥ २,४८.
कोशं त्वदीयं ज्वलितञ्च वह्निना पुत्त्रैर्गृहीतो धनधान्य सञ्चयः । सुभाषितं धर्मचयं कृतञ्च यत्तदेव गच्छेत्तव पृष्ठसंस्थम् ॥ २,४८.
न दृश्यते कोऽपि मृतः समागतो राजा यतिर्वा द्विजपुङ्गवोऽपि वा । यो वै मृतः साहसिकः स मर्त्यको नाशं योऽपि धरातले स्थितः ॥ २,४८.
एवं गणास्ते ब्रुवते सकिन्नरा धैर्यं समालम्ब्य विपादपूरितः । श्रुत्वा गणानां वचनं महाद्भुतं ब्रवीति पक्षीन्द्र मनुष्यतां गतः ॥ २,४८.
दानप्रभावेण विमानसंस्थितो धर्मः पिता मातृदयानुरूपिणी । वाणी कलत्रं मधुरार्थभाषिणी स्नानं सुतीर्थे च सुबन्धवर्गः ॥ २,४८.
करार्पितं यत्सुकृतं समस्तं स्वर्गस्तदा स्यात्तव किङ्करोपमः । यो धर्मवान् प्राप्स्यति सोऽतिसौख्यं पापी समस्तं विविधञ्च दुःखम् ॥ २,४८.
यो धर्मशीलो जितमानरोषो विद्याविनीतो न परोपतापी । स्वदारतुष्टः परदारदूरःस वै नरो नो भुवि वन्दनीयः ॥ २,४८.
मिष्टान्नदाता चरिताग्निहोत्रो वेदान्तविच्चन्द्रसहस्रजीवी । मासोपवासी च पतिव्रता चषड्जीवलोके मम वन्दनीयाः ॥ २,४८.
एवं समाचारयुतो नरोऽपि वापीं सकूपां सजलं तडागम् । प्रपाशुभं हृद्गृहदेवमन्दिरं कृतं नरेणैव स धर्मौत्तमः ॥ २,४८.
वर्षाशनं वेदविदे च दत्तं कन्याविवाहस्त्वृणमोचनं द्विजे । भूमिः सुकृष्टापि तृषार्तिहेतोस्तदेवमेतं सुकृतत्समस्तम् ॥ २,४८.
अध्यायमेनं सुकृतस्य सारं शृणोति गायत्यपि भावशुद्ध्या । स वै कुलीनः स च धर्मयुक्तो विश्वालयं याति परं स नूनम् ॥ २,४८.
श्रीगरुडमहापुराणम् ४९ गरुड उवाच । श्रुता मया दयासिन्धो ह्यज्ञानाज्जीवसंसृतिः । अधुना श्रोतुमिच्छामि मोक्षोपायं सनातनम् ॥ २,४९.
भगवन्देवदेवेश शरणागतवत्सल । असारे घोरसंसारे सर्वदुः खमलीमसे ॥ २,४९.
नानाविधशरीरस्था अनन्ता जीवराशयः । जायन्ते च म्रियन्ते च तेषामन्तो न विद्यते ॥ २,४९.
सदा दुः खातुरा एव न सखी विद्यते क्कचित् । केनोपायेन मोक्षेश मुच्यन्ते वद मे प्रभो ॥ २,४९.
श्रीभगवानुबाच । शृणु तार्क्ष्य प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि । यस्य श्रवणमात्रेण संसारान्मुच्यते नरः ॥ २,४९.
अस्ति देवः परब्रह्मस्वरूपो निष्कलः शिवः । सर्वज्ञः सर्वकर्ता च सर्वेशो निर्मलोऽद्वयः ॥ २,४९.
स्वयञ्ज्योतिरनाद्यन्तो निर्विकारः परात्परः । निर्गुणः सच्चिदानन्दस्तदंशा जीवसंज्ञकाः ॥ २,४९.
अनाद्यविद्योपहता यथाग्नौ विस्फुलिङ्गकाः । देहाद्युपाधिसम्भिन्नास्ते कर्मभिरनादिभिः ॥ २,४९.
सुखदुः खप्रदैः पुण्यपारूपैर्नियन्त्रिताः । तत्तज्जातियुतं देहमायुर्भोगञ्च कर्मजम् ॥ २,४९.
प्रतिजन्म प्रपद्यन्ते तेषामपि परं पुनः । ससूक्ष्मलिङ्गशरीरमामोक्षादक्षरं खग ॥ २,४९.