अष्टाविंशभुजा ध्येया अष्टादशभुजाथवा 38.
असिखेटान्वितौ हस्तौ गदादण्डयुतौ परौ 38.
खंखघण्टान्वितौ चान्यौ ध्वजदण्डयुतौ परौ 38.
शक्तिहस्ताश्रितौ चान्यौ रटोणी मुसलान्वितौ 38.
तर्जयन्ती परेणैव अन्यं कलकलध्वनिम् 38.
जय त्वं किल भूतेशे सर्वभूतसमावृते 38.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दुर्गाजपपूजाबलिमंत्रनिरूपणं नामाष्टत्रिंशोऽध्यायः
पुनर्देवार्चनं ब्रूहि संक्षेपेण जनार्दन 39.
श्रृणु सूर्य्यस्य रुद्र त्वं पुनर्वक्ष्यामि पूजनम् ॐ दण्डिने नमः एते द्वारे प्रपूज्या वै एपिर्मन्त्रैर्वृषध्वज ।। 39.
ॐ अं प्रभूताय नमः ॐ अं विमलाय नमः ॐ अं आधाराय नमः इत्याग्नेयादिकोणएषु पूज्या वै विमलादयः ।। 39.
ॐ पद्माय नमः मघ्ये तु पूजयेद्रुद्र पूर्वादिषु तथैव च ॐ वां(रां) दीप्तायै नमः ॐ वूं (रूं भद्रायै नमः ॐ वौं (रौं) विभूत्यै नमः ॐ वं (रं) वैद्युतायै नमः ॐ रो सर्वतोमुख्यै नमः ।। 39.
ॐ अर्कासनाय नमः एतास्तु पूजयेन्मध्ये ह्रन्मंत्राञ्छृणु शङ्कर अनेनावाहनं कुर्य्यात्स्थापनं सन्निधापनम् 39.
मुद्राया दर्शनं रुद्र मूलमन्त्रेण वा हर एकचक्ररथारूढं द्विबाहुं धृतपङ्कजम् ।। 39.
एवं ध्यायेत्सदा सूर्य्यं मूलमन्त्रं श्रृणुष्व च 39.
वारत्रयं पद्ममुद्रां बिम्बमुद्रां च दर्शयेत् ॐ अर्काय शिरसे स्वाहा ॐ हुं कवचाय हुं ॐ वः अस्त्राय फडिति ।। 39.
आग्नेय्यामथवैशान्यां नैर्ऋत्यामर्चयेद्धर 39.
दिस्वस्त्रं पूजयेद्रुद्र सोमं तु श्वेतवर्णकम् 39.
दक्षिणे पूजयेद्रुद्र पतिवर्णं गुरुं यजेत् 39.
रक्तमङ्गारकं चैव आग्नेये पूजयेद्धर 39.
राहुं वायव्यदेशे तु नन्द्यावर्त्तनिभिं हर 39.
एभिर्मन्त्रैर्महादेव तच्छृणुष्व च शङ्कर ।। 39.
ॐ सों सोमाय नमः ॐ बृं बृहस्पतये नमः ॐ अं अंगारकाय नमः ॐ रं राहवे नमः 39.
पाद्यादीन्मूलमन्त्रेण दत्त्वा सूर्य्याय शङ्कर 39.
जप्त्वा चाष्टसहस्त्रं तु तच्च तस्मै समर्पयेत् 39.
ॐ तेजश्चण्डाय हुं फट् स्वधा स्वाहा पौषट् 39.
तिलतण्डुलसंयुक्तं रक्तचन्दनचर्चितम् 39.
कृत्वा शिरसि तत्पात्रं जानुभ्यामवनिं गतः 39.
गणं गुरून्प्रपूज्याथ सर्वान्देवानन्प्रपूजयेत् ॐ अं गुरुभ्यो नमः ।। 39.
सूर्य्यस्य कथिता पूजा कृत्वैतां विष्णुलोकभाक् ।। 39.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चनप्रकारो नामैकोनचत्वारिंशोऽध्यायः