विष्णुर्माता पिता विष्णुर्विष्णुः स्वजनबान्धवाः । येषामेव स्थिरा बुद्धिर्न तेषां दुर्गतिर्भवेत् ॥ २,४७.
मङ्गलं भगवान्विष्णुर्मङ्गलं गरुडध्वजः । मङ्गलं पुण्डरीकाक्षो मङ्गलायतनं हरिः ॥ २,४७.
हरिर्भागीरथी विप्रा विप्रा भागीरथी हरिः । भागीरथी हरिर्विप्राः सारमेतज्जगत्त्रये ॥ २,४७.
इति सूतमुखोद्गीर्णां सर्वशास्त्रार्थमण्डिताम् । वैष्णविं वाक्सुधां पीत्वा ऋषयस्तुष्टिमाययुः ॥ २,४७.
प्रशशंसुस्तथान्योन्यं सूतं सर्वार्थदर्शिनम् । प्रहर्षमतुलं प्रापुर्मुनयः शौनकादयः ॥ २,४७.
अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरं शुचिः ॥ २,४७.
श्रीगरुडमहापुराणम् ४८ तार्क्ष्य उवाच । ये मर्त्यलोके निवसन्ति मानवास्ते सर्वजातौ निधनं प्रयान्ति । काले स्वकीये निजपुण्यसंख्यया वदन्ति लाक कथस्व तन्मे ॥ २,४८.
गच्छन्ति मार्गेण सुदुस्तरेण विधातृनिष्पादितवर्त्मनि स्थिताः । केनैव पुण्येन मुदं प्रयान्ति तिष्ठन्ति केनैव कुलं बलं वयः ॥ २,४८.
सूत उवाच । श्रुत्वाथ देवो गरुडं त्ववोचत्स्मृत्वा वपुः कर्मभयञ्च रूपम् । सृष्टा धरा येन चराचरं जगत्स येन शस्ता विहितो यमो विभुः ॥ २,४८.
श्रीभगवानुवाच । धर्मार्थकामं चिरमोक्षसञ्चयमन्यं द्वितीयं यममार्गगामिनाम् । प्रविश्यचाङ्गुष्ठसमे स तत्र वै तं प्राप्य देहं स्वमन्दिरम्? ॥ २,४८.
गृहीतपाशो रुदते पुनः पुनर्देशे सुपुण्ये द्विज देहसंस्थितः । देवेन्द्रपूजा पितृदेवतृप्तिदं मोहान्न चेष्टं न च पुत्त्रसन्ततिः ॥ २,४८.
न मेऽस्ति बन्धुर्यममार्गगामिनो मया न कृत्यं द्विजदेहलिप्सया । सम्प्राप्य विप्रत्वमतीव दुर्लभं नाधीतवान्वेदपुराणसंहिताः । प्राप्तं सुरत्नं करसंस्थितं गतं देहन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,४८.
यः क्षत्त्रियो बाहुबलेन संयुगे ललाटदेशाद्रुधिरं मुखे पपौ । तत्सोमपानं हि कृतं महामखे जीवन्मृतः सोऽपि हि याति मुक्तिक् ॥ २,४८.
स्थानान्यनेकानि कृतानि तानि पीतान्यनेकान्यपि गर्हितानि । शस्त्रं गृहीत्वा समरे रिपूणां यः संमुखं याति स मुक्तपापः ॥ २,४८.
क्षत्त्रान्वयो वापि विशोन्वयो वा शूद्रान्वयो वापि हि नीचवर्णः । संग्रामदेवद्विजबालघाती स्त्रीवृद्धहा दीनतपस्विहन्ता ॥ २,४८.
उपद्रुतेष्वेषु पराङ्मुखो यः स्युस्तस्य देवाः सकलाः पराङ्मुखाः । तिलोदकं नैव पिबन्ति पूर्वे हुतं न गृह्णाति हुताशनोपि तत् ॥ २,४८.
द्वेषाद्भयाद्वा समरे समागते शस्त्रं गृहीत्वा परसैन्यसंमुखः । न याति पक्षीन्द्र मृश्च पश्चात्क्षात्त्रं बलं तस्य गतं तथैव । द्विजाय दत्त्वा कनकं महीमिमां भूयः स पश्चाद्भवतीह लोके ॥ २,४८.
दानं प्रदत्तं ग्रहणे द्विजेन्द्रे स्नानं कृतं तेन सदा सुतीर्थे । गत्वा गयायां पितृपिण्डदानं कृतं सदा यो म्रियते तु युद्धे ॥ २,४८.
यः क्षात्त्रदेहन्तु विहाय शोचते रणाङ्गणे स्वामिवधे च गोग्रहे । स्त्रीबालघाते पथि सार्थहेतवे मया स्वकोशं न हतं न पातितम् ॥ २,४८.
वैश्यः स्वकर्माणि विशोचते तदा गृहीतपाशो न मयापि सञ्चितम् । सत्यं न चोक्तं क्रय विक्रयेण मोहाद्विमूढेन कुटुम्बहेतवे ॥ २,४८.
शूद्रं वपुः प्राप्य यशस्करं सदा दानं द्विजेभ्यो न कृतं द्विजार्चनम् । च्दृदद्यत्दद्वड्ढ ढद्धदृथ्र्ददृध्ड्ढथ्र्डड्ढद्ध जलाशयो नैव कृतो धरातले असंस्कृतो विप्रवरो न संस्कृतः ॥ २,४८.
त्यक्त्वा स्वकर्माणि मदेन सुस्थितं मया सुतीर्थे स्ववपुर्न चोज्झितम् । धर्मोर्जितो नैव न देवपूजनं कृतं मया चैव विमुक्तिहेतवे ॥ २,४८.
देहं समासाद्य तथैव पिण्डजं वर्णांस्तथैवान्त्यजम्लेच्छसंज्ञितान् । मरुन्मयं देहमिमे विशन्ति नैवेहमानाः पथि धर्मसंकुले ॥ २,४८.
परस्परं धर्मकृन्तं स्वकीयं सम्पाद्य लक्ष्यं पथि सञ्चरन्त्स्वम् । पक्षीन्द्र वाक्यानि शृणुष्व तानि मनोरमाणि प्रवदन्ति यानि ॥ २,४८.
सारा हि लोकेषु भवेत्त्रिलोकी द्वीपेषु सर्वेषु च जम्बुकाख्यम् । देशेषु सर्वेष्वपि देवदेशः जीवेषु सर्वेषु मनुष्य एव ॥ २,४८.
वर्णाश्च चत्वार इह प्रशस्ताः वर्णेषु धर्मिष्ठनराः प्रशस्ताः । धर्मेण सौख्यं समुपैति सर्वं ज्ञानं समाप्नोति महापथे स्थितः ॥ २,४८.
देहं परित्यज्य यदा गतायुः पक्षिन् स्थितोऽहं कृमिकीटसंस्थितः । सरीसृपोऽहं मशको विनिर्मितश्चतुष्पदोऽहं वनसूकरोऽहम् ॥ २,४८.
सर्वं विजानाति हि गर्भसंस्थितो जातश्च सद्यस्तदिदञ्च विस्मरेत् । यच्चिन्तितं गर्भसमागतेन वै बालो युवा वृद्धवया बभूव ॥ २,४८.
मोहाद्विनाष्टं यदि गर्भचिन्तितं स्मृतं पुनर्मृत्युगते चदेहे । तस्मिन्प्रनष्टे हृदि चिन्तितं गतं स्मृतं पुनर्गर्भगते च देहे ॥ २,४८.
तस्मिन्प्रनष्टे हृदि चिन्तितं पुनर्मया स्वकोशे परवञ्चनं कृतम् । द्यूतैश्छलेनापि च चौर्यवृत्त्या धर्मं व्यतिक्रम्य शरीररक्षणे ॥ २,४८.