सुकृतस्य प्रभावेण सुखञ्चेह परत्र च । स्वस्थे सहस्रगुणितमातुरे शतसंमितम् ॥ २,४७.
मृतस्यैव तु यद्दानं परोक्षे तत्समं स्मृतम् । स्वहस्तेन ततो देयं मृते कः कस्य दास्यती ॥ २,४७.
दानधर्मविहीनानां कृपणैर्जीवेतक्षितैः । अस्थिरेण शरीरेण स्थिरं कर्म समाचरेत् ॥ २,४७.
अवश्यमेव यास्यन्ति प्राणाः प्राघुणि (घूर्णि) का इव ॥ २,४७.
इतीदमुक्तं तव पक्षिराज विडम्बनं जन्तुगणस्य सर्वम् । प्रेतस्य मोक्षाय तदौद्ध्वन्दैहिकं हिताय लोकस्य चरेच्छुभाय तु ॥ २,४७.
सूत उवाच । एवं विप्राः समाद्दिष्टो विष्णुना प्रभविष्णुना । गरुड प्रेतचरितं श्रुत्वा सन्तुष्टिमागतः ॥ २,४७.
व्रततीर्थादिकं सर्वं पुनः पप्रच्छ केशवम् । ध्यात्वा मनसि सर्वेशं सर्वकारणकारणम् ॥ २,४७.
ऋषयः सर्वमेवैतज्जन्तूनां प्रभवादिकम् । मरणं जन्म च तथा प्रेतत्वञ्चौर्ध्वदैहिकम् ॥ २,४७.
मया प्रोक्तं वै मुक्त्यै निदानं चैव सर्वशः । लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ २,४७.
धर्मो जयति नाधर्मः सत्यं जयति नानृतम् । क्षमा जयति न क्रोधो विष्णुर्जयति नासुराः ॥ २,४७.
विष्णुर्माता पिता विष्णुर्विष्णुः स्वजनबान्धवाः । येषामेव स्थिरा बुद्धिर्न तेषां दुर्गतिर्भवेत् ॥ २,४७.
मङ्गलं भगवान्विष्णुर्मङ्गलं गरुडध्वजः । मङ्गलं पुण्डरीकाक्षो मङ्गलायतनं हरिः ॥ २,४७.
हरिर्भागीरथी विप्रा विप्रा भागीरथी हरिः । भागीरथी हरिर्विप्राः सारमेतज्जगत्त्रये ॥ २,४७.
इति सूतमुखोद्गीर्णां सर्वशास्त्रार्थमण्डिताम् । वैष्णविं वाक्सुधां पीत्वा ऋषयस्तुष्टिमाययुः ॥ २,४७.
प्रशशंसुस्तथान्योन्यं सूतं सर्वार्थदर्शिनम् । प्रहर्षमतुलं प्रापुर्मुनयः शौनकादयः ॥ २,४७.
अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरं शुचिः ॥ २,४७.
श्रीगरुडमहापुराणम् ४८ तार्क्ष्य उवाच । ये मर्त्यलोके निवसन्ति मानवास्ते सर्वजातौ निधनं प्रयान्ति । काले स्वकीये निजपुण्यसंख्यया वदन्ति लाक कथस्व तन्मे ॥ २,४८.
गच्छन्ति मार्गेण सुदुस्तरेण विधातृनिष्पादितवर्त्मनि स्थिताः । केनैव पुण्येन मुदं प्रयान्ति तिष्ठन्ति केनैव कुलं बलं वयः ॥ २,४८.
सूत उवाच । श्रुत्वाथ देवो गरुडं त्ववोचत्स्मृत्वा वपुः कर्मभयञ्च रूपम् । सृष्टा धरा येन चराचरं जगत्स येन शस्ता विहितो यमो विभुः ॥ २,४८.
श्रीभगवानुवाच । धर्मार्थकामं चिरमोक्षसञ्चयमन्यं द्वितीयं यममार्गगामिनाम् । प्रविश्यचाङ्गुष्ठसमे स तत्र वै तं प्राप्य देहं स्वमन्दिरम्? ॥ २,४८.
गृहीतपाशो रुदते पुनः पुनर्देशे सुपुण्ये द्विज देहसंस्थितः । देवेन्द्रपूजा पितृदेवतृप्तिदं मोहान्न चेष्टं न च पुत्त्रसन्ततिः ॥ २,४८.
न मेऽस्ति बन्धुर्यममार्गगामिनो मया न कृत्यं द्विजदेहलिप्सया । सम्प्राप्य विप्रत्वमतीव दुर्लभं नाधीतवान्वेदपुराणसंहिताः । प्राप्तं सुरत्नं करसंस्थितं गतं देहन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,४८.
यः क्षत्त्रियो बाहुबलेन संयुगे ललाटदेशाद्रुधिरं मुखे पपौ । तत्सोमपानं हि कृतं महामखे जीवन्मृतः सोऽपि हि याति मुक्तिक् ॥ २,४८.
स्थानान्यनेकानि कृतानि तानि पीतान्यनेकान्यपि गर्हितानि । शस्त्रं गृहीत्वा समरे रिपूणां यः संमुखं याति स मुक्तपापः ॥ २,४८.
क्षत्त्रान्वयो वापि विशोन्वयो वा शूद्रान्वयो वापि हि नीचवर्णः । संग्रामदेवद्विजबालघाती स्त्रीवृद्धहा दीनतपस्विहन्ता ॥ २,४८.
उपद्रुतेष्वेषु पराङ्मुखो यः स्युस्तस्य देवाः सकलाः पराङ्मुखाः । तिलोदकं नैव पिबन्ति पूर्वे हुतं न गृह्णाति हुताशनोपि तत् ॥ २,४८.
द्वेषाद्भयाद्वा समरे समागते शस्त्रं गृहीत्वा परसैन्यसंमुखः । न याति पक्षीन्द्र मृश्च पश्चात्क्षात्त्रं बलं तस्य गतं तथैव । द्विजाय दत्त्वा कनकं महीमिमां भूयः स पश्चाद्भवतीह लोके ॥ २,४८.
दानं प्रदत्तं ग्रहणे द्विजेन्द्रे स्नानं कृतं तेन सदा सुतीर्थे । गत्वा गयायां पितृपिण्डदानं कृतं सदा यो म्रियते तु युद्धे ॥ २,४८.
यः क्षात्त्रदेहन्तु विहाय शोचते रणाङ्गणे स्वामिवधे च गोग्रहे । स्त्रीबालघाते पथि सार्थहेतवे मया स्वकोशं न हतं न पातितम् ॥ २,४८.
वैश्यः स्वकर्माणि विशोचते तदा गृहीतपाशो न मयापि सञ्चितम् । सत्यं न चोक्तं क्रय विक्रयेण मोहाद्विमूढेन कुटुम्बहेतवे ॥ २,४८.