कन्याविदूषकश्चैव दानं दत्त्वानुतापकः । शूबद्रस्तु कपिलापायी ब्राह्मणो मांसभोजनः ॥ २,४७.
एते वसन्ति सततं मा विचारं कृथाः क्वचित् । कृपणो नास्तिकः क्षुद्रः स तस्यां निवसेत्खग ॥ २,४७.
सदामर्षो सदा क्रोधी निजवाक्यप्रमाणकृत् । परोक्त्युच्छेदको नित्यं वैतरण्या वसेच्चिरम् ॥ २,४७.
यस्त्वहङ्कारवान्पापी स्वविकत्थनकारकः । कृतघ्नो गर्भसन्तापी वैतरण्यां स मज्जति ॥ २,४७.
कदापि भाग्ययोगेन तरणेच्छा भवेद्यदि । सानुकूला भवेद्येन तदाकर्णय काश्यप ॥ २,४७.
अयने विषुवे पुण्ये व्यतीपाते दिनोदये । चन्द्रसूर्योपरागे वा संक्रान्तौ दर्शवासरे ॥ २,४७.
अन्येषु पुण्यकालेषु दीयते दानमुत्तमम् । यदा तदा भवेद्वापि श्राद्धा दानं प्रति ध्रुवम् ॥ २,४७.
तदैब दानकालः स्याद्यतः सम्पत्तिरस्थिरा । अनित्यानि शरीराणि विभवो नैव शाश्वतः ॥ २,४७.
नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंगहः । कृष्णां वा पाटलां वापि कुर्याद्वैतरणीं शुभाम् ॥ २,४७.
स्वर्णशृङ्गीं रौप्यखुरां कांस्यपात्रोपदोहनीम् । कृष्णवस्त्रयुगाच्छन्नां सप्तधान्यसमन्विताम् ॥ २,४७.
कार्पासद्रोणशिखरे आसीनं ताम्रभाजने । यमं हैमं प्रकुर्वीत लोहदण्डसमन्वितम् । इक्षुदण्डमयं बद्ध्वा प्लवं सुदृढबन्धनैः ॥ २,४७.
उडुपोपरि तां धेनुं सूर्यदेहसमुद्भवाम् । कृत्वा प्रकल्पयेद्विप्रश्छत्रोपानहसंयुतम् ॥ २,४७.
अङ्गुलीयकवासांसि ब्राह्मणाय निवेदयेत् । इममुच्चारयेन्मन्त्रं संगृह्य सजलान्कुशान् ॥ २,४७.
यमद्वारे महाघोरे श्रुत्वा वैतरणीं तदीम् । तर्तुकामो ददाम्येनां तुभ्यं वैतरणीं नमः ॥ २,४७.
गावो मे अग्रतः सन्तु गावो मे सन्तु पार्श्वतः । गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ २,४७.
विष्णुरूप द्विजश्रेष्ठ मामुद्धर महीसुर । सदक्षिणा मया दत्ता तुभ्यं वैतरणीनमः ॥ २,४७.
धर्मराजञ्च सर्वेशं वैतरण्याख्यधेनुकाम् । सर्वं प्रदक्षिणीकृत्य ब्राह्मणाय निवेदयेत् ॥ २,४७.
पुच्छं संगृह्य धेन्वाश्च अग्रे कृत्वा तु वै व्दिजम् । धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये ॥ २,४७.
उत्तारणाय देवेशि वैतरण्ये नमोऽस्तु ते । अनुव्रजेत्तु गच्छन्तं सर्वं तस्य गृहं नयेत् ॥ २,४७.
एवं कृते वैनतेय सा सरित्सुतरा भवेत् । सर्वान्कामानवाप्नोति यो दद्याद्भुवि मानवः ॥ २,४७.
सुकृतस्य प्रभावेण सुखञ्चेह परत्र च । स्वस्थे सहस्रगुणितमातुरे शतसंमितम् ॥ २,४७.
मृतस्यैव तु यद्दानं परोक्षे तत्समं स्मृतम् । स्वहस्तेन ततो देयं मृते कः कस्य दास्यती ॥ २,४७.
दानधर्मविहीनानां कृपणैर्जीवेतक्षितैः । अस्थिरेण शरीरेण स्थिरं कर्म समाचरेत् ॥ २,४७.
अवश्यमेव यास्यन्ति प्राणाः प्राघुणि (घूर्णि) का इव ॥ २,४७.
इतीदमुक्तं तव पक्षिराज विडम्बनं जन्तुगणस्य सर्वम् । प्रेतस्य मोक्षाय तदौद्ध्वन्दैहिकं हिताय लोकस्य चरेच्छुभाय तु ॥ २,४७.
सूत उवाच । एवं विप्राः समाद्दिष्टो विष्णुना प्रभविष्णुना । गरुड प्रेतचरितं श्रुत्वा सन्तुष्टिमागतः ॥ २,४७.
व्रततीर्थादिकं सर्वं पुनः पप्रच्छ केशवम् । ध्यात्वा मनसि सर्वेशं सर्वकारणकारणम् ॥ २,४७.
ऋषयः सर्वमेवैतज्जन्तूनां प्रभवादिकम् । मरणं जन्म च तथा प्रेतत्वञ्चौर्ध्वदैहिकम् ॥ २,४७.
मया प्रोक्तं वै मुक्त्यै निदानं चैव सर्वशः । लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ २,४७.
धर्मो जयति नाधर्मः सत्यं जयति नानृतम् । क्षमा जयति न क्रोधो विष्णुर्जयति नासुराः ॥ २,४७.