एवं प्रवर्तितं चक्रं भूतग्रामे चतुर्विधे । समुत्पत्तिर्विनाशश्च जायते तार्क्ष्य देहिनाम् ॥ २,४६.
स्वधर्मेणैवोर्ध्वगतिरधर्मेणाप्यधोगतिः । जायते सर्ववर्णानां स्वधर्मचलनात्खग ॥ २,४६.
देवत्वे मानुषत्वे च दानभोगादिकाः क्रियाः । या दृश्यन्ते वैनतेय तत्सर्वं कर्मजं फलम् ॥ २,४६.
अकर्मविहिते घोरे कामक्रोधार्जितेऽशुभे । पतेद्वै नरके भूयो तस्योत्तारो न विद्यते ॥ २,४६.
श्रीगरुडमहापुराणम् ४७ गरुड उवाच । भगवन्देवदेवेश कृपया परया वद । दानं दानस्य माहात्म्यं वैतरण्याः प्रमाणकम् ॥ २,४७.
श्रीकृष्ण उवाच । या सा वैतरणी नाम यममार्गे महासरित् । अगाधा दुस्तरा पापैर्दृष्टमात्रा भयावहा ॥ २,४७.
पूयशोणिततोयाढ्या मांसकर्दमसकुंला । पापिनञ्चागतान्दृष्ट्वा नानाभयसमावृता ॥ २,४७.
क्वाथ्यते सत्वरं तोयं पात्रमध्ये घृतं यथा । क्रिमिभिः सङ्कुलं पूयं वज्रतुण्डैः समावृतम् ॥ २,४७.
शिशुमारैश्च मकरैर्वज्रकर्तरिकायुतैः । अन्यैश्च जलजीवैश्च हिंसकैर्मांसभेदिभिः ॥ २,४७.
उद्यान्ति द्वादशादित्याः प्रलयान्ते तथा हि ते । तपन्ति तत्र वै मर्त्याः क्रन्द मानास्तु पापिनः ॥ २,४७.
हा भ्रातः पुत्र तातेति प्रलपन्ति मुहुर्मुहुः । विचरन्ति निमज्जन्ति ग्लानिं गच्छन्ति जन्तवः ॥ २,४७.
चतुर्विधैः प्राणिगणैर्दृष्टा व्याप्ता महानदी । तरन्ति गोप्रदानेन त्वन्यथा च पतन्ति ते ॥ २,४७.
मां नरा येऽवमन्यन्ते चाचार्यं गुरुमेव च । वृद्धानन्यांश्चापि मूढास्तेषां वासस्तु तत्र वै ॥ २,४७.
पतिव्रतां साधुशीलामूढां धर्मेषु निश्चलाम् । परित्यजन्ति ये मूढास्तेषां वासस्तु सन्ततम् ॥ २,४७.
विश्वासप्रतिपन्नानां स्वामिमित्रतपस्विनाम् । स्त्रीबालविकलादीनां वधं कृत्वा पतन्ति हि । पच्यन्ते तत्र मध्ये तु क्रन्दमानास्तु पापिनः ॥ २,४७.
शान्तं बुभुक्षितं विप्रंयो विघ्नायोपसर्पति । क्रिमिभिर्भक्ष्यते तत्र यावदाभूतसंप्लवम् ॥ २,४७.
ब्राह्मणाय प्रतीश्रुत्य यमार्थं न ददाति तम् । आहूय नास्ति यो ब्रूयात्तस्य वासस्तु तत्र वै ॥ २,४७.
अग्निदो गरदश्चैव कूटसाक्षी च मद्यपः । यज्ञविध्वंसकश्चैव राज्ञीगामी च पैशुनः ॥ २,४७.
कथाभङ्गकरश्चैव स्वयन्दत्ता पहारकः । क्षेत्रसेतुविभेदी च परदारप्रधर्षकः ॥ २,४७.
ब्राह्मणो रसविक्रेता तथा यो वृषलीपतिः । गोधनस्य तृषार्तस्य वाप्या भेदं करोति यः ॥ २,४७.
कन्याविदूषकश्चैव दानं दत्त्वानुतापकः । शूबद्रस्तु कपिलापायी ब्राह्मणो मांसभोजनः ॥ २,४७.
एते वसन्ति सततं मा विचारं कृथाः क्वचित् । कृपणो नास्तिकः क्षुद्रः स तस्यां निवसेत्खग ॥ २,४७.
सदामर्षो सदा क्रोधी निजवाक्यप्रमाणकृत् । परोक्त्युच्छेदको नित्यं वैतरण्या वसेच्चिरम् ॥ २,४७.
यस्त्वहङ्कारवान्पापी स्वविकत्थनकारकः । कृतघ्नो गर्भसन्तापी वैतरण्यां स मज्जति ॥ २,४७.
कदापि भाग्ययोगेन तरणेच्छा भवेद्यदि । सानुकूला भवेद्येन तदाकर्णय काश्यप ॥ २,४७.
अयने विषुवे पुण्ये व्यतीपाते दिनोदये । चन्द्रसूर्योपरागे वा संक्रान्तौ दर्शवासरे ॥ २,४७.
अन्येषु पुण्यकालेषु दीयते दानमुत्तमम् । यदा तदा भवेद्वापि श्राद्धा दानं प्रति ध्रुवम् ॥ २,४७.
तदैब दानकालः स्याद्यतः सम्पत्तिरस्थिरा । अनित्यानि शरीराणि विभवो नैव शाश्वतः ॥ २,४७.
नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंगहः । कृष्णां वा पाटलां वापि कुर्याद्वैतरणीं शुभाम् ॥ २,४७.
स्वर्णशृङ्गीं रौप्यखुरां कांस्यपात्रोपदोहनीम् । कृष्णवस्त्रयुगाच्छन्नां सप्तधान्यसमन्विताम् ॥ २,४७.