तद्वत्सत्यं मया ज्ञातं सुकृताच्छोभनं भवेत् । यतोत्कृष्टतमं पुण्यं तथोत्कृष्टतरोनरः ॥ २,४६.
एवन्तु श्रोतुमिच्छामि जायन्ते पापिनो यथा । येन कर्मविपाकेन यथा नियमभाग्भवेत् ॥ २,४६.
यांयां योनिमवाप्नोति यथारूपश्च जायते । तन्मे वद सुरश्रेष्ठ समासेनापि काङ्क्षितम् ॥ २,४६.
श्रीकृष्ण उवाच । शुभाशुभफलैस्तार्क्ष्य भुक्तभोगा नरास्त्विह । जायन्ते लक्षणैर्यैस्तुतानि मे शृणु काश्यप ॥ २,४६.
गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् । इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ २,४६.
प्रायश्चित्तेष्वचीर्णेषु यमलोका ह्यनेकधा । यातनाभिर्विमुक्ता ये यान्ति ते जीवसन्ततीम् ॥ २,४६.
गत्वा मानुषभावे तु पापचिह्ना भवन्ति ते । तान्यहं तव चिह्नानि कथयिष्ये खगोत्तम ॥ २,४६.
सोढ्वा वै यातनाः सर्वा गत्वा वैवस्वतक्षयम् । निस्तीर्णयातनास्ते तु लोकमायान्ति चिह्निताः ॥ २,४६.
गद्गदोऽनतवादी स्यान्मूकश्चैव गवानृते । ब्रह्महा जायते कुष्ठी श्यावदन्तश्च मद्यपः ॥ २,४६.
कुनखी स्वर्णहरणाद्दुश्चर्मा गुरुतल्पगः । संयोगी हीनयोनिः स्याद्दरिद्रोऽदत्तदानतः ॥ २,४६.
अयाज्ययाजको याति ग्राहमसूकरतां द्विजः । खरो वै बहुयाजी स्यात्काको निर्मन्त्रभोजनात् ॥ २,४६.
अपरीक्षितभोक्तारो व्याघ्राः स्युर्निर्जने वने । बहुतर्जको मार्जरः खद्योतः कक्षदाहकः ॥ २,४६.
पात्रे विद्याप्रदाता यो बलीवर्दो भवेत्तसः । अन्नं पर्युषितं विप्रे प्रददत्कुक्करो भवेत् ॥ २,४६.
मात्सर्यादपि जात्यन्धो जन्मान्धः पुस्तकं हरन् । फलान्याहरतोऽपत्यं म्रियते नात्र संशयः ॥ २,४६.
मृतो वानरतां याति तन्मुखो गण्डवान् भवेत् । अदत्त्वा भक्ष्यमश्राति अनपत्यो भवेत्तु सः ॥ २,४६.
हरन्वस्त्रं भवेद्गोधा गरदः पवनाशनः । प्रवज्यागमनाद्राजन् भवेन्मरुपिशाचकः ॥ २,४६.
चातको जलहर्ता स्याद्धान्यहर्ता च मूषिकः । अप्राप्तयौवनां सेवन् भवेत्सर्प इति श्रुतिः ॥ २,४६.
गुरुदाराभिलाषी च कृकलासो भवेद्ध्रुवम् । जलप्रस्त्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः ॥ २,४६.
अविक्रेयक्रयाच्चैव बको गृध्रो भवेन्नरः । अयोनिगो वृको हि स्यादुलूकः क्रयवञ्चनात् ॥ २,४६.
मृतस्यैकादशाहे तु भुञ्जानश्चाभिजायते । प्रतिश्रुत्य द्विजेभ्योर्ऽथमददज्जम्बुको भवेत् ॥ २,४६.
राज्ञरिं गत्वा भवेद्दंष्ट्री तस्करो विङ्वराहकः । शारिवा फलविक्रेता वृषश्च वृषलीपतिः ॥ २,४६.
मार्जरोऽग्निं पदा स्पृष्ट्वा रोगवान्परमांसभुक् । उदक्यागमनात्षण्डो दुर्गन्धश्च सुगन्धहृत् ॥ २,४६.
यद्वा तद्वापि पारक्यं स्वल्पं वा हरते बहु । हृत्वा वै योनिमाप्नोति तिरश्चां नात्र संशयः ॥ २,४६.
एवमादीनि चिह्नानि अन्यान्यपि खगेश्वर । स्वकर्मविततान्येव? दृश्यन्ते यैस्तु मानवैः ॥ २,४६.
एवं दुष्कृतकर्मा हि भुक्त्वा च नरकान्क्रमात् । जायते कर्मशेषेण उक्तास्वेतासु योनिषु ॥ २,४६.
ततो जन्मशतं मर्त्ये सर्वजन्तुषु काश्यप । जायते नात्र सन्देहः समीभूते शुभाशुभे ॥ २,४६.
स्त्रीपुंसयो प्रसङ्गेन निरुद्धे शुक्रसोणिते । समुपेतः पञ्चभूतैर्जायते पाञ्चभौतिकः ॥ २,४६.
इन्द्रियाणि मनः प्राणा ज्ञानमायुः सुखं धृतिः । धारणा प्रेरणं दुः खं मिथ्याहङ्कार एव च ॥ २,४६.
प्रयताकृतिवर्णस्तु रागद्वेषौ भवाभवौ । तस्येदमात्मनः सर्वमनादेरादिमिच्छतः ॥ २,४६.
स्वकर्म बद्धस्य तदा गर्भवृद्धिर्भवेदिति । पुरा यथा मया प्रोक्तं तव जन्तोर्हि लक्षणम् ॥ २,४६.