देवानुद्दिश्य विश्वादीन् यद्दद्याद्द्विजभोजनम् । तन्नित्यश्राद्धवत्कार्यं देवश्राद्धं तदुच्यते ॥ २,४५.
मातृश्राद्धन्तु पूर्वेण कर्मादौ पैतृकं तथा । उत्तरेऽहनि वृद्धौ स्यान्मातामहगणस्य तु ॥ २,४५.
श्राद्धत्रयं प्रकुर्र्वीत वैश्वदेवन्तुतान्त्रिकम् ॥ २,४५.
मातृभ्यः कल्पयेत्पूर्वं पितृभ्यस्तदनन्तरम् । मातामहेभ्यश्च तथा दद्यादित्थं क्रमेण तु ॥ २,४५.
मातृश्राद्धे तु विप्राणामभावे सुकुलोद्गताः । पतिपुत्रान्विताः साध्व्यो योषितोऽष्टौ च भावयेत् ॥ २,४५.
इष्टापूर्तादिके श्राद्धं कुर्यादाभ्युदयं तथा । उत्पातादिनिमित्तेषु नित्य श्राद्धवदेव तु ॥ २,४५.
नित्यं दैवञ्च वृद्धिञ्च काम्यं नैमित्तिकं तथा । श्राद्धान्युक्तप्रकारेण कुर्वन् सिद्धिमवाप्नुयात् । इति ते कथितं तार्क्ष्य किमन्यत्परिपृच्छसि ॥ २,४५.
श्रीगरुडमहापुराणम् ४६ तार्क्ष्य उवाच । सुकृतस्य प्रभावेण स्वर्गो नानाविधो नणाम् । भोगाः सौख्याति रूपञ्च बलं बुद्धैः पराक्रमः ॥ २,४६.
सत्यं पुण्यवतां देव जायतेऽत्र परत्र च । सत्यंसत्यं पुनः सत्यं वेदवाक्यं न चान्यथा ॥ २,४६.
धर्मो जयति नाधर्मः सत्यं जयाते नानृतम् । क्षमा जयति न क्रोधो विष्णुर्जयति नासुरः ॥ २,४६.
तद्वत्सत्यं मया ज्ञातं सुकृताच्छोभनं भवेत् । यतोत्कृष्टतमं पुण्यं तथोत्कृष्टतरोनरः ॥ २,४६.
एवन्तु श्रोतुमिच्छामि जायन्ते पापिनो यथा । येन कर्मविपाकेन यथा नियमभाग्भवेत् ॥ २,४६.
यांयां योनिमवाप्नोति यथारूपश्च जायते । तन्मे वद सुरश्रेष्ठ समासेनापि काङ्क्षितम् ॥ २,४६.
श्रीकृष्ण उवाच । शुभाशुभफलैस्तार्क्ष्य भुक्तभोगा नरास्त्विह । जायन्ते लक्षणैर्यैस्तुतानि मे शृणु काश्यप ॥ २,४६.
गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् । इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ २,४६.
प्रायश्चित्तेष्वचीर्णेषु यमलोका ह्यनेकधा । यातनाभिर्विमुक्ता ये यान्ति ते जीवसन्ततीम् ॥ २,४६.
गत्वा मानुषभावे तु पापचिह्ना भवन्ति ते । तान्यहं तव चिह्नानि कथयिष्ये खगोत्तम ॥ २,४६.
सोढ्वा वै यातनाः सर्वा गत्वा वैवस्वतक्षयम् । निस्तीर्णयातनास्ते तु लोकमायान्ति चिह्निताः ॥ २,४६.
गद्गदोऽनतवादी स्यान्मूकश्चैव गवानृते । ब्रह्महा जायते कुष्ठी श्यावदन्तश्च मद्यपः ॥ २,४६.
कुनखी स्वर्णहरणाद्दुश्चर्मा गुरुतल्पगः । संयोगी हीनयोनिः स्याद्दरिद्रोऽदत्तदानतः ॥ २,४६.
अयाज्ययाजको याति ग्राहमसूकरतां द्विजः । खरो वै बहुयाजी स्यात्काको निर्मन्त्रभोजनात् ॥ २,४६.
अपरीक्षितभोक्तारो व्याघ्राः स्युर्निर्जने वने । बहुतर्जको मार्जरः खद्योतः कक्षदाहकः ॥ २,४६.
पात्रे विद्याप्रदाता यो बलीवर्दो भवेत्तसः । अन्नं पर्युषितं विप्रे प्रददत्कुक्करो भवेत् ॥ २,४६.
मात्सर्यादपि जात्यन्धो जन्मान्धः पुस्तकं हरन् । फलान्याहरतोऽपत्यं म्रियते नात्र संशयः ॥ २,४६.
मृतो वानरतां याति तन्मुखो गण्डवान् भवेत् । अदत्त्वा भक्ष्यमश्राति अनपत्यो भवेत्तु सः ॥ २,४६.
हरन्वस्त्रं भवेद्गोधा गरदः पवनाशनः । प्रवज्यागमनाद्राजन् भवेन्मरुपिशाचकः ॥ २,४६.
चातको जलहर्ता स्याद्धान्यहर्ता च मूषिकः । अप्राप्तयौवनां सेवन् भवेत्सर्प इति श्रुतिः ॥ २,४६.
गुरुदाराभिलाषी च कृकलासो भवेद्ध्रुवम् । जलप्रस्त्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः ॥ २,४६.
अविक्रेयक्रयाच्चैव बको गृध्रो भवेन्नरः । अयोनिगो वृको हि स्यादुलूकः क्रयवञ्चनात् ॥ २,४६.
मृतस्यैकादशाहे तु भुञ्जानश्चाभिजायते । प्रतिश्रुत्य द्विजेभ्योर्ऽथमददज्जम्बुको भवेत् ॥ २,४६.