उपस्थाय वदेदेवं मुञ्चन्मुद्रांशुकानि च । मधुरं तद्दिनेऽश्रीयाद्देवश्राद्धं समापयेत् ॥ २,४४.
सौवर्णं शक्तितो नागं ततो दद्याद्द्विजोत्तमे । धेनुं दत्त्वा ततो ब्रूयात्प्रीयतां नागराडिति ॥ २,४४.
यथाविभव्यं कुर्वीत कर्माण्यन्यानि पूर्ववत् । स्वशाखोक्तविधानेन इत्थं कुर्याद्यथातथम् । प्रेतत्वान्मोचयेत्तांस्तु स्वर्गमार्गं नयेत्च ॥ २,४४.
श्रीगरुडमहापुराणम् ४५ श्रीविष्णुरुवाच । प्रत्यब्दं श्राद्धमेवं ते कथयामि खगेश्वर । प्रत्यब्दं पार्वणेनैव कुर्यातां क्षेत्रजोरसौ ॥ २,४५.
विधिनाचेतरैरेवमेकोद्दिष्टं न पार्वणम् ॥ २,४५.
अनग्नेश्च सुतौ स्यातामनग्नी क्षेत्रजोरसौ । एकोद्दिष्टं न कुर्यातां प्रत्यब्दं तौ तु पार्वणम् ॥ २,४५.
यदा त्वन्यतरः साग्निः पुत्रो वाप्यथवा पिता । प्रत्यब्दं पार्वणं तत्र कुर्यातां क्षेत्रजौरसौ ॥ २,४५.
अनग्नयः साग्नयो वा पुत्रा वा पितरोऽपि वा । एकोद्दिष्टं सुतैः कार्यं क्षयाह इति केचन ॥ २,४५.
दर्शकाले क्षयो यस्य प्रेतपक्षेऽथ वा पुनः । प्रत्यब्दं पार्वणं कार्यं तस्य सर्वैः सुतैरपि ॥ २,४५.
एकोद्दिष्टमपुत्राणां पुंसां स्याद्योपितामपि । एकोद्दिष्टे कुशा ग्राह्याः समूला यज्ञकर्मणि । बहिर्लूनाः सकृल्लनाः श्राद्धं वृद्धिमृते सदा ॥ २,४५.
कर्तव्ये पार्वणे श्राद्धे आशौचं यदि जायते । आशौचावगमे कुर्याच्छ्राद्धं हि तदनन्तरम् ॥ २,४५.
एकोद्दिष्टे तु सम्प्राप्ते यदि विघ्नः प्रजायते । मासेन्यस्मिन् तिथौ तस्यां कुर्याच्छ्राद्धं तदैव हि ॥ २,४५.
तूष्णीं श्राद्धान्तु शूद्रस्य भार्यायास्तत्सुतस्य च । कन्यायाश्च द्विजातीनामनुपेतद्विजस्य च ॥ २,४५.
एककाले गता सूनां बहूनामथ वा द्वयोः । तन्त्रेण श्रपणं कुर्याच्छ्राद्धं कुर्यात्पृथक्पृथक् ॥ २,४५.
दद्यात्पूर्वं मृतस्यादौ द्वितीयस्य ततः पुनः । तृतीयस्य ततः कुर्यात्संनिपाते त्वयं विधिः (क्रमः) ॥ २,४५.
प्रत्यब्दमेवं यः कुर्याद्यथातथमतन्द्रितः । तारयित्वा पितॄन् सर्वान् प्राप्नोति परमां गतिम् ॥ २,४५.
न ज्ञायते मृताहश्चेत्प्रस्थानदिनमेव च । मासश्चेत्स्यात्परिज्ञातस्तद्दर्शे स्यान्मृताहिकम् ॥ २,४५.
यदा मासो न विज्ञातो विज्ञातं दिनमेव च । तदा मार्गशिरे मासि माघे वा तद्दिनं भवेत् ॥ २,४५.
दिनमासावविज्ञातौ मरणस्य यदा पुनः । प्रस्थानदिनमासौ तु ग्राह्यौ श्राद्धे मयोदितौ ॥ २,४५.
प्रस्थानस्यापि न ज्ञातौ दिनमासौ यदा पुनः । मृतवार्ताश्रुतौ ग्राह्यौ पूर्वप्रोक्तक्रमेण तु ॥ २,४५.
प्रवासमन्तरेणापि स्यातां तौ विस्मृतौ यदा । तदानीमपि तौ ग्राह्यौ पूर्ववत्तु मृताहिके ॥ २,४५.
गृहस्थे प्रोषिते यच्च कश्चित्तु म्रियते गृहे । आसौचापगमे यत्र प्रारब्धे श्राद्धकर्मणि ॥ २,४५.
प्रत्यागतश्चेज्जानाति तत्र वृत्तं गृही तथा । आशौचं गृहिणस्तेषां न द्रव्यादेस्तदा भवेत् ॥ २,४५.
पुत्रादिना यदारब्धं श्राद्धं तत्त्वेन वाखिलम् । समापनीयं तत्रापि श्राद्धं गृहीतु दूरतः ॥ २,४५.
दात्रा बोक्त्रा च न ज्ञातं सूतकं मृतकं तथा । उभयोरपि तद्दोषं नारोपयति कर्हिचित् ॥ २,४५.
यदा त्वन्यतरज्ञातं सूतकं मृतकं तथा । भोक्तुरेव तदा दोषो नान्यो दाता प्रदुष्यति ॥ २,४५.
इत्युक्तेन प्रकारेण यः कुर्यान्मृतवासरम् । अविज्ञातमृताहस्य सततं तारयत्यसौ ॥ २,४५.
नित्यश्राद्धेऽथ गन्धाद्यैर्द्विजानभ्यर्च्य भक्तितः । सर्वान् पितृगणान् सम्यक्सहैवोद्दिश्य योजयेत् ॥ २,४५.
आवाहनं स्वधाकारो पिण्डाग्नौकरणादिकम् । ब्रह्मचर्यादिनियमा विश्वदेवास्तथैव च ॥ २,४५.
नित्यश्राद्धे त्यजेदेतान् भोज्यमन्नं प्रकल्पयेत् । दत्त्वा तु दक्षिणां शक्त्या नमस्कारैर्विसर्जयेत् ॥ २,४५.