विष्णुं यमं च सम्पूज्य गन्धपुष्पाक्षतादिभिः । दश पिण्डान् घृताक्तांश्च दर्भेषु मधुसंयुतान् ॥ २,४४.
यज्ञोपवीति सतिलान् ध्यायन् विष्णुं यमं तथा । दक्षिणाभिमुखस्तूष्णीमेकैकं निर्वपेत्तुतान् ॥ २,४४.
उद्धृत्य मिश्रितान् पश्चात्तीर्थेऽभ्मः सु विनिः क्षिपेत् । क्षिपन् संकीर्तयेन्नाम गोत्रं च मृतकस्य च ॥ २,४४.
पुनरप्यर्चयेद्विष्णुं यमं कुसुमचन्दनैः । धूपदीपैः सनैवेद्यैर्भक्ष्यभोज्यसमन्वितैः ॥ २,४४.
तस्मिन्नुपवसेदह्नि विप्रांश्चेव निमन्त्रयेत् । कुलविद्यातपोयुक्तान् साधुशीलसमन्वितान् ॥ २,४४.
नव सप्ताथवा पञ्च स्वसामर्थ्यानुसारतः । अपरेऽहनि मध्याह्ने यमं विष्णुं तथार्चयेत् ॥ २,४४.
उदङ्मुखांस्तथा विप्रांस्तान् सम्यगुपवेशयेत् । आवाहनार्घदानादौ विष्णुं यमसमन्वितम् ॥ २,४४.
यज्ञोपवीती कुर्वीत प्रेतनाम प्रकीर्तयेत् । प्रेतं यमं च विष्णुं च स्मरन् श्राद्धं समापयेत् ॥ २,४४.
अन्येभ्यश्चापि सर्वेभ्यः पिण्डदानार्थमुद्धरेत् । पृथग्वा दश पिण्डांश्च पञ्च दद्यात्क्रमेण तु ॥ २,४४.
प्रथमं विष्णवे दद्याद्ब्रह्मणे च शिवाय च । सभृत्याय शिवायाथ प्रेतायापि च पञ्चमम् ॥ २,४४.
नाम गोत्रं स्मरेत्तस्य विष्णुशब्दं प्रकीर्तयेत् । नमस्कारशिरस्कन्तु पञ्चमं पिण्डमुद्धरेत् ॥ २,४४.
गोभूमिपिण्डदानाद्यैः शक्त्या प्रेतं स्मरंश्च तम् । तिलैस्तिलांस्तु विप्राणां दर्भयुक्तेषु पाणिषु ॥ २,४४.
दद्यादन्नं द्विजानां च ताम्बूलं दक्षिणां तथा । एवं शिष्टतमं विप्रं हरिण्येन प्रपूजयेत् ॥ २,४४.
नाम गोत्रं स्मरन् दद्याद्विष्णुप्रीतोस्त्विति ब्रुवन् । अनुव्रज्य द्विजान् पश्चात्त्यक्ताम्भो दक्षिणामुखः ॥ २,४४.
कीर्तयन्नामगोत्रे तु भुवि प्रीतोस्त्विति क्षिपेत् । मित्रबन्धुजनैः सार्धं शेषं भुञ्जीत वाग्यतः । प्रतिसंवत्सरादि स्यादेकोद्दिष्टविधानतः ॥ २,४४.
एवं कृते गमिष्यन्ति स्वर्लोकं पापकर्मिणः । सपिण्डीकरणादौ तु कृते चैवाप्नुवन्तिते ॥ २,४४.
अथ कश्चित्प्रमादेन म्रियते ह्युदकादिभिः । संसारप्रमुखस्तस्य सर्वं कुर्याद्यथाविधि ॥ २,४४.
प्रमादादिच्छया मर्त्यो न गच्छेत्सर्पसंमुखः । पक्षयोरुभयोर्नागं पञ्चमीषु प्रपूजयेत् ॥ २,४४.
कुर्यात्पिष्टमयीं लेखां नागानामाकृतिं भुवि । अर्चयेत्तां सितैः पुष्पैः सुगन्धैश्चन्दनेनच ॥ २,४४.
प्रदद्याद्धूपदीपन्तु तण्डुलांश्च सितान् क्षिपेत् । आमपिष्टं तथैवान्नं क्षीरञ्च विनिवेदयेत् ॥ २,४४.
उपस्थाय वदेदेवं मुञ्चन्मुद्रांशुकानि च । मधुरं तद्दिनेऽश्रीयाद्देवश्राद्धं समापयेत् ॥ २,४४.
सौवर्णं शक्तितो नागं ततो दद्याद्द्विजोत्तमे । धेनुं दत्त्वा ततो ब्रूयात्प्रीयतां नागराडिति ॥ २,४४.
यथाविभव्यं कुर्वीत कर्माण्यन्यानि पूर्ववत् । स्वशाखोक्तविधानेन इत्थं कुर्याद्यथातथम् । प्रेतत्वान्मोचयेत्तांस्तु स्वर्गमार्गं नयेत्च ॥ २,४४.
श्रीगरुडमहापुराणम् ४५ श्रीविष्णुरुवाच । प्रत्यब्दं श्राद्धमेवं ते कथयामि खगेश्वर । प्रत्यब्दं पार्वणेनैव कुर्यातां क्षेत्रजोरसौ ॥ २,४५.
विधिनाचेतरैरेवमेकोद्दिष्टं न पार्वणम् ॥ २,४५.
अनग्नेश्च सुतौ स्यातामनग्नी क्षेत्रजोरसौ । एकोद्दिष्टं न कुर्यातां प्रत्यब्दं तौ तु पार्वणम् ॥ २,४५.
यदा त्वन्यतरः साग्निः पुत्रो वाप्यथवा पिता । प्रत्यब्दं पार्वणं तत्र कुर्यातां क्षेत्रजौरसौ ॥ २,४५.
अनग्नयः साग्नयो वा पुत्रा वा पितरोऽपि वा । एकोद्दिष्टं सुतैः कार्यं क्षयाह इति केचन ॥ २,४५.
दर्शकाले क्षयो यस्य प्रेतपक्षेऽथ वा पुनः । प्रत्यब्दं पार्वणं कार्यं तस्य सर्वैः सुतैरपि ॥ २,४५.
एकोद्दिष्टमपुत्राणां पुंसां स्याद्योपितामपि । एकोद्दिष्टे कुशा ग्राह्याः समूला यज्ञकर्मणि । बहिर्लूनाः सकृल्लनाः श्राद्धं वृद्धिमृते सदा ॥ २,४५.