अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः । लोकत्रयं तेन भवेत्प्रदत्तं यः काञ्चनं गां च महीं च दद्यात् ॥ २,४२.
त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती । नरकादुद्धरन्त्येते जपपूजनहोमतः ॥ २,४२.
कृत्वा बहूनि पापानि रौद्राणि विपुलानि च । अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥ २,४२.
हरन्तमपि लोभेन निरुध्यैनं निवारयेत् । स याति नरके घोरे यस्तं न परिरक्षति ॥ २,४२.
अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि । कर्तव्यमेव कर्तव्यमिति धर्मविदो विदुः ॥ २,४२.
आकारप्रवर्तने पापं गोसहस्रवधैःसमम् । वृत्तिच्छेदे तथा वृत्तेः करणं लक्षधेनुकम् ॥ २,४२.
वरमेकाप्यपहृता न तु दत्तं गवां शतम् । एकां हृत्वा शतं दत्त्वा न तेन समता भवेत् ॥ २,४२.
स्वयमेव तु यो दत्त्वा स्वयमेव प्रबाधते । स पापी नरकं याति यावदाभूतसंप्लवम् ॥ २,४२.
न चाश्वमेधेन तथा विधिवद्दक्षिणावता । अवृत्तिकर्शिते दीने ब्राह्मणे रक्षिते यथा ॥ २,४२.
न तद्भवति वेदेषु यज्ञे सुबहुदक्षिणे । यत्पुण्यं दुर्बले त्रस्ते ब्राह्मणे परिरक्षिते ॥ २,४२.
ब्रह्मस्वैश्च सुपुष्टानि वाहनानि बलानि च । युद्धकाले विशीर्यन्ते सैकताः सेतवो यथा ॥ २,४२.
स्वदत्तां परदत्तां वा यो हरेच्च वसुन्धराम् । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ २,४२.
ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम् । तदेव चौर्यरूपेण दहत्याचन्द्रतारकम् ॥ २,४२.
लोहचूर्णाश्मचूर्णानि कदाचिज्जरयेत्पुमान् । ब्रह्मस्वन्त्रिषु लोकेषु कः पुमाञ्जरयिष्यति ॥ २,४२.
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ २,४२.
ब्राह्मणाति क्रमो नास्ति विप्रे विद्याविवर्जिते । ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ २,४२.
संक्रान्तौ यानि दानानि हव्यकव्यानि यानि च । सप्तकल्पक्षयं यावद्ददात्यर्कः पुनः पुनः ॥ २,४२.
प्रतिग्रहाध्यापनयाजनेषु प्रतिग्रहं स्वेष्टतमं वदन्ति । प्रतिग्रहाच्छ्रुध्यति जाप्यहोमं न याजनं कर्म पुनन्ति वेदाः ॥ २,४२.
सदा जापी सदा होमी परपाकविवर्जितः । रत्नपूर्णामपि महीं प्रतिगृह्णन्न लिप्यते ॥ २,४२.
श्रीगरुडमहापुराणम् ४३ श्रीविष्णुरुवाच । जलाग्निबन्धनभ्रष्टा प्रव्रज्यानाशकच्युताः । ऐन्दवाभ्यां विशुध्यन्ति दत्त्वा धेनुं तथा वृषम् ॥ २,४३.
ऊनद्वादशवर्षस्य चतुर्वर्षाधिकस्य च । प्रायश्चित्तं चरेन्माता पिता वान्योऽपि बान्धवः ॥ २,४३.
अतो बालनरस्यापि नापराधो न पातकम् । राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥ २,४३.
रक्तस्य दर्शने दष्टे आतुरा स्त्री भवेद्यदि । चतुर्थेऽह्नि पदादींश्च त्यक्त्वा स्नात्वा विशुध्यति ॥ २,४३.
आतुरे स्नान उत्पन्ने दशकृत्वो ह्यनातुरः । स्नात्वास्नात्वास्पृशेदेनं ततः शुध्येत्स आतुरः ॥ २,४३.
श्रीगरुडमहापुराणम् ४४ श्रीविष्णुरुवाच । स्वेच्छया तार्क्ष्य मरणं शृङ्गिदंष्ट्रिसरीसृपः । चाण्डालाद्यात्मघातैश्च विषाद्यैस्ताडनैस्तथा ॥ २,४४.
जलाग्निपातवातैश्च निराहारादिभिस्तथा । येषामेव भवेन्मृत्युः प्रोक्तास्ते पापकर्मिणः ॥ २,४४.
पाषड्यनाश्रमाश्चैव महापातकिनस्तथा । स्त्रियश्च व्यभिचारिण्य आरूढपतितास्तथा ॥ २,४४.
न तेषां स्यान्नव श्राद्धं न संस्कारः सपिण्डनम् । श्राद्धानि षोडशोक्तानि न भवन्ति च तान्यपि ॥ २,४४.
वेतनं यत्क्षिपेदप्सु गृह्याग्निश्च चतुष्पथे । पात्राणिनिर्दहेदग्नौ साग्निके पापकर्मणि ॥ २,४४.
पूर्णे संवत्सरे तेषामित्थं कार्यं दयालुभिः । एकादशीं समासाद्य शुक्लपक्षे च काश्यप ॥ २,४४.