मनः शिलां तथा गात्रे तिलकल्कञ्च सन्धिषु । यवपिष्टं तथा मांसे मधु वै क्षौद्रमेव च
केशेषु वै वटजटा त्वचि दद्यान्मृगत्वचम् । कर्णयोस्तालपत्त्रञ्च स्तनयोश्चैव गुञ्जिकाः
नासायां शतपत्त्रं च कमलं नाभिमण्डले । वृन्ताकं वृषणद्वन्द्वे लिङ्गे स्याद्गृञ्जनं शुभम्
घृतं नाभ्यां प्रदेयं स्यात्कौपीने च त्रपु स्मृतम् । मौक्तिकं स्तनयोर्मूर्ध्नि कुङ्कुमेन विलेपनम्
कर्पूरागुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः । परिधानं पट्टसूत्रं हृदये रुक्मकं न्यसेत्
ऋद्धिवृद्धी भुजौ द्वौ च चक्षुषोश्च कपर्दकौ । सिन्दूरं नेत्रकोणे च ताम्बूलाद्युपहारकैः
सर्वौषधियुतं प्रेतं कृत्वा पूजा यथोदिता । साग्निके (कैश्चा) चापि विधिना यज्ञपात्रं न्यसेत्क्रमात्
शिरोमे श्रीरिति ऋचा पुनन्तु वरुणेति च । प्रेतस्य पावनं कृत्वा शालिशालशिलोदकैः
विष्णुमुद्दिश्य दातव्या सुशीलागौः पयस्विनी
(तिला लोहं हिरण्यं च कार्पासं लवणं तथा । सप्तधान्यं क्षितिर्गाव एकैकं पानं समृतम्
महादानानि देयानि तिलपात्रं तथेति च । ततो वैतरणी देया सर्वाभरणभूषिता
कर्तव्यं वैष्णवं श्राद्धं प्रेतमुक्त्यर्थ मात्मवान् । प्रेतंमोक्षं ततः कुर्याद्धृदि विष्णुं प्रकल्प्य च
ओं विष्णुरिति संस्मृत्य प्रेतं तन्मृत्युमेव च । अग्निदाहं ततः कुर्यात्सूतकन्तु दिनत्रयम्
दशाहकर्त्रा पिण्डाश्च कर्तव्याः प्रेतभुक्तये । सर्वं वर्षविधिं कुर्यादेवं प्रेतश्च मुक्तिभाक्
श्रीगरुडमहापुराणम् ४१ श्रीविष्णुरुवाच । वृषोत्सर्गं प्रकुर्वीत विधिपूर्वं खगेश्वर । कार्तिकादिषु मासेषु पौर्णमास्यां शुभे दिने ॥ २,४१.
विवाहोत्सर्जनं श्राद्धं नान्दीमुखमुपक्रमेत् । कुर्याद्भुवश्च संस्कारानग्निस्थापनमेव च ॥ २,४१.
वाप्यां कूपे गवां गोष्ठे स्थाप्याग्निं विधिवत्ततः । विवाहविधिना सर्वं कुर्याद्ब्राह्मणवाचनम् ॥ २,४१.
पात्रासादनं श्रपणमुपयमनकुशादिकम् । पुर्युक्षणान्ते होमं च कर्या द्वै ब्राह्मणेन तु ॥ २,४१.
आघारावाज्यभागौ च चक्षुषी च प्रदा पयेत् । प्रथमेऽहरिति मन्त्रेण होतव्याश्च षडाहुतीः (तयः) ॥ २,४१.
आघारावाज्यभागौ तु पायसेनाङ्गदेवताः । अग्नये रुद्राय शर्वाय पशुपतये उग्राय शिवाय । भवाय महादेवायेशानाय यमाय च ॥ २,४१.
पिष्टकेन सकृद्धोमं पूषागा इति मन्त्रतः । उभयोः स्विष्टिकूद्धोमश्चरुणा पायसेन च ॥ २,४१.
प्रथमं व्याहृतिहोमः प्रायश्चित्तं प्रजापतिः । संस्त्रवप्राशनं कुर्यात्प्रणीतापरिमोक्षणम् ॥ २,४१.
पवित्रप्रतिपत्तिश्च ब्राह्मणे दक्षैणा ततः । षडङ्गरुद्रजाप्येन प्रोतो मोक्षमवाप्नुयात् ॥ २,४१.
एकवर्णं वृषञ्चैव सकृद्वत्सतरीं खग । स्नापयित्वा ततः कुर्यात्सर्वालङ्कारभूषितम् ॥ २,४१.
प्रतिष्ठाप्य च तद्युग्मं प्रेतो मोक्षमवाप्नुयात् । पुच्छेच तर्पणं कार्यमुच्छ्रिते मन्त्रपूर्वकम् । ब्राह्मणान् भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत् ॥ २,४१.
ततः श्राद्धं समुद्दिष्टमेकोद्दिष्टं यथाविधि । जलमन्नं तथा देयं प्रेतोद्धरणहेतवे ॥ २,४१.
द्वादशाहे ततः कुर्यान्मासेमासे पृथक्पथक् । एवं विधिः समायुक्तः प्रेतमोक्षे करोति हि ॥ २,४१.
श्रीगरुडमहापुराणम् ४२ श्रीविष्णुरुवाच । यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ २,४२.
आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः । शूलपाणिश्च भगवानभिनन्दति भूमिदम् ॥ २,४२.
नास्ति भूमिसमं दानं नास्ति भूमिसमो निधिः । नास्ति सत्यसमो धर्मो नानृतात्पातकं परम् ॥ २,४२.