ऋग्वेदपारगे दद्याज्जातसस्यां वसुन्धराम् । यजुर्वेदमये विप्रे गाञ्च दद्यात्पयस्विनीम्
सामगाय शिवोद्देशात्प्रदद्यात्कलधौतकम् । यमोद्देशात्तिलांल्लोहं ततो दद्याच्च दक्षिणाम्
पश्चात्पुत्तलकं कार्यं सर्वौषधिसमन्वितम् । पलाशस्य च वृन्तानां विभागं शृणु काश्यप
कृष्णाजिनं समास्तीर्य कुशैश्च पुरुषाकृतिम् । शतत्रयेण षष्ट्या च वृन्तैः प्रोक्तोऽस्थिसञ्चयः
विन्यस्य तानि वृन्तानि अङ्गेष्वेषु पृथक्पृथक् । चत्वारिंशच्छिरोदेशे ग्रीवायां दश विन्यसेत्
विंशत्युरः स्थले दद्याद्विंशतिं जठरेऽपि च । बाहुयुग्मे शतं दद्यात्कटि देशे च विंशतिम्
ऊरुद्वये शतञ्चापि त्रिंशज्जङ्घाद्वये न्यसेत् । दद्याच्चतुष्टयं शिश्ने षड्दद्याद्वृषणद्वये । दश पादाङ्गुलीभागे एवमस्थीनि विन्यसेत्
नारिकेलं शिरः स्थाने तुम्बं दद्याच्च तालुके । पञ्चरत्नं मुखे दद्याज्जिह्वायां कदलीफलम्
अन्त्रेषु नालकं दद्याद्बालकं प्राण एव च । वसायीं मेदकं दद्याद्गोमूत्रेण तु मूत्रकम्
गन्धकं धातवो देयो हरितालं मनः शिला । रेतः स्थाने पारदञ्च पुरीषे पित्तलं तथा
मनः शिलां तथा गात्रे तिलकल्कञ्च सन्धिषु । यवपिष्टं तथा मांसे मधु वै क्षौद्रमेव च
केशेषु वै वटजटा त्वचि दद्यान्मृगत्वचम् । कर्णयोस्तालपत्त्रञ्च स्तनयोश्चैव गुञ्जिकाः
नासायां शतपत्त्रं च कमलं नाभिमण्डले । वृन्ताकं वृषणद्वन्द्वे लिङ्गे स्याद्गृञ्जनं शुभम्
घृतं नाभ्यां प्रदेयं स्यात्कौपीने च त्रपु स्मृतम् । मौक्तिकं स्तनयोर्मूर्ध्नि कुङ्कुमेन विलेपनम्
कर्पूरागुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः । परिधानं पट्टसूत्रं हृदये रुक्मकं न्यसेत्
ऋद्धिवृद्धी भुजौ द्वौ च चक्षुषोश्च कपर्दकौ । सिन्दूरं नेत्रकोणे च ताम्बूलाद्युपहारकैः
सर्वौषधियुतं प्रेतं कृत्वा पूजा यथोदिता । साग्निके (कैश्चा) चापि विधिना यज्ञपात्रं न्यसेत्क्रमात्
शिरोमे श्रीरिति ऋचा पुनन्तु वरुणेति च । प्रेतस्य पावनं कृत्वा शालिशालशिलोदकैः
विष्णुमुद्दिश्य दातव्या सुशीलागौः पयस्विनी
(तिला लोहं हिरण्यं च कार्पासं लवणं तथा । सप्तधान्यं क्षितिर्गाव एकैकं पानं समृतम्
महादानानि देयानि तिलपात्रं तथेति च । ततो वैतरणी देया सर्वाभरणभूषिता
कर्तव्यं वैष्णवं श्राद्धं प्रेतमुक्त्यर्थ मात्मवान् । प्रेतंमोक्षं ततः कुर्याद्धृदि विष्णुं प्रकल्प्य च
ओं विष्णुरिति संस्मृत्य प्रेतं तन्मृत्युमेव च । अग्निदाहं ततः कुर्यात्सूतकन्तु दिनत्रयम्
दशाहकर्त्रा पिण्डाश्च कर्तव्याः प्रेतभुक्तये । सर्वं वर्षविधिं कुर्यादेवं प्रेतश्च मुक्तिभाक्
श्रीगरुडमहापुराणम् ४१ श्रीविष्णुरुवाच । वृषोत्सर्गं प्रकुर्वीत विधिपूर्वं खगेश्वर । कार्तिकादिषु मासेषु पौर्णमास्यां शुभे दिने ॥ २,४१.
विवाहोत्सर्जनं श्राद्धं नान्दीमुखमुपक्रमेत् । कुर्याद्भुवश्च संस्कारानग्निस्थापनमेव च ॥ २,४१.
वाप्यां कूपे गवां गोष्ठे स्थाप्याग्निं विधिवत्ततः । विवाहविधिना सर्वं कुर्याद्ब्राह्मणवाचनम् ॥ २,४१.
पात्रासादनं श्रपणमुपयमनकुशादिकम् । पुर्युक्षणान्ते होमं च कर्या द्वै ब्राह्मणेन तु ॥ २,४१.
आघारावाज्यभागौ च चक्षुषी च प्रदा पयेत् । प्रथमेऽहरिति मन्त्रेण होतव्याश्च षडाहुतीः (तयः) ॥ २,४१.
आघारावाज्यभागौ तु पायसेनाङ्गदेवताः । अग्नये रुद्राय शर्वाय पशुपतये उग्राय शिवाय । भवाय महादेवायेशानाय यमाय च ॥ २,४१.