सर्वलोकहितार्थाय शृणु पापभयापहाम् । षण्मासं ब्राह्मणे दाहस्त्रिमासं क्षत्त्रिये मतः
सार्ध मासं तु वैश्यस्य सद्यः शूद्रे विधीयते । गङ्गायां यमुनायाञ्च नैमिषे पुष्करेऽथ च
तडागे जलूपूर्णे वा ह्रदे वा विमलोदके । वाप्यां कूपे गवां गोष्ठे गृहे वा प्रतिमालये
कृष्णाग्रे कारयेद्विप्र बलिं नारायणाह्वयम् । प्रेताय तर्पणं कार्यं मन्त्रैः पौराणवैदिकैः
सर्वौषध्यक्षतैर्मिश्रैर्विष्णुमुद्दिश्य तर्पयेत् । कार्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि
दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुरिति स्मरेत् । अनादिनिधनो देवः शङ्खचक्रगदाधरः
अव्ययः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भवेत् । तर्पणस्यावसाने च वीतरागो विमत्सरः
जितेन्द्रियमना भूत्वा शुचिप्मान्धर्मतत्परः । दानधर्मरतः शान्तः प्रणम्य वाग्यतः शुचिः
यजमानो भबेत्तत्र शुचिर्वन्धुसमन्वितः । भक्त्या तत्र प्रकुर्वीत श्राद्धत्येकादशैव तु
सर्वकर्मविपाकेन एकैकाग्रे समाहितः । तोयव्रीहियवान् षष्ट्या गोधूमांश्च प्रियङ्गुकान्
हविष्यान्नं शुभं मुद्रां छत्रोष्णीषे च चलेकम् । दापयेत्सर्वसस्यानि क्षीरक्षौद्रयुतानि च
वस्त्रोपानहसंयुक्तं दद्यादष्टविधं पदम् । दापयेत्सर्वविप्रेभ्यो न कुर्यात्पङ्क्तिबन्धनम्
भूमौ स्थितेषु पिण्डेषु गन्धपुष्पाक्षतान्वितम् । शङ्खपात्रे तथा ताम्रे तर्पणञ्च पृथक्पृथक्
ध्यानधारणसंयुक्तो जानुभ्यामवनिं गतः । दातव्यं सर्वविप्रेभ्यो वेदशास्त्रविधानतः
ऋचा वै दापयेदर्घ्यमेकोद्दिष्टे पृथक्पृथक् । आपोदेवीर्मधुमतीरादिपीठे प्रकल्पितम्
उपयामगृहीतोऽसि द्वितीयेऽर्घं निवेदयेत् । येनापावकचक्षुषा तृतीये च सकल्पितम्
ये देवासश्चतुर्थे तु समुद्रं गच्छ पञ्चमे । अग्निर्ज्योति स्तथा षष्ठे हिरण्यगर्भः सप्तमे
यमाय त्वाष्टमे ज्ञेयं यज्जग्रन्नवमे तथा । दशमे याः फलिनीति पिण्डे चैकादशे ततः
भद्रं कर्णेभिरिति च कुर्यात्पिण्डविसर्जनम् । कृत्वैकादशदेवत्यं श्राद्धं कुर्यात्परेऽहनि
विप्रानावाहयेत्पञ्च चतुर्वेदविशारदान् । विद्याशीलगुणोपेतान्स्व कीयाञ्छीलसत्तमान् । अब्यङ्गान्सप्रशस्तांश्च न त्वर्ज्यान्कदाचन
विष्णुः स्वर्णमयः कार्यो रुदस्ताम्रमयस्तथा । ब्रह्मा रूप्यमयस्तद्वद्यमो लोहमयो भवेत्
सीसकं तु भवेत्प्रेतं त्वथ वा दर्भकं तथा । शन्नोदेवीति मन्त्रेण गोविन्दं पश्चिमे न्यसेत्
अग्न आयाहीति रुद्रमुत्तरत्रैव विन्यसेत् । अग्निमीळेति मन्त्रेण पूर्वेणैव प्रजापतिम्
इषेत्वोर्जोति मन्त्रेण दक्षिणे स्थापयेद्यमम् । मध्ये मण्डलकं कृत्वा स्थाप्यो दर्भमयो नरः
ब्रह्मा विष्णुस्तथा रुद्रो यमः प्रेतश्च पञ्चमः । पृथक्कुम्भे ततः स्थाप्याः पञ्चरत्नसमन्विताः
वस्त्रयज्ञोपवीतानि पृथङ्मुद्रापराणि च । जपं कर्यात्पृथक्तत्र ब्रह्मादौ देवतासु च
पञ्च श्राद्धानि कुर्वीत देवतानां यथाविधि । जलधारां ततो दद्यत्पीठेपीठे पृथक्पृथक्
शङ्खे वा ताम्रपात्रे वा अलाभे मृन्मयेऽपि वा । तिलोदकं समादाय सर्वौषधिसमन्वितम्
आसनोपानहौ च्छत्रं मुद्रिका च कमण्डलुः । भाजनं भाजनाधारं वस्त्राण्यष्टविधं पदम्
ताम्रपात्रं तिलैः पूर्णं सहिरण्यं सदक्षिणम् । दद्याद्ब्राह्मणमुख्याय विधियुक्तं खगेश्वर