उदिते नियमे दाने आर्ते विप्रे निवेदयेत् । तथैव ऋषिभिः प्रोक्तं यथाकालं न दुष्यति ॥ २,३९.
मृन्मयेन तु पात्रेण तिलैर्मिश्रजलैः सह । मृत्तिकया तथान्ते च नरः स्नात्वा शुचिर्भवेत् ॥ २,३९.
दानं परिषदे दद्यात्सुवर्णं गोवृषं द्विजे । क्षत्त्रियो द्विगुणं चैव वैश्यस्तु त्रिगुणं तथा ॥ २,३९.
चतुर्गुणन्तु शूद्रेण दातव्यं ब्राह्मणे धनम् । एव मनुक्रमेणैव चातुर्वर्ण्यं विशुध्यति ॥ २,३९.
सप्ताष्टमान्तरै शीर्णे गृह्यसंस्कारवर्जिते । अहस्तु सूतकं तस्य त्वब्दानां संख्यया स्मृतम् ॥ २,३९.
ब्राह्मणार्थे विपन्ना ये नारीणां गोग्रहेषु च । आहवेषु विपन्नानामेकरात्त्रमशौचकम् ॥ २,३९.
न तेषामशुभं किञ्चिद्विप्राणां शुभकर्मणि । अनाथप्रेतसंस्कारं ये कुर्वन्तु नरोत्तमः ॥ २,३९.
न तेषामशुभङ्किञ्चिद्विप्रेण सहकारिणा । जलावगाहनात्तेषां सद्यः शुद्धिरुदाहृता ॥ २,३९.
विनिवृत्ता यदा शूद्रा उदकान्तमुपस्थिताः । तदाविप्रेणद्रष्टव्या इति वेदविदोविदुः ॥ २,३९.
श्रीगरुडमहापुराणम् ४० तार्क्ष्य उवाच । भगवन्ब्राह्मणाः केचिदपमृत्युवशं गताः । कथं तेषां भवेन्मार्गः किं स्थानं का गतिर्भवेत्
किञ्च युक्तं भवेत्तेषां विधानं वापि कीदृशम् । तदहं श्रोतुमिच्छामि ब्रूहि मे मधुसूदन
श्रीकृष्ण उवाच । प्रेतीभूते द्विजातीनां सम्भूते मृत्युवैकृते । तेषां मार्गगतिस्थानं विधानं कथयाम्यहम्
शृणु तार्क्ष्य परं गोप्यं जाते दुर्मरणे सति । लङ्घनैर्ये मृता विप्रा दंष्ट्रिभिश्चाभिघातिताः
कण्ठग्राह विमग्नानां क्षीणानां तुण्डघातिनाम् । विषाग्निवृषविप्रेभ्यो विषूच्या चात्मघातकाः
पतनोद्वन्धनजलैर्मृतानां शृणु संस्थितिम् । यान्ति ते नरके घोरे ये च म्लेच्छादिभिर्हताः
श्वशृगालादिसंस्पृष्टा अदग्धाः कृमिसंङ्कुलाः । उल्लङ्घिता मृता ये च महारोगैश्च पीडिताः
अभिसस्तास्तथाव्यङ्गा ये च पापान्नपोषिताः । चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युताग्नितः
दष्ट्रिभ्यश्च पशुभ्यश्च वृक्षादिपतनान्मृताः । उदक्यामूतकीशूद्रारजकीसङ्गदूषिताः
तेन पापेन नरकान्मुक्ताः प्रेतत्वभागिनः । न तेषां कारयेद्दाहं सूतकं नोदकक्रियाम्
न विधानं मृताद्यं च न कुर्यादौर्ध्वदैहिकम् । तेषां तार्क्ष्य प्रकुर्वीत नारायणबलिक्रियाम्
सर्वलोकहितार्थाय शृणु पापभयापहाम् । षण्मासं ब्राह्मणे दाहस्त्रिमासं क्षत्त्रिये मतः
सार्ध मासं तु वैश्यस्य सद्यः शूद्रे विधीयते । गङ्गायां यमुनायाञ्च नैमिषे पुष्करेऽथ च
तडागे जलूपूर्णे वा ह्रदे वा विमलोदके । वाप्यां कूपे गवां गोष्ठे गृहे वा प्रतिमालये
कृष्णाग्रे कारयेद्विप्र बलिं नारायणाह्वयम् । प्रेताय तर्पणं कार्यं मन्त्रैः पौराणवैदिकैः
सर्वौषध्यक्षतैर्मिश्रैर्विष्णुमुद्दिश्य तर्पयेत् । कार्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि
दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुरिति स्मरेत् । अनादिनिधनो देवः शङ्खचक्रगदाधरः
अव्ययः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भवेत् । तर्पणस्यावसाने च वीतरागो विमत्सरः
जितेन्द्रियमना भूत्वा शुचिप्मान्धर्मतत्परः । दानधर्मरतः शान्तः प्रणम्य वाग्यतः शुचिः
यजमानो भबेत्तत्र शुचिर्वन्धुसमन्वितः । भक्त्या तत्र प्रकुर्वीत श्राद्धत्येकादशैव तु
सर्वकर्मविपाकेन एकैकाग्रे समाहितः । तोयव्रीहियवान् षष्ट्या गोधूमांश्च प्रियङ्गुकान्