वर्षवृत्तिन्तु यो दद्याद्ब्राह्मणे दोषवर्जिते । सर्वं कलं स मुद्धृत्य स्वर्गलोके महीयते ॥ २,३८.
कन्यां विवाहयेद्यस्तु ब्राह्मणं वेदपारगम् । इन्द्रलोके वसेत्सोऽपि स्वकुलैः परिवेष्टितः ॥ २,३८.
महादानानि दत्वा च नरस्तत्फलमामुयात् ॥ २,३८.
वापी कूपतडागानामारामसुरसद्मनाम् । जीर्णोद्धारं प्रकुर्वाणः पूर्वकर्तुः फलं लभेत् । जीर्णोद्धारेण वा तेषां तत्पुण्यं द्विगुणं भवेत् ॥ २,३८.
शीतवा तातपहरमपि पर्णकुटीरकम् । कृत्वा विप्राय विदुषे प्रददाति कुटुम्बिने ॥ २,३८.
तिस्रः कोट्योर्धकोटी च नरः स्वर्गे महीयते ॥ २,३८.
या स्त्री सवर्णा संशुबा मृतं पतिमनुव्रजेत् । सा मृता स्वर्गमाप्नोति वर्षाणां रोमसंख्यता ॥ २,३८.
पुत्रपौत्रादिकं त्यक्त्वा स्वपतिं यानुगच्छति । स्वर्गं लभेतां तौ चोभौ दिव्यस्त्रीभिरलङ्कृतौ ॥ २,३८.
कृत्वा पापान्यनेकानि भर्तृद्रोहमतिः सदा । प्रक्षालयति सर्वाणि या स्वं पतिमनुव्रजेत् ॥ २,३८.
महापापसमाचारो भर्ता चेद्दुष्कृती भवेत् । तस्याप्यनुव्रता नारी नारायेत्सर्वकिल्बिषम् ॥ २,३८.
ग्रासमात्रं नियमतो नित्यदानं करोति यः । चतुश्चामरसंयुक्तविमानेनाधिगच्छति ॥ २,३८.
यत्कृतं हि मनुष्येण पापमामरणान्तिकम् । तत्सर्वं नाशमायाति वर्षवृत्तिप्रदानतः ॥ २,३८.
भूतं भव्यं बविष्यञ्च पापं जन्मत्रयार्जितम् । पक्षालयति तत्सर्वं विप्रकन्योपनायनात् ॥ २,३८.
दशकूपसमा वापि दशवापीसमं सरः । सरो भिर्दशभिस्तुल्या या प्रपा निर्जले वने ॥ २,३८.
या वापी निर्जले देशे यद्दानं निर्धने द्विजे । प्राणिनां यो दयां धत्ते स भवेन्नाकनायकः ॥ २,३८.
एवमादिभिरन्यैश्च सुकृतैः स्वर्गभाग्भवेत् । स तत्सर्वं फलं प्राप्य प्रतिष्ठां परमां लभेत् ॥ २,३८.
फल्गु कार्यं परित्यज्य सततं धर्मवान् भवेत् । दानं दमो दया चेति सारमेतत्त्रयं भुवि ॥ २,३८.
दानं साधोर्दरिद्रस्य शून्यलिङ्गस्य पूजनम् । अनाथप्रेतसंस्कारः कोटियज्ञफलप्रदः ॥ २,३८.
श्रीगरुडमहापुराणम् ३९ तार्क्ष्य उवाच । सूतकानां विधिं ब्रूहि दयां कृत्वा मयिप्रभो । विवेकाय हि चित्तस्य मानवानां हिताय च ॥ २,३९.
श्रीकृष्ण उवाच । मृते जन्मनी पक्षीन्द्र सूतकं स्याच्चतुर्विधम् । चतुर्णामपि वर्णानां सामान्यते विवर्जितम् ॥ २,३९.
उभयत्र दशाहानि कुलस्यान्नं विवर्जियेत् । दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ॥ २,३९.
देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयाजनम् । उपपत्तिंव्मवस्थाञ्च ज्ञात्वां कर्म समाचरेत् ॥ २,३९.
गुहावह्निप्रवेसे च देशान्तरमृतेषु च । स्नानं सचेलं कर्तव्यं सद्यः शौचं विधीयते ॥ २,३९.
आमगर्भाश्च ये जीवा ये च गर्भाद्विनिः सृताः । न तेषामग्निसंस्कारो नाशौचं नोदकक्रिया ॥ २,३९.
शिल्पिनः कारवो वैद्या दासीदासास्तथैव च । राजानः श्रोतियाश्चैव सद्यः शौचाः प्रकीर्तिताः ॥ २,३९.
सत्री च (व्रती) मन्त्रपूतश्च आहिताग्निर्नृपस्तथा । एतेषां सूतकं नास्ति यस्य चेच्छन्ति पार्थिवाः ॥ २,३९.
प्रसवे च सपिण्डानां न कुर्यात्सङ्करं द्विजः । दशाहाच्छ्रुध्यते माता अवगाह्य पिता शुचिः ॥ २,३९.
विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके । पूर्वसङ्कल्पितं वित्तं भोज्यं तन्मनुरब्रवीत् ॥ २,३९.
सर्वेषामेवमाशौचं मातापित्रोस्तु सूतकम् । सूकतं मातुरेवस्यादुपस्पृश्य पिता शुचिः ॥ २,३९.
अन्तर्दशाहे स्याताञ्चेत्पुनर्मरणजन्मनी । तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥ २,३९.