न काष्ठे विद्यते देवो न शिलायां कदाचन । भावे हि विद्यते देवस्तस्माद्भावं समाचरेत् ॥ २,३८.
प्रातः प्रातः प्रपश्यन्ति नर्मदां मत्स्यघातिनः । न ते शिवपुरीं यान्ति चित्तवृत्तिर्गरीयसी ॥ २,३८.
यादृक्चित्तप्रतीतिः स्यात्तादृक्कर्मफलं नृणाम् । परलोकगतिस्तादृक सूचीसूत्रविचारवत् ॥ २,३८.
ब्राह्मणार्थे गवार्थे च स्त्रीणां बलवधेषु च । प्राणत्यागपरो यस्तु स वै मोक्षमवाप्नुयात् ॥ २,३८.
अनाशके मृतौ यस्तु स वै मोक्षमवाप्नुयात् । अनाशके मृतो यस्तु स मुक्तः सर्वबन्धनैः ॥ २,३८.
दत्त्वा दानानि विप्रेभ्यस्ततो मोक्षमवाप्नुयात् । एते वै मोक्षमार्गाश्च स्वर्गमार्गास्तथैव च ॥ २,३८.
गोग्रहे देशविध्वंसे मरणं रणतीर्थयोः । उत्तमाधममध्यस्य बाध्यमानस्य देहिनः । आत्मानं तत्र सन्त्यज्य स्वर्गवासं लभेच्चिरम् ॥ २,३८.
जीवितं मरणञ्चैव द्वयं शिक्षेत पण्डितः । जीवितं दानभोगाभ्यां मरणं रणतीर्थयोः ॥ २,३८.
हरिक्षेत्रे कुरुक्षेत्रे भृगुक्षेत्रे तथैव च । प्रभासे श्रीस्थले चैव अर्बुदे च त्रिपुष्करे ॥ २,३८.
भूतेश्वरे मृतो यस्तु स्वर्गे वसति मानवः । ब्रह्मणो दिवसं यावत्ततः पतति भूतले ॥ २,३८.
वर्षवृत्तिन्तु यो दद्याद्ब्राह्मणे दोषवर्जिते । सर्वं कलं स मुद्धृत्य स्वर्गलोके महीयते ॥ २,३८.
कन्यां विवाहयेद्यस्तु ब्राह्मणं वेदपारगम् । इन्द्रलोके वसेत्सोऽपि स्वकुलैः परिवेष्टितः ॥ २,३८.
महादानानि दत्वा च नरस्तत्फलमामुयात् ॥ २,३८.
वापी कूपतडागानामारामसुरसद्मनाम् । जीर्णोद्धारं प्रकुर्वाणः पूर्वकर्तुः फलं लभेत् । जीर्णोद्धारेण वा तेषां तत्पुण्यं द्विगुणं भवेत् ॥ २,३८.
शीतवा तातपहरमपि पर्णकुटीरकम् । कृत्वा विप्राय विदुषे प्रददाति कुटुम्बिने ॥ २,३८.
तिस्रः कोट्योर्धकोटी च नरः स्वर्गे महीयते ॥ २,३८.
या स्त्री सवर्णा संशुबा मृतं पतिमनुव्रजेत् । सा मृता स्वर्गमाप्नोति वर्षाणां रोमसंख्यता ॥ २,३८.
पुत्रपौत्रादिकं त्यक्त्वा स्वपतिं यानुगच्छति । स्वर्गं लभेतां तौ चोभौ दिव्यस्त्रीभिरलङ्कृतौ ॥ २,३८.
कृत्वा पापान्यनेकानि भर्तृद्रोहमतिः सदा । प्रक्षालयति सर्वाणि या स्वं पतिमनुव्रजेत् ॥ २,३८.
महापापसमाचारो भर्ता चेद्दुष्कृती भवेत् । तस्याप्यनुव्रता नारी नारायेत्सर्वकिल्बिषम् ॥ २,३८.
ग्रासमात्रं नियमतो नित्यदानं करोति यः । चतुश्चामरसंयुक्तविमानेनाधिगच्छति ॥ २,३८.
यत्कृतं हि मनुष्येण पापमामरणान्तिकम् । तत्सर्वं नाशमायाति वर्षवृत्तिप्रदानतः ॥ २,३८.
भूतं भव्यं बविष्यञ्च पापं जन्मत्रयार्जितम् । पक्षालयति तत्सर्वं विप्रकन्योपनायनात् ॥ २,३८.
दशकूपसमा वापि दशवापीसमं सरः । सरो भिर्दशभिस्तुल्या या प्रपा निर्जले वने ॥ २,३८.
या वापी निर्जले देशे यद्दानं निर्धने द्विजे । प्राणिनां यो दयां धत्ते स भवेन्नाकनायकः ॥ २,३८.
एवमादिभिरन्यैश्च सुकृतैः स्वर्गभाग्भवेत् । स तत्सर्वं फलं प्राप्य प्रतिष्ठां परमां लभेत् ॥ २,३८.
फल्गु कार्यं परित्यज्य सततं धर्मवान् भवेत् । दानं दमो दया चेति सारमेतत्त्रयं भुवि ॥ २,३८.
दानं साधोर्दरिद्रस्य शून्यलिङ्गस्य पूजनम् । अनाथप्रेतसंस्कारः कोटियज्ञफलप्रदः ॥ २,३८.
श्रीगरुडमहापुराणम् ३९ तार्क्ष्य उवाच । सूतकानां विधिं ब्रूहि दयां कृत्वा मयिप्रभो । विवेकाय हि चित्तस्य मानवानां हिताय च ॥ २,३९.
श्रीकृष्ण उवाच । मृते जन्मनी पक्षीन्द्र सूतकं स्याच्चतुर्विधम् । चतुर्णामपि वर्णानां सामान्यते विवर्जितम् ॥ २,३९.