न चैवोपद्रवास्तस्य मोहजालो न चैव हि । मृत्युकाले न च भयं यमदूतसमुद्भवम् ॥ २,३६.
समाः सहस्राणि च सप्त वै जले दशैकमग्नौ पवने च षोडश । महाहवे पष्टिरशीतिर्गोगृहे अनाशके काश्यप चाक्षया गतिः ॥ २,३६.
श्रीगरुडमहापुराणम् ३७ तार्क्ष्य उवाच । उदकुम्भप्रदानं मे कथयस्व यथातथम् । विधिना केन कर्तव्या कृतिरेषा जनार्दन ॥ २,३७.
किंलक्षणाः केन पूर्णाः कस्य देया जनार्दन । कस्मिन् काले प्रदातव्या प्रेततृप्तिप्रसाधकाः ॥ २,३७.
श्रीकृष्ण उवाच । सत्यं पुनः प्रवक्ष्यामि उदकुम्भप्रदानकम् । प्रेतोद्देशेन दातव्या अन्नपानीयसंयुताः । विशेषेण महापक्षिन् प्रेतमुक्तिप्रदायकाः ॥ २,३७.
द्वादशाहे च पण्मासे त्रैपक्षे वापि वत्सरे । उदकुम्भाः प्रदातव्या मार्गे तस्य सुखाय वै ॥ २,३७.
अहन्यहनि दातव्या उदकुम्भास्तिलैर्युताः । सुलिप्ते भूमिभागे तु पक्कान्नजलपूरिताः ॥ २,३७.
प्रेतस्य तत्र दातव्यं भाजनञ्च यदृच्छया । सुप्रीतस्तेन दत्तेन प्रेतो याम्यैः स गच्छति ॥ २,३७.
द्वादशाहे विशेषेण उदकम्भान् प्रदापयेत् । विधिना तत्र सङ्कल्पय घटान् द्वादशसंख्यकान् ॥ २,३७.
एकाषि बर्धनी तत्र पक्वान्नफलपूरिता । विष्णुमुद्दिश्य दातव्या संकल्प्य ब्राह्मणे शुभे ॥ २,३७.
एको वै धर्मराजाय तेन तुष्टेन मुक्तिभाक् । चित्रगुप्ताय चैकं तु गतस्तत्र सुखी भवेत् ॥ २,३७.
षोडशाद्याः प्रदातव्या माषान्नजलपूरिताः ॥ २,३७.
उक्त्रान्तिश्राद्धमारभ्य श्राद्धषोडषोडशकस्य तु । षोडशब्राह्मणानान्तु एकैकं विनिवदयेत् ॥ २,३७.
एकादशाहात्प्रभृति देयो नित्यं दृढाह्वयः । पक्वान्नजलपूर्णो हि यावत्संवत्सरं दिनम् ॥ २,३७.
जलपात्राणि वृद्धानि दत्तानिघटकानि च । एका वै वर्धनी तत्र तस्यां पात्रन्तु वंशजम् ॥ २,३७.
वस्त्रेणाच्छादयेत्तान्तु पूजयित्वा सुगन्धिभिः । ब्राह्मणेभ्यो विशेषेण जलपूर्णानि दापयेत् ॥ २,३७.
अहन्यहनि सङ्कल्प्य विधिपूर्वं खगेश्वर । ब्राह्मणाय कुलीनाय वेदवृत्तयुताय च ॥ २,३७.
विद्यावृत्तवते देयं मूर्खे तन्न कदाचन । समर्थो वेदवृत्ताढ्यस्तारणे तरणेऽपि च ॥ २,३७.
श्रीगरुडमहापुराणम् ३८ तार्क्ष्य उवाच । दानतीर्थार्थितं मोक्षं स्वर्गञ्च वद मे प्रभो । केन मोक्षमवाप्नोति केन स्वर्गे वसेच्चिरम् ॥ २,३८.
केन गच्छति तेजस्तु स्वर्लोकात्सत्यलोकतः । मानुष्यं केन लभते नरकेशु निमज्जति ॥ २,३८.
एतन्मे वदनिश्चित्य भक्तानां मोक्षदायक । ब्रूहि कस्मिन्मृते स्वर्गे पुनर्जन्म न विद्यते ॥ २,३८.
श्रीविष्णुरुवाच । मानुष्यं भारते वर्षे त्रयोदशसु जातिषु ॥ २,३८.
तत्प्राप्य म्रियते क्षेत्रे पुनर्जन्म न विद्यते । अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ॥ २,३८.
पुरी द्वारवती ज्ञेया सप्तैता मोक्षदायिकाः । सन्न्यस्तमिति यो ब्रुयात्प्राणैः कण्ठगतैरपि ॥ २,३८.
मृतो विष्णुपुरं याति न पुनर्जायते क्षितौ । सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ॥ २,३८.
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति । कृष्णकृष्णेति कृष्णेति यो मां स्मरति नित्यशः ॥ २,३८.
जल भित्त्वा यथा पद्मं नरकादुद्धराम्यहम् । शालग्रामजिला यत्र यत्र द्वारवती शिला ॥ २,३८.
उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः । शालग्रामशिला यत्र पापदोषक्षयावहा ॥ २,३८.
तत्सन्निधानमरणान्मुक्तिर्जन्तोः सुनिश्चता । रोपणात्पालनात्सेकाद्ध्यानस्पर्शनकीर्तनात् । तुलसी दहते पापं नृणां जन्मार्जितं खग ॥ २,३८.
ज्ञानहृदे सत्यजले रागद्वेषमलापहे । यः स्नातो मानसे तीर्थे न स लिप्येत पातकैः ॥ २,३८.