यावन्त्यहानि जीवेत्व्रते निरशने कृते । क्रतुभिस्तानि तुल्यानि समग्रवदक्षिणैः ॥ २,३६.
तीर्थे गृहे वा संन्यासं नीत्वा चेन्म्रियते यदि । प्रत्यहं लभते सोऽपि पूर्वोक्तं द्विगुणं फलम् ॥ २,३६.
महारोगोपपत्तौ च गृहीतेऽनशने कृते । पुनर्न जायते रोगो देववद्धि विराजते ॥ २,३६.
य आतुरः सन् सन्न्यासं गृह्णाति यदि मानवः । पुनर्न जायते भूमौ संसारे दुः खसागरे ॥ २,३६.
अहन्यहनि दातव्यं ब्राह्मणानाञ्च भोजनम् । तिलपात्रं यथाशक्ति दीपदानं सुरार्चनम् ॥ २,३६.
एवं वृत्तस्य दह्यन्ते पापान्युच्चावचानि च । मृतो मुक्तिमवाप्नोति यथा सर्वे महर्षयः ॥ २,३६.
तस्मादनशनं नॄणां वैकुण्ठपददायकम् । तस्मात्स्वस्थे चोत्तरे वा साधयेन्मोक्षलक्षणम् ॥ २,३६.
पुत्त्रद्रव्यादि सन्त्यज्य तीर्थं व्रजति यो नरः । ब्रह्माद्या देवतास्तस्य भवेयुस्तुष्टिपुष्टिदाः ॥ २,३६.
यस्तीर्थसंमुखो भूत्वा व्रते ह्यनशने कृते । चेन्म्रियेतान्तरालेऽपि ऋषीणां मण्डले वसेत् ॥ २,३६.
व्रतं निरशन कृत्वा स्वगृहेऽपि मृतो यदि । स्वकुलानि परित्यज्य एकाकी विचरेद्दिवि ॥ २,३६.
अन्नञ्चैव तथा तोयं परित्यज्य नरो यदि । पीतमत्पादतोयश्च न पुनर्जायते क्षितौ ॥ २,३६.
कृत्त्यासीनन्तत्तीर्थगतं रक्षन्ति वनदेवताः । यमदूता विशेषेण न याम्यास्तस्य पार्श्वगाः ॥ २,३६.
तीर्थसेवी नरो यस्तु सर्वकिल्बिषवर्जितः । तत्र म्रियते दह्येत तत्तीर्थफलभाग्भवेत् ॥ २,३६.
सेवितेऽपि सदा तथि ह्यन्यत्र म्रियते यदि । शुभे देशे कुले धीमान् स भवेद्वेदविद्द्विजः ॥ २,३६.
कृत्वा निरशनं तार्क्ष्य पुनर्जीवति मानवः । ब्राह्मणान् स समाहूय सर्वस्वं यत्परित्यजेत् ॥ २,३६.
चान्द्रायणं चरेत्कृत्स्नमनुज्ञातश्च तैर्द्विजैः । अनृतं न वदेत्पश्चाद्धर्ममेव समाचरेत् ॥ २,३६.
तीर्थे गत्वा च यः कोऽपि पुनरायाति वै गृहम् । अनुज्ञातः स वै विप्रैः प्रायश्चित्तमथाचरेत् ॥ २,३६.
दत्त्वा वा स्वर्णदानानि गोमहीगजवाजिनः । तीर्थं यदि लभेद्यस्तु मृत्युकाले स भाग्यवान् ॥ २,३६.
गृहात्प्रचलितस्तीर्थं मरणे समुपस्थिते । पदेपदे तु गोदानं यदि हिंसा न जायते ॥ २,३६.
गृहे तु यत्कृतं पापं तीर्थस्नानेन शुध्यति । कुरुते तत्र पापञ्चेद्वज्रलेपसमं हि तत् ॥ २,३६.
क्लिश्येत्स नात्र सन्देहो यावच्चन्द्रार्कतारकम् । तत्र दत्तानि दानानि जायन्ते चाक्षयाणि वै ॥ २,३६.
आतुरे सति दातव्यं निर्धनैरपि मानवैः । गावस्तिला हिरण्यञ्च सप्तधान्यं विशेषतः ॥ २,३६.
दानवन्तं नरं दृष्ट्वा हृष्टाः सर्वे दिवौकसः । ऋषिभिः सह धर्मण चित्रगुप्तेन सर्वदा ॥ २,३६.
आत्मायत्तं धनं यावत्तावद्विप्रे समर्पयेत् । पराधीनं मृते सर्वं कृपया कः प्रदास्यति ॥ २,३६.
पित्रुद्देशेन यः पुत्त्रैर्धनं विप्रकरेऽर्पितम् । आत्मानं सधनं तेन चक्रे पुत्रप्रपौत्रकैः ॥ २,३६.
पितुः शतगुणं दत्तं सहस्रं मातुरुच्यते । भगिन्या शतसाहस्रं सोदर्ये दत्तमक्षयम् ॥ २,३६.
यदि लोभान्न यच्छन्ति प्रमादान्मोहतोऽपि वा । मृताः शोचन्ति ते सर्वे कदर्याः पापिनस्त्विति ॥ २,३६.
अतिक्लेशेन लब्धस्य प्रकृत्या चञ्चलस्य च । गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥ २,३६.
मृत्युः शरीगोप्तारं वसुरक्षं वसुन्धरा । दुश्चारिणीव हसति स्वपतिं पुत्रवत्सलम् ॥ २,३६.
उदासे धार्मिकः सौम्यः प्राप्यापि विपुलं धनम् । तृणवन्मन्यते तार्क्ष्य आत्मानं वित्तमप्यथ ॥ २,३६.