इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीन्यासनिरूपणं नाम पञ्चत्रिंशोऽध्यायः
सन्ध्याविधिं प्रवक्ष्यामि श्रृणु रुद्राघनाशनम् 36.
सप्रणवां सव्याहृतिं गायत्त्रीं शिरसा सह 36.
मनोवाक्रायजं दोषं प्राणायामैर्दहेद्द्विजः 36.
सायमग्निश्च मेत्युक्ता प्रातः सूर्य्येत्यपः पिबेत् 36.
आपोहिष्ठेत्यृचा कुर्य्यान्मार्जनं तु कुशोदकैः 36.
रजस्तमः स्वमोहोत्थाञ्जाग्रत्स्वप्नसुषुप्तिजान् 36.
समुद्धृत्योदकं पाणौ जप्त्वा च द्रुपदां क्षिपेत् 36.
उदुत्यंचित्रमित्याभ्यामुपतिष्ठेद्दिवाकरम् 36.
पूर्वसंध्यां जपंस्तिष्ठेत्पश्चिमामुपविश्य च 36.
दशभिर्जन्मजनितं शतेन तु पुरा कृतम् 36.
रक्ता भवति गायत्त्री सावित्री शुक्लवर्णिका 36.
ॐ भूर्विन्यस्य हृदये ॐ भुवः शिरसि न्यसेत् 36.
विन्यसेत्कवचे विद्वान्द्वितीयं नेत्रयोर्न्यसेत् 36.
संध्याकाले तु विन्यस्य जपेद्वै वेदमातरम् 36.
त्रिपदा या तु गायत्त्री ब्रह्मविष्णुमहेश्वरी 36.
सर्वपापविनिर्मुक्तो ब्रह्मलोकमवाप्नुयात् 36.
तं हन्ति सूर्य्यः सन्ध्यायां नोपास्तिं कुरुते तु यः 36.
छन्दस्तु देवी गायत्त्री परमात्मा च देवता ।। 36.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे संध्याविधिर्नाम षट्त्रिंशोऽध्यायः
गायत्त्री परमा देवी भुक्तिमुक्तिप्रदा च ताम् 37.
गायत्त्रीकल्पमाख्यास्ये भुक्तिमुक्तिप्रदं च तत् 37.
त्रिसन्ध्यं ब्रह्मलोकीस्याच्छतं जप्त्वा जलं पिबेत् 37.
भूर्भुवः स्वः स्वमन्त्रेण युतां द्वादशनामभिः सावित्र्यै सरस्वत्यै नमोनमः ।। 37.
वेदमात्रे च सांकृत्यै ब्रह्माणी कौशिकी क्रमात् 37.
स्वरेवं जुहुया दग्नौ समिदाज्यं हविष्यकम् 37.
धर्मकामादिसिद्ध्यर्थं जुहुयात्सर्वकर्मसु 37.
यथा लक्षं तु जप्तव्यं पयोमूलफलार्शनैः 37.
उत्तरे शिखरे जाता भूम्यां पर्वत वासिनी 37.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीकल्पनिरूपणं नाम सप्तत्रिंशोऽध्यायः