गृहे हानिर्भवेत्तस्य ऋक्षेष्वेषु मृतश्च यः । अथवा ऋक्षमध्येऽपि दाहस्तस्य विधीयते ॥ २,३५.
क्रियते मानुषाणान्तु सद्य आहुतिकारणात् । सद्याहुतिकरं पुण्यं तीर्थे तद्दाह उत्तमः ॥ २,३५.
विप्रैर्नियमतः कार्यः समन्त्रो विधिपूर्वकः । शवस्य च समीपे तु क्षिप्यन्ते पुत्तलास्ततः ॥ २,३५.
दर्भमयाश्च चत्वारो विप्रा मन्त्राभिमन्त्रिताः । ततो दाहः प्रकर्तव्यः तैश्च पुत्तलकैः सह ॥ २,३५.
सूतकान्ते ततः पुत्रः कुर्याच्छान्तिकमुत्तमम् ॥ २,३५.
पञ्चकेषु मृतो योऽसौ न गतिं लभते नरः । तिलान् गाश्च सुवर्णं च तमुद्दिश्य घृतं ददेत् ॥ २,३५.
विप्राणां दीयते दानं सर्वोपद्रवनाशनम् । सूतकान्ते च सत्पुत्रैः स प्रेतो लभते गतिम् ॥ २,३५.
भाजनोपानहौ च्छत्रं हेममुद्राच वाससी । दक्षिणा दीयते विप्र सर्वपातकमोचनी ॥ २,३५.
बालवृद्धातुराणाञ्च मृतानां पञ्चकेषु हि । विधानं यो न कुर्वीत विघ्नस्तस्य प्रजायते ॥ २,३५.
अष्टादशैव वस्तूनि प्रेतश्राद्धे विवर्जयेत् । आशिषो द्विगुणान् दर्भान् प्रणवान्नैकपिण्डताम् ॥ २,३५.
अग्नौकरणमुच्छिष्टं श्राद्धं वै वैश्वदैविकम् । विकिरं च स्वधाकारं पितृशब्दं न चोच्चरेत् ॥ २,३५.
अनुशब्दं न कुर्वीत नावाहनमथोल्मुकम् । आसीमान्तं न कुर्वीत प्रदक्षिणविसर्जनम् ॥ २,३५.
न कुर्यात्तिलहोमञ्च द्विजः पूर्णाहुतिं तथा । न कुर्याद्वैश्वदेवं चेत्कर्ता गच्छत्यधोगतिम् ॥ २,३५.
मलिनश्राद्धसंज्ञानं पूर्वषोडशकं तथा । स्थाने द्वारे चार्धमार्गे चितायां शवहस्तके ॥ २,३५.
श्मशानवासिभूतेभ्यः पञ्चमं प्रतिवेश्यकम् । षष्ठं सञ्चयने प्रोक्तं दश पिण्डा दशाहिकाः । श्राद्धषोडषकञ्चैतत्प्रथमं परिकीर्तितम् ॥ २,३५.
अन्यच्च षोडशं मध्ये द्वितीयं तार्क्ष्य मे शृणु । कर्तव्यानीह विधिना श्राद्धान्येकादशैव तु ॥ २,३५.
ब्रह्मविष्णुशिवाद्यञ्च तथान्यच्छ्राद्धपञ्चकम् । एवं षोडशकं प्राहुरेतत्तत्त्वविदो जनाः ॥ २,३५.
द्वादश प्रतिमास्यानि श्राद्धमेकादशे तथा । त्रिपक्षसम्भवञ्चैव द्वे रिक्ते खग षोडश ॥ २,३५.
आद्यं शवविशुद्ध्यर्थं कृत्वान्यच्च त्रिषोडशम् । पितृपाङ्क्तिविशुद्ध्यर्थं शताद्धैंन तु योजयेत् ॥ २,३५.
शतार्धेन विहीनो यो मिलितः पङ्क्तिभाङ्न हि । चत्वारिंशत्तथैवाष्टश्राद्धं प्रेतत्वनाशनम् ॥ २,३५.
सकृदूनशतार्धेन सम्भवेत्पङ्क्तिसन्निधः । मेलनीयः शतार्धेन सन्धिः श्राद्धेन तत्त्वतः ॥ २,३५.
(अथ शवाविधिः) । शवस्य शिबिकायां करचरणबन्धनं तत्र कर्तव्यम् । एवं चेन्न विधानं विधीयते तत्पिशाचपरिभवनम् ॥ २,३५.
संजायते रजन्याञ्च शवनिर्गमने राष्ट्रं भयशून्यम् । शवं न मुञ्चेत मुच्यते चेत्दुः स्पर्शाद्दुर्गतिर्भवेत् ॥ २,३५.
ग्राममध्ये स्थिते प्रेते श्रुते भुङ्क्ते यदृच्छया । तदन्नं मांसवज्ज्ञेयं तत्तोयं रुधिरोपमम् ॥ २,३५.
(३५.४५) ज्ञातिसम्बन्धिनामेवं व्यवहारः खगेश्वर । विलुप्य ज्ञातिधर्मञ्च प्रेतपापेन लिप्यते ॥ २,३५.
श्रीगरुडमहापुराणम् ३६ तार्क्ष्यौवाच । कस्मादनशनं पुण्यमक्षय्यगतिदायकम् । स्वगृहन्तु परित्यज्य तीर्थे वै म्रियते यदि ॥ २,३६.
अप्राप्य तीर्थं म्रियते गृहे वा मृत्यु मागतः । बूत्वा कुटीचरो यस्तु स कां गतिमवाप्नुयात् ॥ २,३६.
संन्यासं कुरुते यस्तु तीर्थे वापि गृहेऽपि वा । कथं तस्य प्रकर्तव्यमप्राप्तनिधनेऽपि वा ॥ २,३६.
नियमे चेत्कृते देव चित्तभङ्गो हि जायते । केन तस्य भवेत्सिद्धिः कृतेनाप्यकृतेन वा ॥ २,३६.
श्रीकृष्ण उवाच । कृत्वा निरशनं यो वै मृत्युमाप्नोति कोऽपि चेत् । मानुपीं तनुमुत्सृज्य मम तुल्यो विराजते ॥ २,३६.