यमके च गजच्छायामन्वादिषु युगादिषु । पितृपिण्डो न दातव्यः सपिण्डीकरणं विना ॥ २,३४.
यज्ञपुरुषस्य यद्दानं देवादीनाञ्च यत्तथा । अपूर्णेऽप्यब्दमध्येपि कर्तव्यमिति के च न ॥ २,३४.
पितृभ्योपि हि यद्दत्तमर्घपिण्डविवर्जितम् । कर्तव्यं तच्च वै सर्वमेष एव विधिः स्मृतः ॥ २,३४.
देवानां पितरो देवा पितॄणामृषयस्तथा । ऋषीणां पितरो देवाः पिता जयति तेन वै ॥ २,३४.
पितृदेवमनुष्याणां यज्ञनथो विभुर्भवेत् । यज्ञनाथस्य यद्दत्तं तद्दत्तं सर्वदेहिनाम् ॥ २,३४.
मृते पितर्यब्दमध्ये यः श्राद्धं कारयेत्सुतः । सप्तजन्मकृता धर्माथीयते नात्र संशयः ॥ २,३४.
प्रेतीभूतास्तु पितरो लुप्तपिण्डोदकक्रियाः । भ्रमन्ति वायुना सर्वे क्षुत्तृड्भ्यां परिपीडिताः ॥ २,३४.
पितरि प्रेततापन्ने लुप्यते पैतृकी क्रिया । अथ मातुर्विपत्तिः स्यात्पितृकार्यं न लुप्यते ॥ २,३४.
मृता माता पिता तिष्ठेज्जीवन्ती च पितामही । सपिण्डनन्तु कर्तव्यं पितामह्या सहैव तु ॥ २,३४.
सत्यंसत्यं पुनः सत्यं श्रूयतां वचनं मम । न पिण्डो मिलितो येषां मृतानान्तु नृणां भुवि ॥ २,३४.
उपतिष्ठेन्न वे तेषां पुत्रैर्दत्तमनेकधा । हन्तकारस्तदुद्देशे श्राद्धं नैव जलाञ्जलिः ॥ २,३४.
श्रीगरुडमहापुराणम् ३५ तर्क्ष्य उवाच । अपरं मम सन्देहं कथयस्व जनार्दन । पुरुषस्य च कस्यापि मता पञ्चत्वमागता ॥ २,३५.
पितामही जीवति च तथा च प्रपितामही । वृद्धप्रपितामही तद्वन्मातृसक्तः पिता तथा ॥ २,३५.
प्रमातामहश्च तथा वृद्धप्रमातामहस्तथा । केन सा मेल्यते माता एतत्कथय मे प्रभो ॥ २,३५.
श्रीकृष्ण उवाच । पुनरुक्तं प्रवक्ष्यामि सपिण्डीकरणं खग । उमा लक्ष्मीश्च सावित्रीत्यताभिर्मेलयेद्ध्रुवम् ॥ २,३५.
त्रयः पिण्डभुजो ज्ञेयास्त्यजाकाश्च त्रयः स्मृताः । त्रयः पिण्डानुलेपाश्च दशमः पङ्क्तिसंन्निधः ॥ २,३५.
इत्येते पुरुषाः ख्याताः पितृमातृकुलेषु च । तारयेद्यजमानस्तु दश पूर्वान् दशावरान् ॥ २,३५.
सपिण्डः स भवेदादौ सपिण्डीकरणे कृते । अन्त्यस्तु त्याजको ज्ञेयो यो वृद्धप्रपितामहः ॥ २,३५.
अन्तिमस्त्याजको ज्ञेयो लेपकः प्रथमो भवेत् । लेपकस्त्वन्तिमो यस्तु स भवेत्पङ्क्तिसन्निधः ॥ २,३५.
यजमानो भवेदेको दश पृर्त्वे दशावरे । इत्येते पितरो ज्ञेया एकविंशति संख्यकाः ॥ २,३५.
विधिना कुरुते यस्तु संसारे श्राद्धमुत्तमम् । जायतेऽत्र न सन्देहः शृणु तस्यापि यत्फलम् ॥ २,३५.
पिता ददाति पुत्त्रान् वै विच्छिन्नसन्ततिः खग । होमदाता भवेत्सोपि यस्तस्य प्रपितामहः ॥ २,३५.
कृते श्राद्धे गुणा ह्येते पितॄणां तपेणे स्मृताः । दद्याद्विपुलमन्नाद्यं वृद्धस्तु प्रपितामहः ॥ २,३५.
यस्य पुंसश्च मर्त्ये वै विच्छिन्ना सन्ततिः खग । स वसेन्नरके घोरे पङ्के मग्नः करी यथा ॥ २,३५.
योन्यन्तरेषु जायते यत्र वृक्षसरीसृपाः । न सन्ततिं विना सोऽत्र मुच्यते नरकाद्ध्रुवम् ॥ २,३५.
आचार्यस्तस्य शिष्यो वा यो दूरेऽपि हि गात्रेजः । नारायणबलिं कुर्यात्तस्याद्देशेन भक्तितः ॥ २,३५.
विशुद्धः सर्वपापेभ्यो मुक्तः स नरकाद्ध्रुवम् । निवसेन्नाकलोके च नात्र कार्या विचारणा ॥ २,३५.
आदौ कृत्वा धनिष्ठाञ्च एतन्नक्षत्रपञ्चकम् । रेवत्यन्तं सदा दूष्यमशुभं सर्वदा भवेत् ॥ २,३५.
दाह (बलि) स्तत्र न कर्तव्यो विप्रदिसर्वजातिषु । दीयते न जलं तत्र अशुभं जायते ध्रुवम् । लोकयात्रा न कर्तव्या दुः खार्तः स्वजनो यदि ॥ २,३५.
पञ्चकानन्तरं तस्य कर्तव्यं सर्वमन्यथा । पुत्राणां गोत्रिणां तस्य सन्तापोऽप्युपजायते ॥ २,३५.