अदाहे न च कर्तव्यं सदाहे कारयेद्बुधः । दर्भपुत्तलकं कृत्वा वह्निना दाहयेच्छवम् ॥ २,३४.
पितुः पुत्रेण कर्तव्यं न कुर्ब्वीत पिता सुते । अतिस्नेहान्न कर्तव्यं सपिण्डीकरणं सते ॥ २,३४.
बहवोऽपि यदा पुत्रा विधिमेकः समाचरेत् । नवश्राद्धं सपिण्डत्वं श्राद्धान्यन्यानि षोडश ॥ २,३४.
एकेनैव तु कार्यांणि अविभक्तधनेष्वपि । अन्त्येष्टिं कुरुते ह्येको मुनिभैः समुदाहृतम् ॥ २,३४.
विभक्तैश्च पृथक्कार्या क्रिया सांवत्सरादिका । एकैकेन च कर्तव्या पुत्रेण च स्वयंस्वयम् ॥ २,३४.
यस्यैतानि न दत्तानि प्रेतश्राद्धानि षोडश । पिशाचत्वंस्थिरं तस्य कृतैः श्राद्धशतैरपि ॥ २,३४.
भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा । सपिण्डीकरणं कुर्यात्पुत्रहीने खगेश्वर ॥ २,३४.
सर्वेषां पुत्रहीनानां पत्री कुर्यात्सपिण्डनम् । ऋत्विजं करायेद्वाथ पुरोहितमथापि वा ॥ २,३४.
मृते पितर्यब्दमध्ये ह्युपरागो यदा भवेत् । पार्वणं न सुतैः कार्यं श्राद्धं नान्दीमुखं न च ॥ २,३४.
तीर्थश्राद्धं गयाश्राद्धं श्राद्धमन्यच्च पैतृकम् । अब्दमध्ये न कुर्वीत महागुरुविपत्तिषु ॥ २,३४.
यमके च गजच्छायामन्वादिषु युगादिषु । पितृपिण्डो न दातव्यः सपिण्डीकरणं विना ॥ २,३४.
यज्ञपुरुषस्य यद्दानं देवादीनाञ्च यत्तथा । अपूर्णेऽप्यब्दमध्येपि कर्तव्यमिति के च न ॥ २,३४.
पितृभ्योपि हि यद्दत्तमर्घपिण्डविवर्जितम् । कर्तव्यं तच्च वै सर्वमेष एव विधिः स्मृतः ॥ २,३४.
देवानां पितरो देवा पितॄणामृषयस्तथा । ऋषीणां पितरो देवाः पिता जयति तेन वै ॥ २,३४.
पितृदेवमनुष्याणां यज्ञनथो विभुर्भवेत् । यज्ञनाथस्य यद्दत्तं तद्दत्तं सर्वदेहिनाम् ॥ २,३४.
मृते पितर्यब्दमध्ये यः श्राद्धं कारयेत्सुतः । सप्तजन्मकृता धर्माथीयते नात्र संशयः ॥ २,३४.
प्रेतीभूतास्तु पितरो लुप्तपिण्डोदकक्रियाः । भ्रमन्ति वायुना सर्वे क्षुत्तृड्भ्यां परिपीडिताः ॥ २,३४.
पितरि प्रेततापन्ने लुप्यते पैतृकी क्रिया । अथ मातुर्विपत्तिः स्यात्पितृकार्यं न लुप्यते ॥ २,३४.
मृता माता पिता तिष्ठेज्जीवन्ती च पितामही । सपिण्डनन्तु कर्तव्यं पितामह्या सहैव तु ॥ २,३४.
सत्यंसत्यं पुनः सत्यं श्रूयतां वचनं मम । न पिण्डो मिलितो येषां मृतानान्तु नृणां भुवि ॥ २,३४.
उपतिष्ठेन्न वे तेषां पुत्रैर्दत्तमनेकधा । हन्तकारस्तदुद्देशे श्राद्धं नैव जलाञ्जलिः ॥ २,३४.
श्रीगरुडमहापुराणम् ३५ तर्क्ष्य उवाच । अपरं मम सन्देहं कथयस्व जनार्दन । पुरुषस्य च कस्यापि मता पञ्चत्वमागता ॥ २,३५.
पितामही जीवति च तथा च प्रपितामही । वृद्धप्रपितामही तद्वन्मातृसक्तः पिता तथा ॥ २,३५.
प्रमातामहश्च तथा वृद्धप्रमातामहस्तथा । केन सा मेल्यते माता एतत्कथय मे प्रभो ॥ २,३५.
श्रीकृष्ण उवाच । पुनरुक्तं प्रवक्ष्यामि सपिण्डीकरणं खग । उमा लक्ष्मीश्च सावित्रीत्यताभिर्मेलयेद्ध्रुवम् ॥ २,३५.
त्रयः पिण्डभुजो ज्ञेयास्त्यजाकाश्च त्रयः स्मृताः । त्रयः पिण्डानुलेपाश्च दशमः पङ्क्तिसंन्निधः ॥ २,३५.
इत्येते पुरुषाः ख्याताः पितृमातृकुलेषु च । तारयेद्यजमानस्तु दश पूर्वान् दशावरान् ॥ २,३५.
सपिण्डः स भवेदादौ सपिण्डीकरणे कृते । अन्त्यस्तु त्याजको ज्ञेयो यो वृद्धप्रपितामहः ॥ २,३५.
अन्तिमस्त्याजको ज्ञेयो लेपकः प्रथमो भवेत् । लेपकस्त्वन्तिमो यस्तु स भवेत्पङ्क्तिसन्निधः ॥ २,३५.
यजमानो भवेदेको दश पृर्त्वे दशावरे । इत्येते पितरो ज्ञेया एकविंशति संख्यकाः ॥ २,३५.