मृते भर्तरि या नारी प्राणांश्चैव परित्यजेत् । भर्त्रैव हि समं तस्याः प्रकुर्वीत सपिण्डनम् ॥ २,३४.
अस्थानिकापि या व्यूढा वैश्या वा क्षत्त्रियापि वा । याः पत्न्यो वै पितुः कश्चित्कुर्यात्पुत्रः सपिण्डनम् ॥ २,३४.
विप्रेणैव यदा शूद्रा परिणीता प्रमादतः । एकोद्दिष्टन्तु तच्छ्राद्ध सा तु तेनैव युज्यते ॥ २,३४.
अन्ये तु दश ये पुत्रा जाता वर्ण चतुष्टये । ते तासुतासु योक्त्वयाः सपिण्डीकरणे सदा ॥ २,३४.
अन्वष्टकासु यच्छ्राद्ध यच्छ्राद्धं वृद्धिहेतुकम् । पितुः पृथक्प्रदाव्यं स्त्रियाः पिण्डं सपिण्डने ॥ २,३४.
पितामह्या समं मातुः पितुः सहपितामहैः । सपिण्डीकरणं कार्यमिति तार्क्ष्य मतं मम ॥ २,३४.
अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डनम् । मात्रादितिसृभिः सार्धमेवं धर्मेण योजयेत् ॥ २,३४.
पुत्रो नास्ति न भर्ता च स्त्रीणां तार्क्ष्य सपिण्डनम् । कारयेद्वृद्धिसमये भ्रातृदायाददेवरैः ॥ २,३४.
पतिपुत्रविहीनानां गोत्री नास्ति न देवरः । एकोद्दिष्टेन दातव्यं परेण सह भ्रातृभिः ॥ २,३४.
अज्ञानाद्विघ्नतो वापि न कृतञ्चेत्सपिण्डनम् । नवकं षोडशश्राद्धमाब्दिकं कारयेत्ततः ॥ २,३४.
अदाहे न च कर्तव्यं सदाहे कारयेद्बुधः । दर्भपुत्तलकं कृत्वा वह्निना दाहयेच्छवम् ॥ २,३४.
पितुः पुत्रेण कर्तव्यं न कुर्ब्वीत पिता सुते । अतिस्नेहान्न कर्तव्यं सपिण्डीकरणं सते ॥ २,३४.
बहवोऽपि यदा पुत्रा विधिमेकः समाचरेत् । नवश्राद्धं सपिण्डत्वं श्राद्धान्यन्यानि षोडश ॥ २,३४.
एकेनैव तु कार्यांणि अविभक्तधनेष्वपि । अन्त्येष्टिं कुरुते ह्येको मुनिभैः समुदाहृतम् ॥ २,३४.
विभक्तैश्च पृथक्कार्या क्रिया सांवत्सरादिका । एकैकेन च कर्तव्या पुत्रेण च स्वयंस्वयम् ॥ २,३४.
यस्यैतानि न दत्तानि प्रेतश्राद्धानि षोडश । पिशाचत्वंस्थिरं तस्य कृतैः श्राद्धशतैरपि ॥ २,३४.
भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा । सपिण्डीकरणं कुर्यात्पुत्रहीने खगेश्वर ॥ २,३४.
सर्वेषां पुत्रहीनानां पत्री कुर्यात्सपिण्डनम् । ऋत्विजं करायेद्वाथ पुरोहितमथापि वा ॥ २,३४.
मृते पितर्यब्दमध्ये ह्युपरागो यदा भवेत् । पार्वणं न सुतैः कार्यं श्राद्धं नान्दीमुखं न च ॥ २,३४.
तीर्थश्राद्धं गयाश्राद्धं श्राद्धमन्यच्च पैतृकम् । अब्दमध्ये न कुर्वीत महागुरुविपत्तिषु ॥ २,३४.
यमके च गजच्छायामन्वादिषु युगादिषु । पितृपिण्डो न दातव्यः सपिण्डीकरणं विना ॥ २,३४.
यज्ञपुरुषस्य यद्दानं देवादीनाञ्च यत्तथा । अपूर्णेऽप्यब्दमध्येपि कर्तव्यमिति के च न ॥ २,३४.
पितृभ्योपि हि यद्दत्तमर्घपिण्डविवर्जितम् । कर्तव्यं तच्च वै सर्वमेष एव विधिः स्मृतः ॥ २,३४.
देवानां पितरो देवा पितॄणामृषयस्तथा । ऋषीणां पितरो देवाः पिता जयति तेन वै ॥ २,३४.
पितृदेवमनुष्याणां यज्ञनथो विभुर्भवेत् । यज्ञनाथस्य यद्दत्तं तद्दत्तं सर्वदेहिनाम् ॥ २,३४.
मृते पितर्यब्दमध्ये यः श्राद्धं कारयेत्सुतः । सप्तजन्मकृता धर्माथीयते नात्र संशयः ॥ २,३४.
प्रेतीभूतास्तु पितरो लुप्तपिण्डोदकक्रियाः । भ्रमन्ति वायुना सर्वे क्षुत्तृड्भ्यां परिपीडिताः ॥ २,३४.
पितरि प्रेततापन्ने लुप्यते पैतृकी क्रिया । अथ मातुर्विपत्तिः स्यात्पितृकार्यं न लुप्यते ॥ २,३४.
मृता माता पिता तिष्ठेज्जीवन्ती च पितामही । सपिण्डनन्तु कर्तव्यं पितामह्या सहैव तु ॥ २,३४.
सत्यंसत्यं पुनः सत्यं श्रूयतां वचनं मम । न पिण्डो मिलितो येषां मृतानान्तु नृणां भुवि ॥ २,३४.