पुरन्दरगृहे सर्वं सूर्यपुत्रालये तथा । उपतिष्ठेत्सुखं जन्तोः शय्यादानप्रभावतः ॥ २,३४.
पीडयन्ति न तं याम्याः पुरुषा भीषणाननाः । न घर्मेण न शीतेन बाध्यते स नरः क्वचित् ॥ २,३४.
शय्यादानप्रभावेण प्रेतो मुच्यते बन्धनात् । अपिः पापसमायुक्तः स्वर्गलोकं स गच्छति ॥ २,३४.
विमानवरमारूढः सेव्यमानोऽप्सरोगणैः । आभूतसंप्लवं यावत्तिष्ठेत्पातकवर्जितः ॥ २,३४.
नवकं षोडशश्राद्धं शय्या सांवत्सरं तथा । भर्तुर्या कुरुते नारी तस्याः श्रेयो ह्यनन्तकम् ॥ २,३४.
उपकाराय सा भर्तुर्जीवन्ती न मृता तथा । उद्धरेज्जीवमाना सा सती सत्यवती प्रियम् ॥ २,३४.
स्त्रिया दध्यन्नशयने हेमकुङ्कुममञ्जनम् । वस्त्रभूषा तथा शय्या सर्वमेतद्धि दापयेत् ॥ २,३४.
उपकारकरं स्त्रीणां यद्भवोदिह किञ्चन । भूषणं गात्रलग्नञ्च वस्तु भोग्यादिकञ्च यत् ॥ २,३४.
तत्सर्वं मेलयित्वा तु स्वेस्वे स्थाने नियोजयेत् । पूजयेल्लोकपालांश्च ग्रहान् देवीं विनायकम् ॥ २,३४.
ततः शुक्लाम्बरधरो गृहीतकुसुमाञ्जलिः । इममुच्चारयेन्मन्त्रं विप्रस्य पुरतो बुधः ॥ २,३४.
प्रेतस्य प्रतिमा ह्येषा सर्वोपकरणैर्युता । सर्वरत्नसमायुक्ता तव विप्रनिवेदिता ॥ २,३४.
आत्मा शम्भुः शिवा गौरी शक्रः सुरगणैः सह । तस्माच्छय्याप्रदानेन सैष आत्मा प्रसीदतु ॥ २,३४.
आचार्याय प्रदातव्या ब्राह्मणाय कुटुम्बिने । गृहीते ब्राह्मणस्तत्र कोऽदादिति च कीर्तयेत् ॥ २,३४.
ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत् । विधिनानेन वै पक्षिन् दानमेकस्य दापयेत् ॥ २,३४.
बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः । विभक्तदक्षिणा ह्येते दातारं पातयन्ति हि ॥ २,३४.
एवं यो वितरेत्तार्क्ष्य शृणु तस्य च यत्फलम् । साग्रं वर्षशतं दिव्यं स्वर्गलोके महीयते ॥ २,३४.
यत्पुण्यन्तु व्यतीपाते कार्तिक्यामयनद्वये । द्वारकायान्तु यत्पुण्यं चन्द्रसूर्यग्रहे तथा ॥ २,३४.
प्रयागे नैमिषे यच्च कुरुक्षेत्रे तर्थाबुदे । गङ्गायां यमुनायाञ्च सिन्धुसागरसंगमे ॥ २,३४.
तेषु यद्दीयते दानं तस्मादप्यधिकन्त्विदम् । एतच्छय्याप्रदानस्य नाप्नोति षोडशीं कलाम् ॥ २,३४.
यत्रासौ जायते प्राणी भुङ्क्ते तत्रैव तत्फलम् । कर्मक्षये क्षितौ याति मानुषः शुभदर्शनः ॥ २,३४.
महाधनी च धर्मज्ञः सर्वशास्त्रविशारदः । पुनः स याति वैकुण्ठं मृतोऽसौ नरपुङ्गवः ॥ २,३४.
दिव्यं विमानमारुह्य अप्सरोभिः समावृतः । अहोऽसौ हव्यकव्येषु पितृभिः सह मोदते ॥ २,३४.
अष्टकासु कृतं श्राद्धममावास्यादिने तथा । मघासु पितृपर्वाणि यानियानि च तेषु च ॥ २,३४.
शृणु तार्क्ष्य यथान्यायं प्रेतत्वे पितरो यदि । नोपतिष्ठन्ति श्राद्धानि सपिण्डीकरणं विना ॥ २,३४.
सपिण्डीकरणं कार्यं पूर्णे वर्षे न संशयः । आद्यन्तु शवशुद्ध्यर्थं कृत्वा चैवाक्ष षोडशीम् ॥ २,३४.
पितृपाङ्क्तिविशुर्ध्यं शतार्धेन? तु योजयेत् । वृद्धिं प्राप्याग्रतः कुर्याच्छूद्रस्य स्वच्छयैव हि ॥ २,३४.
साम्प्रतं साग्निके कार्यं द्वादशाहे सपिण्डनम् । न चासौ कुरुते यावत्प्रेत एव स वह्निमान् । द्वादशाहे ततः कार्यं साग्निकेन सपिण्डनम् ॥ २,३४.
अस्थिपोक्षे गयाश्राद्धं श्राद्धञ्चापरपक्षिकम् । अब्दमध्ये न कुर्वीत सपिण्डीकरणं विना ॥ २,३४.
सपत्न्यो यदि बह्व्यः स्युरेका पुत्रवती भवेत् । सर्वास्ताः पुत्रवत्यः स्युस्तेनैकेनात्मजेन हि ॥ २,३४.
नासपिण्डोग्निमान् पुत्रः पितृयज्ञं समाचरेत् । समाचाराद्भवेत्पापी पितृहा चापि जायते ॥ २,३४.