मासत्रये त्रिरात्रं स्यात्षण्मासेन तु पक्षिणी । अहः संवत्सरादर्ब्वाक्पूर्णे दत्त्वोदकं शुचिः । अनेनैवा नुसारेण शुद्धिः स्यात्सार्ववर्णिकी ॥ २,३४.
एकादशाहप्रभृति पुरतः प्रतिवत्सरम् । विश्वेदेवांस्तु सम्पूज्य पिण्डमेकञ्च निर्वपेत् ॥ २,३४.
यथा तारागणाः सर्वे च्छाद्यन्ते रविरश्मिभिः । एवं प्रच्छाद्यते सर्वं न प्रेतो भवति क्वचित् ॥ २,३४.
शय्यादानं प्रशंसन्ति सर्वदैव द्विजोत्तमाः । अनित्यं जीवनं य्समात्पश्चात्को नु प्रदास्यति ॥ २,३४.
तावद्वन्धुः पिता तावद्यावज्जीवति मानवः । मृते मृत इति ज्ञात्वा क्षणात्स्नेहो निवर्तते ॥ २,३४.
आत्मैव ह्यात्मनो बन्धुरेवं ज्ञात्वा मुहुर्मुहुः । जीवन्नपीति सञ्चिन्त्य स्वीयं हितमनुस्तमरेत् ॥ २,३४.
मृतानां कः सुतो दद्याद्द्विजेशय्यां सतूलिकाम् । एवं जानन्निदं सर्वं स्वहस्तेनैव दापयेत् ॥ २,३४.
तस्माच्छय्यां समासाद्य सारदारुमर्यो दृढाम् । दन्तादिरुचिरां रम्यां हेमपट्टै रलङ्कृताम् । तस्यां संस्थाप्य हैमञ्च हरिं लक्ष्म्या समन्वितम् ॥ २,३४.
घृतपूर्णञ्च कलशं परिकल्पयेत् । विज्ञेयो गरुड प्रीत्यै स निद्राकलशो बुधैः ॥ २,३४.
ताम्बूलकुङ्कुमक्षोदकर्पूरागुरुचन्दनम् । दीपिकोपानहच्छत्रचामरासनभाजनम् ॥ २,३४.
पार्श्वेषु स्थापयेच्छक्त्या सप्तधान्यानि चैवहि । शयनस्थस्य भवति यच्चान्यदुपकारकम् ॥ २,३४.
भृङ्गारकरकादर्शं पञ्चवर्णं वितानकम् । शय्यामेवंविधां कृत्वा ब्राह्मणाय निवेदयेत् ॥ २,३४.
सपत्नीकाय सम्पूज्य स्वर्लोकसुखदायिनीम् । वस्त्रैः सुशोभनैः पूज्य चैलकं परिधापयेत् ॥ २,३४.
कर्णकण्ठाङ्गुलीबाहुभूषणैश्चित्रभूषणैः । गृहोपकरणैर्युक्तं गृहं धेन्वा समन्वितम् ॥ २,३४.
ततोर्ऽघः सम्प्रदातव्यः पञ्चरत्नफलाक्षतैः ॥ २,३४.
यथा न कृष्णशयनं शून्यं सागरकन्यया । शय्या ममाप्यशून्यास्तु तथा जन्मनिजन्मनि ॥ २,३४.
दत्त्वैवं तल्पममलं क्षमाप्य च विसर्जयेत् । तथा चैकादशाहे तु विधिरेष प्रकीर्तितः ॥ २,३४.
ददाति यो हि धर्मार्थे बान्धवो बान्धवे मृते । विशेषमत्र पक्षे तु कथ्यमानं मया शृणु ॥ २,३४.
उपयुक्तञ्च तस्यासीत्यत्किञ्चित्स्वगृहे पुरा । तस्य यद्गात्रसं लग्नं वस्त्रं भाजनवाहनम् । यदभीष्टञ्च तस्यासीत्तत्सर्वं परिकल्पयेत् ॥ २,३४.
स्थापयेत्पुरुषं हैमं शय्योपरि शुभं बुधः । पूजयित्वा प्रदातव्या मृतशय्या यथोदिता ॥ २,३४.
पुरन्दरगृहे सर्वं सूर्यपुत्रालये तथा । उपतिष्ठेत्सुखं जन्तोः शय्यादानप्रभावतः ॥ २,३४.
पीडयन्ति न तं याम्याः पुरुषा भीषणाननाः । न घर्मेण न शीतेन बाध्यते स नरः क्वचित् ॥ २,३४.
शय्यादानप्रभावेण प्रेतो मुच्यते बन्धनात् । अपिः पापसमायुक्तः स्वर्गलोकं स गच्छति ॥ २,३४.
विमानवरमारूढः सेव्यमानोऽप्सरोगणैः । आभूतसंप्लवं यावत्तिष्ठेत्पातकवर्जितः ॥ २,३४.
नवकं षोडशश्राद्धं शय्या सांवत्सरं तथा । भर्तुर्या कुरुते नारी तस्याः श्रेयो ह्यनन्तकम् ॥ २,३४.
उपकाराय सा भर्तुर्जीवन्ती न मृता तथा । उद्धरेज्जीवमाना सा सती सत्यवती प्रियम् ॥ २,३४.
स्त्रिया दध्यन्नशयने हेमकुङ्कुममञ्जनम् । वस्त्रभूषा तथा शय्या सर्वमेतद्धि दापयेत् ॥ २,३४.
उपकारकरं स्त्रीणां यद्भवोदिह किञ्चन । भूषणं गात्रलग्नञ्च वस्तु भोग्यादिकञ्च यत् ॥ २,३४.
तत्सर्वं मेलयित्वा तु स्वेस्वे स्थाने नियोजयेत् । पूजयेल्लोकपालांश्च ग्रहान् देवीं विनायकम् ॥ २,३४.
ततः शुक्लाम्बरधरो गृहीतकुसुमाञ्जलिः । इममुच्चारयेन्मन्त्रं विप्रस्य पुरतो बुधः ॥ २,३४.