प्रथमेऽह्नि तृतीये च पञ्चमे सप्तमेऽपि वा । नवमैकादशे चैव श्राद्धं नवकमुच्यते ॥ २,३४.
गृहद्वारे श्मशाने वा तीर्थे देवालयेऽपि वा । यत्राद्यो दीयते पिण्डस्तत्र सर्वान् समापयेत् ॥ २,३४.
एकादशाहे यच्छ्राद्धं तत्सामान्यमुदाहृतम् । चतुर्णामेकवर्णानां शुद्ध्यर्थं स्नानमुच्यते ॥ २,३४.
कृत्वा चैकादशाहञ्च पुनः स्नात्वा शुचिर्भवेत् । दद्याद्विप्राय यः शय्यां यथोक्तं प्रेतमोक्षदाम् ॥ २,३४.
न भवेत्यदा स गोत्रो परोऽपि विधिमाचरेत् । भार्या वा पुरुषः कश्चित्तुष्टश्च कुरुते स्त्रियः ॥ २,३४.
प्रथमेऽहनि यः पिण्डो दीयते विधिपूर्वकम् । अन्नाद्येन च तेनैव सर्वश्राद्धानि कारयेत् ॥ २,३४.
अमन्त्रं कारयेच्छ्राद्धं दशाहं नामगोत्रतः । श्राद्धं कृतन्तु यैर्वस्त्रैस्तानि त्यक्त्वा गृहं विशेत् ॥ २,३४.
असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् । प्रथमेऽहनि यः कुर्यात्स दशाहं समापयेत् ॥ २,३४.
जीवस्य दशभिः पिण्डैर्देहो निष्पाद्यते ध्रुवम् । वृद्धिश्च दशभिर्मासैर्गर्भस्थस्य यथा भवेत् ॥ २,३४.
आशौचं यावदेतस्य तावत्पिण्डोदकक्रिया । चतुर्णामपि वर्णानामेष एव विधिः स्मृतः ॥ २,३४.
यत्र त्रिरात्रमाशौचं तत्रादौ त्रीन् प्रदापयेत् । चतुरस्तु द्वितीयेऽह्नि तृतीये त्रींश्तथैव च ॥ २,३४.
पृथक्शरावयोर्दद्यादेकाहं क्षीरमम्बु च । एकोद्दिष्टन्तु वै श्राद्धं चतुर्थेऽहनि कारयेत् ॥ २,३४.
प्रथमेऽहनि यः पिण्डस्तेन मूर्धा प्रजायते । चक्षुः श्रोत्रञ्च नासा च द्वितीयेऽह्नि प्रजायते ॥ २,३४.
गण्डौ वक्त्रं तथा ग्रीवा तृतीयेऽहनि जायते । हृदयं कुक्षिरुदरं चतुर्थे तद्वदेव हि ॥ २,३४.
कटिपृष्ठं गुदञ्चापि पञ्चमेऽहनि जायते । षष्ठे ऊरू च विज्ञेये सप्तमे गुल्फसम्भवः ॥ २,३४.
अष्टमे दिवसे प्राप्ते जङ्घे च भवतोऽण्डज । पादौ च नवमे ज्ञेयौ दशमे बलवत्क्षुधा ॥ २,३४.
एकादशाहे यः पिण्डस्तं दद्यादामिषेण तु । सिद्धान्नं तस्य दातव्यं कृशराः पूपकाः पयः । प्रक्षाल्य विप्रचरणावर्घ्यं धूपञ्च दीपक्रम् ॥ २,३४.
द्वादश प्रतिमास्यानि श्राद्धान्यैकादशे तथा । त्रिपक्षञ्चापि षण्मासे द्वे श्राद्धानि च षोडश ॥ २,३४.
प्रति मासं प्रदातव्यं मृताहे या तिथिर्भवेत् । स मासः प्रथमो ज्ञेय इति वेदविदो विदुः ॥ २,३४.
शवहस्ते च यच्छ्राद्धं मृतिस्थाने द्विजासने । तदेव प्रथमं श्राद्धं तत्स्यादेकादशेऽहनि ॥ २,३४.
सा तिथिर्मासिके श्राद्धे मृतो यस्मिन् दिने नरः । रिक्तयोश्च त्रिपक्षे च सा तिथिर्नाद्रियेत वै ॥ २,३४.
पौर्णमास्यां मृतो योऽसौ चतुर्थी तस्य चोनका । चतुर्थ्यान्तु मृतो यस्तु नवमी तस्य चोनका ॥ २,३४.
नवम्याञ्च मृतो यश्च रिक्ता तस्य चतुर्दशी । एता रिक्ताश्च विज्ञेया अन्त्येष्टौ कुशलेन च ॥ २,३४.
एकादशाहे यच्छ्राद्धं नवकं तत्प्रकीर्तितम् । चतुष्पथे त्यजेदन्नं पुनः स्नानं समाचरेत् ॥ २,३४.
एकादशाहादारभ्य घटस्यान्नं जलान्वितम् । दिनेदिने च दातव्यमब्दं यावद्द्विजोत्तमे ॥ २,३४.
मानुषस्य शरीरे तु विद्यते ह्यस्थिसञ्चयः । तत्संख्यः सर्वदेहेषु षष्ट्यधिकशतत्रयम् ॥ २,३४.
उदकुम्भेन पुष्टानि तान्यस्थीनि भवन्ति हि । एतस्माद्दीयते कुम्भः प्रीतिः प्रेतस्य जायते ॥ २,३४.
यस्मिन् दिने मृतो जन्तुरटव्यां विषमेऽपि वा । यदा तदा भवेद्दाहः सूतकं मृतवासरात् ॥ २,३४.
तिलपात्रं तथान्नाद्यं गन्धधपादिकञ्च यत् । एकादशाहे दातव्यं तेन शूद्धो द्विजो भवेत् ॥ २,३४.
क्षत्त्रियो द्वादशाहे तु वैश्यः पञ्चदशे तथा । शुद्धिः शूद्रस्य मासेन मृतके जातसूतके ॥ २,३४.