सुवर्णमणिमुक्तादि वस्त्राण्याभरणानि च । तेन सर्वमिदं दत्तं येन दत्ता वसुन्धरा ॥ २,३४.
यानियानि च भूतानि दत्तानि भुवि मानवैः । यमलोकपथे तानि तिष्ठन्त्येषां समीपतः ॥ २,३४.
व्यञ्जनानि विचित्राणि भक्ष्यभोज्यानि यानि च । ददाति विधिना पुत्र प्रेते तदु पतिष्ठति ॥ २,३४.
आत्मा वै पुत्रनामास्ति पुत्रस्त्राता यमालये । तारयेत्पितरं घोरात्तेन पुत्त्रः प्रवक्ष्यते ॥ २,३४.
अतो देयञ्च पुत्रेण श्राद्धमाजी वितावधि । अतिवाहस्तदा प्रेतो भोगान् वै लभते हि सः ॥ २,३४.
दह्यमानस्य प्रेतस्य स्वजनैर्यो जलाञ्जलिः । दीयते प्रेतरूपोऽसौ प्रीतो याति यमालये ॥ २,३४.
अपक्वे मृन्मये पात्रे दुग्धं दत्तं दिनत्रयम् । काष्ठत्रयं गुणैर्बद्ध्वा प्रीत्यै रात्रौ चतुष्पथे ॥ २,३४.
प्रथमेऽह्नि द्वितीये च तृतीये च तथा खग । आकाशस्थं पिबेद्दुग्धं प्रेतो वायुवपुर्धरः ॥ २,३४.
चतुर्थे सञ्चयः कार्यः चतुर्थे?वापि साग्निके । अस्थिसञ्चयनं कार्यं दद्यादापाञ्जलिं ततः ॥ २,३४.
न पूर्वाह्ने न मध्याह्ने नापराह्ने न सन्धिषु । याते प्रथमयामे तु दद्यादापजलाञ्जंलीन् ॥ २,३४.
पुत्त्रेण दत्ते ते सर्वे गोत्रिणो हितबान्धवाः । स्वजात्यैः परजात्यैश्च देयो नद्यां जलाञ्जलिः ॥ २,३४.
गन्तव्यं नैव विप्रेण दातुं शीघ्रं जलाञ्जलिम् । निवृत्ताश्च यदा नार्यो लोकाचारः सदाभवेत् ॥ २,३४.
पञ्चत्वञ्च गते शूद्रे यः काष्ठं नयते चिताम् । अनुव्रजेद्यदा विप्रस्त्रिरात्रमशुचिर्भवेत् ॥ २,३४.
त्रिरात्रे च ततः पूर्णे नदीं गच्छेत्समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ २,३४.
शूद्रो गच्छति सर्वत्र वैश्यस्त्रिषु द्वयोः परः । गच्छति स्वीयवर्णेषु दातुं प्रेते जलाञ्जलिम् ॥ २,३४.
दत्ते जलाञ्जलौ पश्चाद्विदध्याद्दन्तधावनम् । त्यजन्ति गोत्रिणः सर्वे दिनानि नव काश्यप ॥ २,३४.
जलाञ्जलिं तथा दातुं गच्छन्ति द्विजसत्तमाः । यत्र स्थाने मृतो यस्तु अध्वन्यपि गृहेऽपि वा । विश्लेषस्तु ततः स्थानान्न क्वचिद्विहितो बुधैः ॥ २,३४.
स्त्रीजनश्चाग्रतो गच्छेत्पृष्ठतो नवसञ्चयः । आचमनं विधातव्यं पाषाणोपरि संस्थितैः ॥ २,३४.
यवांश्च सर्षपान् दूर्वाः पूर्णपात्रे विलोकयेत् । प्राशयेन्निम्बपत्राणि स्नेहस्नानं समाचरेत् ॥ २,३४.
गोत्रिभिर्न च कर्तव्यं गृहान्नञ्च न भोजयेत् । भुञ्जीत मृन्मये पात्रे उत्तानञ्च विवर्जयेत् ॥ २,३४.
मृतकस्य गुणा ग्राह्या यमगाथां समुद्गिरेत् । शुभाशुभे च ध्यातव्ये पूर्वकर्मोपसञ्चिते ॥ २,३४.
लब्धेनैव च देहेन भुङ्क्ते सुकृतदुष्कृते । वायुरूपो भ्रमत्येव वायुरूर्ध्वं स गच्छति ॥ २,३४.
दशाहकर्मक्रियया कुटी निष्पाद्यते ध्रुवम् । नवकैः षोडशश्राद्धैः प्रयाति हि कुटीं नरः ॥ २,३४.
तिलैर्दर्भैश्च भूम्यां वै कुटी धातुमयी भवेत् । पञ्च रत्नानि वक्त्रे तु येन जीवः प्ररोहति ॥ २,३४.
यदा पुष्पं प्रनष्टं हि तदा गर्भं न धारयेत् । आदराच्च ततो भूमौ तिलदर्भान्विनिः क्षिपेत् ॥ २,३४.
पशुत्वे स्थावरत्वे च यत्र क्वापि स जायते । तत्रैव जन्तुरुत्पन्नः श्राद्धं तत्रोपतिष्ठति ॥ २,३४.
धन्विना लक्ष्यमुद्दिश्य मुक्तो बाणस्तदाप्नुयात् । यथा श्राद्धं यमुद्दिश्य कृतं तस्योपतिष्ठति ॥ २,३४.
यावन्नोत्पादितो देहस्तावच्छ्राद्धैर्न प्रीणनम् । क्षुधाविभ्रममापन्नो दशाहेन च तर्पितः ॥ २,३४.
पिण्डदानं न यस्याभूदाकाशे भ्रमते तु सः । दिनत्रयं वसंस्तोये अग्नावपि दिनत्रयम् । आकाशे वसते त्रीणि दिनमेकन्तु वासके ॥ २,३४.
दग्धे देहे च वह्नौ च जलेनैव तु तर्पितः । स्नेहस्नानं जलेनैव पूपकैः कृशरैर्गृहे ॥ २,३४.