चतुरश्रं चतुर्द्वारं सप्तप्राकारतोरणम् । स्वयं तिष्ठति वै यस्यां यमो दूतैः समन्वितः ॥ २,३३.
योजनानां सहस्रं वै प्रमाणेन तदुच्यते । सर्वरत्नमयं दिव्यं विद्युज्ज्वालार्कतैजसम् ॥ २,३३.
तद्गुहं धर्मराजस्य विस्तीर्णं काञ्चनप्रभम् । योजनानां पञ्चशतप्रमाणेन समुच्छ्रितम् ॥ २,३३.
वृतं स्तम्भसहस्रैस्तु वैदूर्यमणिमण्डितम् । मुक्ताजालगवाक्षं च पताकाशतभूषितम् ॥ २,३३.
घण्टाशतनिनादाढ्यं तोरणानां शतैर्वृतम् । एवमादिभिरन्यैश्च भूषणैर्भूषितं सदा ॥ २,३३.
तत्रस्थो भगवान् धर्म आसने तु समे शुभे । दशयो जनविस्तीर्णे नीलजीमूतसन्निभे ॥ २,३३.
धर्मज्ञो धर्मशीलश्च धर्मयुक्तो हितो यमः । भयदः पापयुक्तानां धार्मिकाणां सुखप्रदः ॥ २,३३.
मन्दमारु तसंयोगैरुत्सवैर्विविधैस्तथा । व्याख्यानैर्विविधैर्युक्तः शङ्खवादित्रनिः स्वनैः ॥ २,३३.
पुरमध्यप्रवेशे तु चित्रगुप्तस्य वै गृहम् । पञ्चविंशतिसंख्यानां योजनानां सुविस्तरम् ॥ २,३३.
दशोच्छ्रितं महादिव्यं लोहप्राकारवोष्टितम् । प्रतोलीशतसंचारं पतताकाशतशोभितम् ॥ २,३३.
दीपिकाशतसङ्कीर्णं गीतध्वनिसमाकुलम् । विचित्रचित्रकुशलैश्चित्रगुप्तस्य वै गृहम् ॥ २,३३.
मणिमुक्तामये दिव्ये आसने परमाद्भुते । तत्रस्थो गणयत्यायुर्मानुषेष्वितरेषु च ॥ २,३३.
न मुह्यति कदाचित्स सुकृते दुष्कृतेऽपि वा । यद्येनोपार्जितं यावत्तावद्वै वेत्ति तस्य तत् ॥ २,३३.
दशाष्टदोषरहितं कृत कर्म लिखत्यसौ । चित्रगुप्तालयाताच्यां ज्वरस्यास्ति महागृहम् ॥ २,३३.
दक्षिणे चापि शूलस्य लताविस्फोटकस्य च । पश्चिमे काल पाशस्य अजीर्णस्यारुचेस्तथा ॥ २,३३.
मध्यपीठोत्तरे ज्ञेयो तथा चान्या विषचिका । ऐशन्यां वै शिरोऽर्तिश्च आग्नेय्याञ्चैव मृकता ॥ २,३३.
अतिसारश्च नैरृत्यां वायव्यां दाहसंज्ञकः । एभिः परिवृतो नित्यं चित्रगुप्तः स तिष्ठति ॥ २,३३.
यत्कर्म कुरुते कश्चित्तत्सर्वं विलखत्यसौ । धर्मराजगृहद्वारि दूतास्तार्क्ष्य तथा निशि । तिष्ठन्ति पापकर्माणः पच्यमाना नराधमाः ॥ २,३३.
यमदूतैर्महापाशैर्हन्यमानाश्च मुद्गरैः । वध्यन्ते विविधैः पापैः पूर्वकर्मकृतैर्नराः ॥ २,३३.
नानाप्रहारणाग्रैश्च नानायन्त्रैस्तथा परे । छिद्यन्ते पापकर्माणः क्रकचैः काष्ठवद्द्विधा ॥ २,३३.
अन्ये ज्वलद्भिरङ्गारैर्वेष्टिताः परितो भृशम् । पूर्वकर्मविपाकेन ध्मायन्ते लोहपिण्डवत् ॥ २,३३.
क्षिप्त्वान्ये च धरापृष्ठे कुठारेणावकर्तिताः । क्रन्दमानाश्च दृश्यन्ते पूर्वकर्मविपाकतः ॥ २,३३.
केचिद्गुडमयैः पाकैस्तैलपाकैस्तथा परे । पीड्यन्ते यमदूतैश्च पापिष्ठाः सुभृशं नराः ॥ २,३३.
क्षणाह्नि प्रार्थयन्त्यन्ये देहिदेहीति कोटिशः । यमलोके मया दृष्टा ममस्वं भक्षितं त्वया ॥ २,३३.
इत्येवं बहुशस्तार्क्ष्य नरकाः पापिनां स्मृताः । कर्मभिर्बहुभिः प्रोक्तैः सर्वशास्त्रेषु भाषितैः । दानोपकारं वक्ष्यामि यथा तत्र सुखं भवेत् ॥ २,३३.
श्रीगरुडमहापुराणम् ३४ श्रीकृष्ण उवाच । शृणु तार्क्ष्य यथान्यायं धर्माधर्म्स्य लक्षणम् । सुकृतं दुष्कृतं नॄणामग्रे धावति धावताम् ॥ २,३४.
कृते तपः प्रशंसन्ति त्रेतायां ज्ञानसाधनम् । द्वापरे यज्ञदाने च दानमेकं कलौ युगे ॥ २,३४.
गृहस्थानां स्मृतो धर्म उत्तमानां विचक्षणैः । इष्टापूर्ते स्वशक्त्या हि कुर्वतां नास्ति पातकम् ॥ २,३४.
वृक्षस्तु रोपितो येन खनिकूपजलाशयाः । यममार्गे सुखं तस्य व्रजतो नितरां भवेत् ॥ २,३४.
अग्नितापप्रदातारे यैः शीतपीडिते द्विजे । तप्यमानाः सुखं यान्ति सर्व कामैः प्रपूरिताः ॥ २,३४.