वृक्षच्छाया न तत्रास्ति यत्र विश्रमते नरः । गृहीतः कालपाशैश्च कृतैः कर्मभिरुल्बणैः ॥ २,३३.
तस्मिन्मार्गे न चान्नाद्यं येन प्राणान् प्रपोषयेत् । न जलं दृश्यते तत्र तृषा येन विलीयते ॥ २,३३.
क्षुधया पीडितो याति तृष्णया च महापथे । शीतेन कम्पते क्वापि यममार्गेऽतिदुर्गमे ॥ २,३३.
यद्यस्य यादृशं पापं स पन्थास्तस्य तादृशः । सुदीनाः कृपणा मूढा दुः खैर्व्याप्तास्तरन्ति तम् ॥ २,३३.
रुदन्ति दारुणं केचित्केचिद्द्रोहं वदन्ति च । आत्मकर्मकृतैर्देषैः पच्यमाना मुहुर्मुहुः ॥ २,३३.
ईदृग्विधः स वै पन्था विज्ञेयो दारुणः खग । वितृष्णा ये नरा लोके सुखं तस्मिन् व्रजन्ति ते ॥ २,३३.
यानियानि च दानानि दत्तानि भुवि मानवैः । तानितान्युपतिष्ठन्ति यमलोके पुरः पथि ॥ २,३३.
पापिनो नोपतिष्ठन्ति दाहश्राद्धजलाञ्जलि । भ्रमन्ति वायुभूतास्ते ये क्षुद्राः पापकर्मिणः ॥ २,३३.
ईदृशं वर्त्म तद्रौद्रं कथितं तव सुव्रत । पुनश्च कथयिष्यामि यममार्गस्य या स्थितिः ॥ २,३३.
याम्यनैरृतयोर्मध्ये पुरं वैवस्वतस्य तु । सर्वं वज्रमयं दिव्यमभेद्यं तत्सुरासुरैः ॥ २,३३.
चतुरश्रं चतुर्द्वारं सप्तप्राकारतोरणम् । स्वयं तिष्ठति वै यस्यां यमो दूतैः समन्वितः ॥ २,३३.
योजनानां सहस्रं वै प्रमाणेन तदुच्यते । सर्वरत्नमयं दिव्यं विद्युज्ज्वालार्कतैजसम् ॥ २,३३.
तद्गुहं धर्मराजस्य विस्तीर्णं काञ्चनप्रभम् । योजनानां पञ्चशतप्रमाणेन समुच्छ्रितम् ॥ २,३३.
वृतं स्तम्भसहस्रैस्तु वैदूर्यमणिमण्डितम् । मुक्ताजालगवाक्षं च पताकाशतभूषितम् ॥ २,३३.
घण्टाशतनिनादाढ्यं तोरणानां शतैर्वृतम् । एवमादिभिरन्यैश्च भूषणैर्भूषितं सदा ॥ २,३३.
तत्रस्थो भगवान् धर्म आसने तु समे शुभे । दशयो जनविस्तीर्णे नीलजीमूतसन्निभे ॥ २,३३.
धर्मज्ञो धर्मशीलश्च धर्मयुक्तो हितो यमः । भयदः पापयुक्तानां धार्मिकाणां सुखप्रदः ॥ २,३३.
मन्दमारु तसंयोगैरुत्सवैर्विविधैस्तथा । व्याख्यानैर्विविधैर्युक्तः शङ्खवादित्रनिः स्वनैः ॥ २,३३.
पुरमध्यप्रवेशे तु चित्रगुप्तस्य वै गृहम् । पञ्चविंशतिसंख्यानां योजनानां सुविस्तरम् ॥ २,३३.
दशोच्छ्रितं महादिव्यं लोहप्राकारवोष्टितम् । प्रतोलीशतसंचारं पतताकाशतशोभितम् ॥ २,३३.
दीपिकाशतसङ्कीर्णं गीतध्वनिसमाकुलम् । विचित्रचित्रकुशलैश्चित्रगुप्तस्य वै गृहम् ॥ २,३३.
मणिमुक्तामये दिव्ये आसने परमाद्भुते । तत्रस्थो गणयत्यायुर्मानुषेष्वितरेषु च ॥ २,३३.
न मुह्यति कदाचित्स सुकृते दुष्कृतेऽपि वा । यद्येनोपार्जितं यावत्तावद्वै वेत्ति तस्य तत् ॥ २,३३.
दशाष्टदोषरहितं कृत कर्म लिखत्यसौ । चित्रगुप्तालयाताच्यां ज्वरस्यास्ति महागृहम् ॥ २,३३.
दक्षिणे चापि शूलस्य लताविस्फोटकस्य च । पश्चिमे काल पाशस्य अजीर्णस्यारुचेस्तथा ॥ २,३३.
मध्यपीठोत्तरे ज्ञेयो तथा चान्या विषचिका । ऐशन्यां वै शिरोऽर्तिश्च आग्नेय्याञ्चैव मृकता ॥ २,३३.
अतिसारश्च नैरृत्यां वायव्यां दाहसंज्ञकः । एभिः परिवृतो नित्यं चित्रगुप्तः स तिष्ठति ॥ २,३३.
यत्कर्म कुरुते कश्चित्तत्सर्वं विलखत्यसौ । धर्मराजगृहद्वारि दूतास्तार्क्ष्य तथा निशि । तिष्ठन्ति पापकर्माणः पच्यमाना नराधमाः ॥ २,३३.
यमदूतैर्महापाशैर्हन्यमानाश्च मुद्गरैः । वध्यन्ते विविधैः पापैः पूर्वकर्मकृतैर्नराः ॥ २,३३.
नानाप्रहारणाग्रैश्च नानायन्त्रैस्तथा परे । छिद्यन्ते पापकर्माणः क्रकचैः काष्ठवद्द्विधा ॥ २,३३.