पातालभूधरा लोकास्तथान्ये द्वीपसागराः । आदित्यादिग्रहाः सर्वे पिण्डमध्ये व्यवस्थिताः ॥ २,३२.
पादाधस्तु तलं ज्ञेयं पादोर्ध्वं वितलं तथा । जानुभ्यां सुतलं विद्धि सक्थिदेशे महातलम् ॥ २,३२.
तथा तलातलञ्चोरौ गुह्यदेशे रसातलम् । पातालं कटिसंस्थन्तु पादादौ लक्षयेद्बुधः ॥ २,३२.
भूर्लोकं नाभिमध्ये तु भुवर्लोकं तदूर्ध्वतः । स्वर्गलोकं हृदये विद्यात्कण्ठदेशे महस्तथा ॥ २,३२.
जनलोकं वक्त्रदेशे तपोलोकं ललाटके । सत्यलोकं महारन्ध्रे भुवनानि चतुर्दश ॥ २,३२.
त्रिकोणे संस्थितो मेरुरधः कोणे च मन्दरः । दक्षिणे चैव कैलासो वामभागे हिमाचलः ॥ २,३२.
निषधश्चोर्ध्वभागे च दक्षिणे गन्धमादनः । मलयो (रमणो) वामरेखायां सप्तैते कुलपर्वताः ॥ २,३२.
thumb|400px|कुशा एवं अश्वत्थ पत्रयोः सूक्ष्मदर्शी अवलोकनम् अस्थिस्थाने स्थितो जम्बूः शाको मज्जासु संस्थितः । कुशद्वीपः स्थितो मांसे क्रौञ्चद्वीपः शिरास्थितः ॥ २,३२.
त्वचायां शाल्मलिर्द्वीपो प्लक्षः रोम्णां च सञ्चये । नखस्थः पुष्करद्वीपः सागरास्तदनन्तरम् ॥ २,३२.
क्षारोदश्च तथा मूत्रे क्षारे क्षीरोदसागरः । सुरोदधिश्च श्लेष्मस्थः मज्जायां घृतसागरः ॥ २,३२.
रसोदधिं रसे विद्याच्छोणिते दधिसागरम् । स्वादुलं लम्बिकास्थाने गर्भोदं शुक्रसंस्थितम् ॥ २,३२.
नादचक्रे स्थितः सूर्यो बिन्दुचक्रे च चन्द्रमाः । लोचनस्थः कुजो ज्ञेयो हृदये च बुधः स्मृतः ॥ २,३२.
विष्णुस्थाने गुरुं विद्याच्छ्रुक्रे शुक्रो व्यवस्थितः । नाभिस्थाने स्थितो मन्दो मुखे राहुः स्थितः सदा ॥ २,३२.
पायु (द) स्थाने स्थितः केतुः शरीरे ग्रहमण्डलम् । विभक्तञ्च समाख्यातमापादतलमस्तकम् ॥ २,३२.
उत्पन्ना ये हि संसारे म्रियन्ते ते न संशयः । बुभुक्षा च तृषा रौद्रा दाहोद्भूता च मूर्छना ॥ २,३२.
यत्र पीडास्त्विमा रौद्रास्ता वै वृश्चिकदंशजाः । विनाशः पूर्णकाले च जायते सर्वदेहिनाम् ॥ २,३२.
अग्रे अग्रे हि धावन्ति यमलोकगतस्यवै । तप्तवालुकमध्येन प्रज्वलद्वह्निमध्यतः ॥ २,३२.
केशग्राहैः समाक्रान्ता नीयन्ते यमकिङ्करैः । पापिष्ठास्त्वधमास्तार्क्ष्य दयाधर्मविविर्जिताः ॥ २,३२.
यमलोके वसन्त्येते कुट्यां जन्म न विद्यते । एवं सञ्जायते तार्क्ष्य मर्त्ये जन्तुः स्वकर्मभिः ॥ २,३२.
उत्पन्ना ये हि संसारे म्रियन्ते ते न संशयः । आयुः कर्म च वित्तञ्च विद्या निधनमेव च ॥ २,३२.
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः । कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ॥ २,३२.
सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते । अधोमुखं चोर्ध्वपादं गर्भाद्वायुः प्रकर्षति ॥ २,३२.
जन्मतो वैष्णवी माया संमोहयति सत्वरम् । स्वकर्मकृतसम्बन्धो जन्तुर्जन्म प्रपद्यते ॥ २,३२.
सुकृतादुत्तमो भोगभोग्यवान् सुकुले भवेत् । यथायथा दुष्कृतं तत्कुले हीने प्रजायते ॥ २,३२.
दरिद्रो व्याधितो मूर्खः पापकृद्दुःखभाजनम् । अतः परं किमर्थं ते कथयामि खगेश्वर ॥ २,३२.
श्रीगरुडमहापुराणम् ३३ गरुड उवाच । उत्पत्तिलक्षणं जन्तोः कथितं मयि पुत्त्रके । यमलोकः कियन्मात्रस्त्रैलोक्ये सचराचरे । विस्तरं तस्य मे ब्रूहि अध्वा चैव कियान् स्मृतः ॥ २,३३.
कैश्च पापैः कृतैर्देव केन वा शुभकर्मणा । गच्छन्ति मानवास्तत्र कथयस्व विशेषतः ॥ २,३३.
श्रीभगवानुवाच । षटशीतिसहस्राणि योजनानां प्रमाणतः । यमलोकस्य चाध्वानमन्तरा मानुषस्य च ॥ २,३३.
ध्मातताम्रमिवातप्तो ज्वलद्दुर्गो महापथः । तत्र गच्छन्ति पापिष्ठा मानवा मूढचेतसः ॥ २,३३.
कण्टकाश्च सुतीक्ष्णा वै विविधा घोरदर्शनाः । तैस्तुवालुक्षितिर्व्याप्ता हुताशश्च तथोल्बणः ॥ २,३३.