नारकांश्चैव सम्प्रेक्ष्य महद्दुःखमवाप्यते । एवं गतिमहं गन्तेत्यहर्निशमनिर्वृतः ॥ २,३२.
गर्भवासे महद्दुःखं जायमानस्य योनिजम् । जातस्य बालभावेऽपि वृद्धत्वे दुःखमेव च ॥ २,३२.
कामेर्ष्याक्रोधसम्बन्धाद्यौवनेऽपि च दुः सहम् । दुःस्वप्नं या वृद्धता च मरणे दुःखमुत्कटम् ॥ २,३२.
कृष्यमाणश्च याम्यैः स नरकेऽपि च यात्यधः । पुनश्च गर्भाज्जन्म स्यान्मरणं दुष्करं तथा ॥ २,३२.
एवं संसारचक्रेऽस्मिज्जन्तवो घटयन्त्रवत् । भ्राम्यन्ते प्राक्तनैर्बधैर्बद्धा विध्यन्ति चासकृत् ॥ २,३२.
नास्ति पक्षिन्सुखं किञ्चित्क्षेत्रे दुः खशताकुले । विनतासुत मोक्षाय यतितव्यं ततो नरैः ॥ २,३२.
एतत्ते सर्वमाख्यातं यथा गर्भस्य संस्थितिः । कथयामि क्रमप्रश्रं पृष्टं वा वर्तते स्पृहा ॥ २,३२.
गरुड उवाच । मध्ये कृतमहाप्रश्नद्वयस्याप्तं मयोत्तरम् । प्रश्नस्यापि तृतीयस्य उत्तरं च विधीयताम् ॥ २,३२.
श्रीकृष्ण उवाच । म्रियमाणस्य किं कृत्यमिति त्वं पृष्टवानसि । शृणु तत्रोत्तरं तूक्तं कथयामि समासतः ॥ २,३२.
आसन्नमरणं ज्ञात्वा पुरुषं स्नापयेत्ततः । गोमूत्रगोमयसुमृत्तीर्थोदककुशोदकैः ॥ २,३२.
वाससी परिधार्याथ धौते तु शुचिनी शुभे । दर्भाण्यादौ समास्तीर्य दक्षिणाग्रान्विकीर्य च ॥ २,३२.
तिलान् गोमयलिप्तायां भूमौ तत्र निवेशयेत् ॥ २,३२.
प्रागुदक्शिरसं वापि मुखे स्वर्णं विनिः क्षेपेत् । शालग्रामशिला तत्र तुलसी च खगेश्वर ॥ २,३२.
विधेया सन्निधौ सर्पिर्दीपं प्रज्वालयेत्पुनः । नमो भगवते वासुदेवायेति जपस्तथा ॥ २,३२.
आदौ तु प्रणवं कृत्वा पूजादाने ततः स्मृते । समभ्यर्च्य हृषीकेशं पुष्पधूपादिभिस्ततः ॥ २,३२.
प्रणिपातैः स्तवैः पुण्यैर्ध्या नयोगेन पूजयेत् । दत्त्वा दानं च विप्रेभ्यो दीनानाथेभ्य एव च ॥ २,३२.
पुत्त्रे मित्रे कलत्रे च क्षेत्रधान्यधनादिषु । निवर्तयेन्ममत्वं च विष्णोः पादौ हृदि स्मरन् ॥ २,३२.
उच्चैः पुरुषसूक्तं च यदि श्रेष्ठापदस्तदा । पुत्त्राद्याः प्रपठेयुस्ते म्रियमाणे निजे जने ॥ २,३२.
एतत्ते सर्वमाख्यातं कृत्यं मृत्यावुपस्थिते । फलमप्यस्य कृत्स्नस्य समासात्ते वदाम्यहम् ॥ २,३२.
स्नानेन शुचिताप्राप्तिरपावित्र्यहृतिस्ततः । ततो विष्णोः स्मृतिस्तस्य ज्ञानात्सर्वफलप्रदा ॥ २,३२.
दर्भतूली नयेत्स्वर्गमातुरं तु न संशयः । तिलैर्दर्भैश्च निः क्षिप्तैः स्नानं क्रतुमयं भवेत् ॥ २,३२.
ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशस्तथैव च । मण्डले चोपतिष्ठन्ति तस्मात्कुर्वीत मण्डलम् ॥ २,३२.
प्रागुदग्वा कृतेनेह शिरसा लोकमुत्तमम् । व्रजते यदि पापस्याल्पत्वं पुंसो भवेत्खग ॥ २,३२.
पञ्चरत्ने मुखे मुक्ते जिवे ज्ञानं प्ररोहति । तुलसी ब्राह्मणा गावो विष्णुरेकादशी खग ॥ २,३२.
पञ्च प्रवहणान्येव भवाब्धौ मज्जतां नृणाम् । विष्णुरेकादशी गीता तुलसी विप्रधेनवः ॥ २,३२.
असारे दुर्गसंसारे षट्पदी भक्तिदायिनी । नमो भगवते वासुदेवायेति जपन्नरः ॥ २,३२.
ओङ्कारपूर्वं सायुज्यं प्राप्नुयान्नात्र संशयः । पूजयापि च मल्लोकप्राप्तिराराद्दिवं व्रजेत् ॥ २,३२.
बन्धाभावे ममत्वेतु ज्ञानं पुरुषसूक्ततः । यस्ययस्याधिकत्वं तु साधनेष्वेषु काश्यप ॥ २,३२.
तत्तत्फलस्याप्याधिक्यं भवतीत्यवधारय । दातव्यानि यथाशक्त्या प्रीतोऽसौ सर्वदा भवेत् ॥ २,३२.
एतत्ते सर्वमाख्यातं स्नानादिषु फलं मया । ब्रह्माण्डे ये गुणाः सन्ति शरीरे ते व्यवस्थिताः ॥ २,३२.