श्लेष्माणश्च षडूर्ध्वञ्च विण्मूत्रं तत्प्रमाणतः । अस्थ्नां हि ह्यधिकं प्रोक्तं षष्ट्युत्तरशतत्रयात् ॥ २,३२.
एवं पिण्डः समाख्यातो वैभवं सम्प्रचक्ष्महे । सुखं दुः खं भयं क्षेमं कर्मणैव हि प्राप्यते ॥ २,३२.
अधोमुखं चोर्ध्वपादं गर्भाद्वायुः प्रकर्षति । तले तु करयोर्न्यस्य वर्धते जानुपार्श्वयोः ॥ २,३२.
अङ्गुष्ठौ चोपरि न्यस्तौ जान्वोरथ कराङ्गुली । जानुपृष्ठे तथा नेत्रे जानुमध्ये च नासिका ॥ २,३२.
एवं वृद्धिं क्रमाद्याति जन्तुः स्त्रीगर्भसंस्थितः । काठिन्यमस्थीन्यायान्ति भुक्तपीतेन जीवति ॥ २,३२.
नाडी वाप्यायनी नाम नाभ्यां तत्र निबध्यते । स्त्रीणां तथान्त्रसुषिरे स निबद्धः प्रजायते ॥ २,३२.
क्रामन्ति भुक्तपीतानि स्त्रीणां गर्भोदरे तथा । तैराप्यायितदेहोऽसौ जन्तुर्वृद्धिमुपैति च ॥ २,३२.
स्मृत्यस्तत्र प्रयान्त्यस्य बह्व्यः संसारभूतयः । ततो निर्वेदमायाति पीड्यमान इतस्ततः ॥ २,३२.
पुनर्नैवं करिष्यामि भुक्तमात्र इहोदरात् । तथातथा यतिष्यामि गर्भं नाप्नोम्यहं यथा ॥ २,३२.
इति सञ्चिन्तयञ्जीवो स्मृत्वा जन्मशतानि वै । यानि पूर्वानुभूतानि देवभूतात्मजानि वै ॥ २,३२.
ततः कालक्रमाज्जन्तुः परिवर्त्यत्वधोमुखः । नवमे दशमे वापि मासि संजायते ततः ॥ २,३२.
निष्क्रम्यमाणो वातेन प्राजापत्येन पीड्यते । निष्क्रमते च विलपंस्तदा दुःखनिपीडितः ॥ २,३२.
निष्क्रामंश्चोदरान्मूर्छामसह्यां प्रतिपद्यते । प्राप्नोति चेतनां चासौ वायुस्पर्शसुखान्वितः ॥ २,३२.
ततस्तं वैष्णवी माया समास्कन्दति मोहिनी । तया विमोहितात्मासौ ज्ञानभ्रंशमवाप्नुते ॥ २,३२.
भ्रष्टज्ञानं बालभावे ततो जन्तुः प्रपद्यते । ततः कौमारकावस्थां यौवनं वृद्धतामपि ॥ २,३२.
पुनश्च तद्वन्मरणं जन्म प्राप्नोति मानवः । ततः संसारचक्रेऽस्मिन् भ्राम्यते घटयन्त्रवत् ॥ २,३२.
कदाचित्स्वर्गमाप्नोति कदाचिन्निरयं नरः । स्वर्गं च निरयं चैव स्वकर्मफलमश्नुते ॥ २,३२.
कदाचिद्भुक्तकर्मा च भुवं स्वल्पेन गच्छति । स्वर्लोके नरके चैव भुक्तप्राये द्विजोत्तमाः ॥ २,३२.
नरकेषु महद्दुःखमेतद्यत्स्वर्गवासिनः । दृश्यते नात्र मोदन्ते पात्यमानास्तु नारकैः ॥ २,३२.
स्वर्गेऽपि दुः खमतुलं यदारोहणकालतः । प्रभृत्यहं पतिष्यामीत्येतन्मनसि वर्तते ॥ २,३२.
नारकांश्चैव सम्प्रेक्ष्य महद्दुःखमवाप्यते । एवं गतिमहं गन्तेत्यहर्निशमनिर्वृतः ॥ २,३२.
गर्भवासे महद्दुःखं जायमानस्य योनिजम् । जातस्य बालभावेऽपि वृद्धत्वे दुःखमेव च ॥ २,३२.
कामेर्ष्याक्रोधसम्बन्धाद्यौवनेऽपि च दुः सहम् । दुःस्वप्नं या वृद्धता च मरणे दुःखमुत्कटम् ॥ २,३२.
कृष्यमाणश्च याम्यैः स नरकेऽपि च यात्यधः । पुनश्च गर्भाज्जन्म स्यान्मरणं दुष्करं तथा ॥ २,३२.
एवं संसारचक्रेऽस्मिज्जन्तवो घटयन्त्रवत् । भ्राम्यन्ते प्राक्तनैर्बधैर्बद्धा विध्यन्ति चासकृत् ॥ २,३२.
नास्ति पक्षिन्सुखं किञ्चित्क्षेत्रे दुः खशताकुले । विनतासुत मोक्षाय यतितव्यं ततो नरैः ॥ २,३२.
एतत्ते सर्वमाख्यातं यथा गर्भस्य संस्थितिः । कथयामि क्रमप्रश्रं पृष्टं वा वर्तते स्पृहा ॥ २,३२.
गरुड उवाच । मध्ये कृतमहाप्रश्नद्वयस्याप्तं मयोत्तरम् । प्रश्नस्यापि तृतीयस्य उत्तरं च विधीयताम् ॥ २,३२.
श्रीकृष्ण उवाच । म्रियमाणस्य किं कृत्यमिति त्वं पृष्टवानसि । शृणु तत्रोत्तरं तूक्तं कथयामि समासतः ॥ २,३२.
आसन्नमरणं ज्ञात्वा पुरुषं स्नापयेत्ततः । गोमूत्रगोमयसुमृत्तीर्थोदककुशोदकैः ॥ २,३२.