पूर्वादिषु प्रदेशेषु ह्येतास्तु परिपूजयेत् 34.
पूजयेत्परमां देवीं लक्ष्मीं लक्ष्मीप्रदां शुभाम् 34.
खड्गं च मुसलं पाशमंकुशं सशरं धनुः 34.
श्रीवत्सं कौस्तुभं मालां तथा पीताम्बरं शुभम् 34.
ब्रह्माणं नारदं सिद्धं गुरुं परगुरुं तथा 34.
इन्द्रं सवाहनं चाथ परिवारयुतं तथा 34.
सोममीशानमेवं वै ब्रह्माणं परिपूजयेत् 34.
वज्रं शक्तिं तथा दण्डं खङ्गं पाशं ध्वजं गदाम् 34.
विष्वक्सेनं ततो देवमैशान्यां दिशि पूजयेत् 34.
पूजा कार्य्या महादेव ह्यनन्तस्य वृषध्वज 34.
गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च 34.
स्तुवीत चान्या स्तुत्या प्रणवाद्यैर्वृषध्वज 34.
नमो विद्यास्वरूपाय विद्यादात्रे नमोनमः 34.
सुरासुरनिहन्त्रे च सर्वदुष्टविनाशिने 34.
नमश्चेश्वरवन्द्याय शङ्कचक्रधारय च 34.
त्रिगुणायागुणायैव ब्रह्मविष्णुस्वरूपिणे 34.
इत्येवं संस्तवं कृत्वा देवदेवं विचिन्तयेत् 34.
सूर्यकोटिप्रतीकाशं सर्वावयवसुन्दरम् 34.
इति ते कथिता पूजा हयग्रीवस्य शङ्कर 34.
न्यासादिकं प्रवक्ष्यामि गायत्र्याः शृणु शङ्कर 35.
ब्रह्मशीर्षा रुद्रशिखा विष्णोर्हृदयसंश्रिता 35.
त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षिसंस्थिता 35.
त्रिपदाष्टाक्षरा ज्ञेया चतुष्पादा षडक्षरा 35.
न्यासे जपे तथा ध्याने अग्निकार्य्ये तथार्चने 35.
पादाङ्गुष्ठे गुल्फमध्ये जङ्घयोर्विद्धि जानुनोः 35.
स्तनयोर्हृदि कण्ठौष्ठमुखे तालुनि चांसयोः 35.
पश्चमे मूर्ध्नि चाकारं न्यसेद्वर्णान्वदाम्यहम् 35.
श्वेतं विद्युत्प्रभं तारं कृष्णं रक्तं क्रमेण तत् 35.
शङ्खवर्णं पाण्डुरं च रक्तं चासवसन्निभम् 35.
यद्यत्स्पृशति हस्तेन यच्च पश्यति चक्षुषा 35.