मासद्वये तु सञ्जाते त्वचा मेदश्च जायते । मज्जास्थीनि त्रिभिर्मासैः केशाङ्गुल्यश्चतुर्थके ॥ २,३२.
कर्णौ च नासिके वक्षो जायेरन्मासि पञ्चमे । कण्ठरन्ध्रोदरं षष्ठे गुह्यादिर्मासि सप्तमे ॥ २,३२.
अङ्गप्रत्यङ्गसम्पूर्णो गर्भो मासैरथाष्टभिः । अष्टमे चलते जीवो धात्रीगर्भे पुनः पुनः । नवमेमासि सम्प्राप्ते गर्भस्थौजौ दृढं भवेत् ॥ २,३२.
चिकित्सा जायते तस्य गर्भवासपरिक्षये । नारी वाथ नरो वाथ नपुंस्त्वं वाभिजायते ॥ २,३२.
शक्तित्रयं विशालाक्षं षाट्कौशिकसमायुतम् । पञ्चेन्द्रियसमोपेतं दशनाडीविभूषितम् ॥ २,३२.
दशप्राणगुणोपेतं यो जानाति स योगवित् । मज्जास्थिशुक्रमांसानि रोम रक्तं बलं तथा ॥ २,३२.
षाट्कौशिकमिदं पिण्डं स्याज्जन्तोः पाञ्चभौतिकम् । नवमे दशमे मासि जायते पाञ्चभौतिकः ॥ २,३२.
सूतिवातैः समाकृष्टः पीडया विह्वलीकृतः । पुष्टो नाड्याः सुषुम्णाया योषिद्गर्भस्थितस्त्वरन् ॥ २,३२.
thumb|पञ्चमहाभूतानि क्षितिर्वारि हविर्भोक्ता पवनाकाशमेव च । एभिर्भूतैः पीडितस्तु निबद्धः स्नायुबन्धनैः ॥ २,३२.
मूलभूता इमे प्रोक्ताः सप्त नाड्यन्तरे स्थिताः । त्वचास्थिनाड्यो रोमाणि मांसञ्चैवात्र पञ्चमम् ॥ २,३२.
एते पञ्च गुणाः प्रोक्ता मया भूमेः खगेश्वर । यथा पञ्च गुणाश्चापस्तथा तच्छृणु काश्यप ॥ २,३२.
लाला मूत्रं तथा शुक्रं मज्जार रक्तञ्च पञ्चमम् । आपः पञ्चगुणाः प्रोक्ता ज्ञातव्यास्ते प्रयत्नतः ॥ २,३२.
क्षुधा तृषा तथा निद्रा आलस्यं कान्तिरेव च । तेजः पञ्चगुणं प्रोक्तं तार्क्ष्य सर्वत्रयोगिभिः ॥ २,३२.
रागद्वेषौ तथा लज्जा भयं मोहस्तथैव च । इत्येतत्कथितं तार्क्ष्य वायुजं गुणपञ्चकम् ॥ २,३२.
आकुञ्चनं धावनञ्च लङ्घनञ्च प्रसारणम् । निरोधः पञ्चमः प्रोक्तो वायोः पञ्च गुणाः स्मृताः ॥ २,३२.
घोषश्चिन्ता च गाम्भीर्यं श्रवणं सत्यसंक्रमः । आकाशस्य गुणाः पञ्च ज्ञातव्यास्तार्क्ष्य यत्नतः ॥ २,३२.
श्रोत्रं त्वक्चक्षुषी जिह्वा नासा बुद्धीन्द्रियाणि च । पाणी पादौ गुदं प्राक्च गुह्यं कर्मेन्द्रियाणि च ॥ २,३२.
इडाच पिङ्गला चैव सुषुम्णा च तृतीयका । गान्धारी गजजिह्वा च पूषा चैव यशा तथा ॥ २,३२.
अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता । पिण्ड मध्ये स्थिता ह्येताः प्रधाना दश नाडयः ॥ २,३२.
प्राणापानौ समानश्च उदानो व्यान एव च । नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ २,३२.
इत्येते वायवः प्रोक्ता दश देहेषु सुस्थिताः । केवलं भुक्तमन्नञ्च पुष्टिदं सर्वदेहिनाम् ॥ २,३२.
नयते प्राणदो वायुः शरीरे सर्वसन्धिषु । आहारो भुक्तमात्रस्तु वायुना क्रियते द्विधा ॥ २,३२.
स प्रविश्य गुहे सम्यक्पृथगन्नं पृथग्जलम् । ऊर्ध्वमग्नेर्जलं कृत्वा तदन्नञ्च जलोपरि ॥ २,३२.
अग्नेश्चाधः स्वयं प्राणस्तमग्निञ्च धमेच्छनैः । वायुना धम्यमानोऽग्निः पृथक्किट्टं पृथग्रसम् ॥ २,३२.
मलैर्द्वादशभिः किट्टं भिन्नं देहात्पृथग्भवेत् । कर्णाक्षिनासिका जिह्वा दन्तनाभिवपुर्गुदम् ॥ २,३२.
नखा मलाश्रया ह्येते विण्मूत्रञ्चेत्यनन्तकम् । शुक्रशोणितसंयोगादेतत्षाट्कौशिकं स्मृतम् ॥ २,३२.
रोम्णां कोट्यस्तथा तिस्रोऽप्यर्धकोटि समन्विताः । द्वात्रिंशद्दशनाः प्रोक्ताः सामान्याद्विनतासुत ॥ २,३२.
सप्त लक्षाणि केशाः स्युर्नखाः प्रोक्तास्तु विंशतिः । मांसं पलसहस्रैकं सामान्याद्देहसंस्थितम् ॥ २,३२.
रक्तं पलशतं तार्क्ष्यं बुद्धमेव पुरातनैः । पलानि दश मेदश्च त्वचा चैव तु तत्समा ॥ २,३२.
पलद्वादशकं मज्जा महारक्तं पलत्रयम् । शुक्रं द्विकुडवं ज्ञेयं शोणितं कुडवं स्मृतम् ॥ २,३२.