साधु पृष्टं त्वया लोके सदयं जीवकारणम् । वैनतेय शृणुष्व त्वमेकाग्रकृतमानसः ॥ २,३२.
ऋतुकाले च नारीणां वर्ज्यं दिनचतुष्टयम् । यतस्तस्मिन् ब्रह्महत्यां पुरा वृत्रसमुत्थिताम् ॥ २,३२.
ब्रह्मा शक्रात्समुत्तार्य चतुर्थांशेन दत्तवान् । तावन्नालोक्यते वक्त्रं पापं यावद्वपुः स्थितम् ॥ २,३२.
प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी । तृतीये रजकी ज्ञेया चतुर्थेऽहनि शुध्यति ॥ २,३२.
सप्ताहात्पितृदेवानां भवेद्योग्या कृतार्चने । सप्ताहमध्ये यो गर्भस्तत्संम्भूतिर्मलिम्लुचा ॥ २,३२.
निषेकसमये पित्रोर्यादृक्चित्तविकल्पना । तादृग्गर्भसमुत्पत्तिर्जायते नात्र संशयः ॥ २,३२.
युग्मासु पुत्त्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु । पूर्वसप्तममुत्सृज्य तस्माद्युग्मासु संविशेत् ॥ २,३२.
षोडशर्तुर्निशाः स्त्रीणां सामान्यात्समुदाहृतः । या चतुर्दशमी रात्रिर्गर्भस्तिष्ठति तत्र चेत् ॥ २,३२.
गुणभाग्यनिधिः पुत्रस्तत्र जायेत धार्मिकः । सा निशा तत्र सामान्यैर्न लभ्येत खगाधिप ॥ २,३२.
प्रायशः सम्भवत्यत्र गर्भस्त्वष्टाहमध्यतः । पञ्चमेऽहनि नारीणां कार्यं माधुर्यभोजनम् ॥ २,३२.
कटुक्षारञ्च तीक्ष्णञ्च त्याज्यमुष्णञ्च दूरतः । तत्क्षेत्रमोषधीपात्रं बीजञ्चाप्यमृतायितम् ॥ २,३२.
तस्मिन्नुप्त्वा नरः स्वामी सम्यक्फलमवाप्नुयात् । तस्याश्चैवातपो वर्ज्य शीतलं केवलं चरेत् ॥ २,३२.
ताम्बूलपुष्पश्रीखण्डैः संयुक्तः शुचिवस्त्रभृत् । धर्ममादाय मनसि सुतल्पं संविशेत्पुमान् ॥ २,३२.
निषेकसमये यादृङ्नरचित्तविकल्पना । तादृक्स्वभावसम्भूतिर्जन्तुर्विशति कुक्षिगः ॥ २,३२.
शुक्रशोणितसंयोगे पिण्डोत्पत्तिः प्रजायते । वर्धते जठरे जन्तुस्तारापतिरिवाम्बरे ॥ २,३२.
चैतन्यं बीजरूपं हि शुक्रे नित्यं व्यवस्थितम् । कामश्चित्तञ्च शुक्रञ्च यदा ह्येकत्वमाप्नुयुः ॥ २,३२.
तदा द्रावमवाप्नोति योषागर्भाशये नरः । रक्ताधिक्ये भवेन्नारी शुक्राधिक्ये भवेत्पुमान् ॥ २,३२.
शुक्रशोणितयो साम्ये गर्भाः षण्डत्वमाप्नुयुः । अहोरात्रेण कलिलं बुद्वदं पञ्चभिर्दिनैः ॥ २,३२.
चतुर्दशे भवेन्मांसं मिश्रधातुसमन्वितम् । घनं मांसञ्च विंशाहे गर्भस्थो वर्धते क्रमात् ॥ २,३२.
पञ्चविंशतिमे चाह्नि बलं पुष्टिश्च जायते । तथा मासे तु सम्पूर्णे पञ्चतत्त्वं निधारयेत् ॥ २,३२.
मासद्वये तु सञ्जाते त्वचा मेदश्च जायते । मज्जास्थीनि त्रिभिर्मासैः केशाङ्गुल्यश्चतुर्थके ॥ २,३२.
कर्णौ च नासिके वक्षो जायेरन्मासि पञ्चमे । कण्ठरन्ध्रोदरं षष्ठे गुह्यादिर्मासि सप्तमे ॥ २,३२.
अङ्गप्रत्यङ्गसम्पूर्णो गर्भो मासैरथाष्टभिः । अष्टमे चलते जीवो धात्रीगर्भे पुनः पुनः । नवमेमासि सम्प्राप्ते गर्भस्थौजौ दृढं भवेत् ॥ २,३२.
चिकित्सा जायते तस्य गर्भवासपरिक्षये । नारी वाथ नरो वाथ नपुंस्त्वं वाभिजायते ॥ २,३२.
शक्तित्रयं विशालाक्षं षाट्कौशिकसमायुतम् । पञ्चेन्द्रियसमोपेतं दशनाडीविभूषितम् ॥ २,३२.
दशप्राणगुणोपेतं यो जानाति स योगवित् । मज्जास्थिशुक्रमांसानि रोम रक्तं बलं तथा ॥ २,३२.
षाट्कौशिकमिदं पिण्डं स्याज्जन्तोः पाञ्चभौतिकम् । नवमे दशमे मासि जायते पाञ्चभौतिकः ॥ २,३२.
सूतिवातैः समाकृष्टः पीडया विह्वलीकृतः । पुष्टो नाड्याः सुषुम्णाया योषिद्गर्भस्थितस्त्वरन् ॥ २,३२.
thumb|पञ्चमहाभूतानि क्षितिर्वारि हविर्भोक्ता पवनाकाशमेव च । एभिर्भूतैः पीडितस्तु निबद्धः स्नायुबन्धनैः ॥ २,३२.
मूलभूता इमे प्रोक्ताः सप्त नाड्यन्तरे स्थिताः । त्वचास्थिनाड्यो रोमाणि मांसञ्चैवात्र पञ्चमम् ॥ २,३२.