पृथिव्यां लीयते पृथ्वी आपश्चैव तथाप्सु च । तेजस्तेजसि लीयते समीरणः समीरणे । आकाशे च तथा काशः सर्वव्यापी च शङ्करे ॥ २,३१.
तत्र कामस्तथा क्रोधः काये पञ्चेन्द्रियाणि च । एते तार्क्ष्य समाख्याता देहे तिष्ठन्ति तस्कराः ॥ २,३१.
कामः क्रोधो ह्यहङ्कारो मनस्तत्रैव नायकः । संहारकश्च कालोऽयं पुण्यपापसमन्वितः ॥ २,३१.
जगतश्च स्वरूपन्तु निर्मितं स्वेन कर्मणा । पुनर्देहान्तरं याति सुकृतैर्दुष्कृतैर्नरः ॥ २,३१.
पञ्चेन्द्रियसमायुक्तं सकलैर्विष्यैः सह । प्रविशेत्स नवं देहं गृहे दग्धे यथा गृही ॥ २,३१.
शरीरे ये समासीना सम्भवेत्सर्वधातवः । षाट्कौशिको ह्ययं कायो माता पित्रोश्च धातवः ॥ २,३१.
सम्भवेयुस्तथा तार्क्ष्य सर्वे वाताश्च देहिनाम् । मूत्रं पुरीषं तद्योगा ये चान्ये व्याधयस्तथा ॥ २,३१.
अस्थि शुक्रं तथा स्नायुः देहेन सह दह्यते । एष ते कथितस्तार्क्ष्य विनाशः सर्वदेहिनाम् ॥ २,३१.
कथयामि पुनस्तेषां शरीरञ्च यथा भवेत् । एकस्तम्भं स्नायुबद्धं स्थूणाद्वयसमुद्धृतम् ॥ २,३१.
इन्द्रियैश्च समायुक्तं नवद्वारं शरीरकम् । विषयैश्च समाक्रान्तं कामक्रोधसमाकुलम् ॥ २,३१.
रागद्वेषसमाकीर्णं तृष्णादुर्गसुदुस्तरम् । लोभजालसमायुक्तं पुरं पुरुषसंज्ञितम् ॥ २,३१.
एतद्गुणसमायुक्तं शरीरं सर्वदेहिनाम् । तिष्ठन्ति देवताः सर्वा भुवनानि चतुर्दश ॥ २,३१.
आत्मानं ये न जानन्ति ते नराः पशवः स्मृताः । एवमेतन्मयाख्यातं शरीरं ते चतुर्विधम् ॥ २,३१.
चतुरशीतिलक्षाणि निर्मिता योनयः पुरा । उद्भिज्जाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः ॥ २,३१.
एतत्ते सर्वमाख्यातं यत्पृष्टोहं त्वयानघ ॥ २,३१.
श्रीगरुडमहापुराणम् ३२ तार्क्ष्य उवाच । कथमुत्पद्यते जन्तुर्भूतग्रामे चतुर्विधे । त्वचा रक्तं तथा मांसं मेदो मज्जास्थि जीवितम् ॥ २,३२.
पादौ पाणी तथा गुह्यं जिह्वाकेशनखाः शिरः । सन्धिमार्गाश्च बहुशो रेखा नैकविधास्तथा ॥ २,३२.
कामः क्रोधो भयं लज्जा मनो हर्षः सुखासुखम् । चित्रितं छिद्रितञ्चापि नानाजालेन वेष्टितम् ॥ २,३२.
इन्द्रजालमिदं मन्ये संसारेऽसारसागरे । कर्ता कोऽत्र हृषीकेश संसारे दुः खसंकुले ॥ २,३२.
श्रीविष्णुरुवाच । कथयामि परं गोप्यं कोशस्यास्य विनिर्णयम् । यस्य विज्ञानमात्रेण सर्वज्ञत्वं प्रज्यते ॥ २,३२.
साधु पृष्टं त्वया लोके सदयं जीवकारणम् । वैनतेय शृणुष्व त्वमेकाग्रकृतमानसः ॥ २,३२.
ऋतुकाले च नारीणां वर्ज्यं दिनचतुष्टयम् । यतस्तस्मिन् ब्रह्महत्यां पुरा वृत्रसमुत्थिताम् ॥ २,३२.
ब्रह्मा शक्रात्समुत्तार्य चतुर्थांशेन दत्तवान् । तावन्नालोक्यते वक्त्रं पापं यावद्वपुः स्थितम् ॥ २,३२.
प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी । तृतीये रजकी ज्ञेया चतुर्थेऽहनि शुध्यति ॥ २,३२.
सप्ताहात्पितृदेवानां भवेद्योग्या कृतार्चने । सप्ताहमध्ये यो गर्भस्तत्संम्भूतिर्मलिम्लुचा ॥ २,३२.
निषेकसमये पित्रोर्यादृक्चित्तविकल्पना । तादृग्गर्भसमुत्पत्तिर्जायते नात्र संशयः ॥ २,३२.
युग्मासु पुत्त्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु । पूर्वसप्तममुत्सृज्य तस्माद्युग्मासु संविशेत् ॥ २,३२.
षोडशर्तुर्निशाः स्त्रीणां सामान्यात्समुदाहृतः । या चतुर्दशमी रात्रिर्गर्भस्तिष्ठति तत्र चेत् ॥ २,३२.
गुणभाग्यनिधिः पुत्रस्तत्र जायेत धार्मिकः । सा निशा तत्र सामान्यैर्न लभ्येत खगाधिप ॥ २,३२.
प्रायशः सम्भवत्यत्र गर्भस्त्वष्टाहमध्यतः । पञ्चमेऽहनि नारीणां कार्यं माधुर्यभोजनम् ॥ २,३२.