गावो ममाग्रतः सन्तु पृष्ठतः पार्श्वतस्तथा । गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ २,३०.
या लक्ष्मीः सर्वभूतानां या च देवे व्यवस्थिता । धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥ २,३०.
श्रीगरुडमहापुराणम् ३१ श्रीविष्णुरुवाच । ये नराः पापसंयुक्तास्ते गच्छन्ति यमालयम् । नृणां मत्साक्षिकं दत्तमनन्तफलदं भवेत् ॥ २,३१.
यावद्रजः प्रमाणाब्दंस्वर्गे तिष्ठति भूमिदः । अश्वारूढाश्च ते यान्ति ददते ये ह्युपानहौ ॥ २,३१.
आतपे श्रमयोगेन न दह्यन्ते च कुत्रचित् । छत्त्रदानेन वै प्रेता विचरन्ति सुखं पथि ॥ २,३१.
यमुद्दिश्य ददात्यन्नं तेन चाप्यायितो भवेत् ॥ २,३१.
अन्धकारे महाघोरे अमूर्ते लक्ष्यवर्जिते । उद्द्योतेनैव ते यान्ति दीपदानेन मानवाः ॥ २,३१.
आश्विने कर्तिके वापि माघे मृततिथावपि । चतुर्दश्याञ्च दीयेत दीपदानं सुखाय वै ॥ २,३१.
प्रत्यहञ्च प्रदातव्यं मार्गे सुविषमे नरैः । यावत्संवत्सरं वापि प्रेतस्य सुखलिप्सया ॥ २,३१.
कुले द्योतति शुद्धात्मा प्रकाशत्वं स गच्छति । ज्योतिर्मयोऽसौ पूज्योऽसौ दीपदानप्रदो नरः ॥ २,३१.
प्राङ्मुखोदङ्मुखं दीपं देवागारे द्विजातये । कुर्याद्याम्यमुखं पित्रे अद्भिः सङ्कल्प्य सुस्थिरम् ॥ २,३१.
सर्वोपहारयुक्तानि पदान्यत्र त्रयोदश । यो ददाति मृतस्येह जीवन्नप्यात्महेतवे । स गच्छति महामार्गे महाकष्टविवर्जितः ॥ २,३१.
आसनं भाजनं भोज्यं दीयते यद्द्विजायते । सुखे न भुञ्जमानस्तु देन गच्छत्यलं पथि ॥ २,३१.
कमण्डलुप्रदानेन तृषितः पिबते जलम् ॥ २,३१.
भाजनं वस्त्रदानञ्च कुसुमञ्चाङ्गुलीयकम् । एकादशा हे दातव्यं प्रेतोद्धरणहेतवे ॥ २,३१.
त्रयोदश पदानीत्थं प्रेतस्य शुभमिच्छता । दातव्यानि यथाशक्त्या प्रेतोऽसौ प्रीणितो भवेत् ॥ २,३१.
भोजना नि तिलांश्चैव उदकुम्भांस्त्रयोदश । मुद्रिकां वस्त्रयुग्मञ्च तया याति परां गतिम् ॥ २,३१.
योऽश्वं नावं गजं वापि ब्राह्मणे प्रतिपादयेत् । स महिम्नोऽनुसारेण तत्तत्सुखमुपाश्नुते ॥ २,३१.
नानालोकान् विचरति महिषीञ्च ददाति यः । यमपुत्त्रस्य या माता महिषी सुगतिप्रदा ॥ २,३१.
ताम्बूलं कुसुमं देयं याम्यानां हर्षवर्धनम् । तेन सम्प्रीणिताः सर्वे तस्मिन् क्लेशं न कुर्वते ॥ २,३१.
गोभूतिलहिरण्यानि दानान्याहुः स्वशक्तितः ॥ २,३१.
मृतोद्देशेन यो यद्याज्जलपात्रञ्च मृन्मयम् । उदपात्रसहस्रस्य फलमाप्नोति मानवः ॥ २,३१.
यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः । न भीषयन्ति तं याम्या वस्त्रदाने कृते सति ॥ २,३१.
मार्गे हि गच्छमानस्तु तृष्णार्तः श्रमपीडितः । घटान्नदानयोगेन सुखी भवति निश्चितम् ॥ २,३१.
शय्या दक्षिणया युक्ता आयुधाम्बरसंयुता । हैमश्रीपतिना युक्ता देया विप्राय शर्मणे । तथा प्रेतत्वमुक्तोऽसौ मोदते सह दैवतैः ॥ २,३१.
एतत्ते कथितं तार्क्ष्य दानमन्त्येष्टिकर्मजम् । अधुना कथयिष्येऽहमन्यदेहप्रवेशनम् ॥ २,३१.
जातस्य मृत्युलोके वै प्राणिनो मरणं ध्रुवम् । मृतिः कुर्यात्स्वधर्मेण यास्यतश्च परन्तप ॥ २,३१.
पूर्वकाले मृतानाञ्च प्राणिनाञ्च खगेश्वर । सूक्ष्मोभूत्वा त्वसौ वायुर्निर्गच्छत्यास्यमण्डलात् ॥ २,३१.
नवद्वारै रोमभिश्च जनानां तालुरन्ध्रके । पापिष्ठानामपानेन जीवो निष्क्रामति ध्रुवम् ॥ २,३१.
शरीरञ्च पतेत्पश्चान्निर्गते मरुतीश्वरे । वाताहतः पतत्येव निराधारो यथा द्रुमः ॥ २,३१.