जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥ २,३०.
वयमापो वयं पृथ्वी वयं दर्भा वयं तिलाः । वयं गावो वयं राजा वयं वायुर्वयं प्रजाः ॥ २,३०.
वयं हेम वयं धान्यं वयं मधु वयं घृतम् । वयं विप्रा वयं देवा वयं शम्भुश्च भूर्भुवः ॥ २,३०.
अहं दाता अहं ग्राही अहं यज्वा अहं क्रतुः । अहं हर्ता अहं धर्मो अहं पृथ्वी ह्यहं जलम् ॥ २,३०.
धर्माधर्मे मतिं दद्यां कर्मभिस्तु शुभाशुभैः । यत्कर्म क्रियते क्वापि पूर्वजन्मार्जितं खग ॥ २,३०.
धर्मे मतिमहं दद्यामधर्मेऽप्यहमेव च । यातनां कुरुते सोऽपि धर्मे मुक्तिं ददाम्यहम् ॥ २,३०.
मनुजानां हिता तार्क्ष्य अन्ते वैतरणी स्मृता । तयावमत्य पापौघं विष्णुलोकं स गच्छति ॥ २,३०.
बालत्वे यच्च कौमारे यच्च परिणतौ च यत् । सर्वावम्थाकृतं पापं यच्च जन्मान्तरेष्वपि ॥ २,३०.
यन्निशायां तथा प्रातर्यन्मध्याह्नापराह्नयोः । सन्ध्ययोर्यत्कृतं कर्म कर्मणा मनसा गिरा ॥ २,३०.
दत्त्वा वरां सकृदपि कपिलां सर्वकामिकाम् । उद्धरेदन्तकाले स आत्मानं पापसञ्चयात् ॥ २,३०.
गावो ममाग्रतः सन्तु पृष्ठतः पार्श्वतस्तथा । गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ २,३०.
या लक्ष्मीः सर्वभूतानां या च देवे व्यवस्थिता । धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥ २,३०.
श्रीगरुडमहापुराणम् ३१ श्रीविष्णुरुवाच । ये नराः पापसंयुक्तास्ते गच्छन्ति यमालयम् । नृणां मत्साक्षिकं दत्तमनन्तफलदं भवेत् ॥ २,३१.
यावद्रजः प्रमाणाब्दंस्वर्गे तिष्ठति भूमिदः । अश्वारूढाश्च ते यान्ति ददते ये ह्युपानहौ ॥ २,३१.
आतपे श्रमयोगेन न दह्यन्ते च कुत्रचित् । छत्त्रदानेन वै प्रेता विचरन्ति सुखं पथि ॥ २,३१.
यमुद्दिश्य ददात्यन्नं तेन चाप्यायितो भवेत् ॥ २,३१.
अन्धकारे महाघोरे अमूर्ते लक्ष्यवर्जिते । उद्द्योतेनैव ते यान्ति दीपदानेन मानवाः ॥ २,३१.
आश्विने कर्तिके वापि माघे मृततिथावपि । चतुर्दश्याञ्च दीयेत दीपदानं सुखाय वै ॥ २,३१.
प्रत्यहञ्च प्रदातव्यं मार्गे सुविषमे नरैः । यावत्संवत्सरं वापि प्रेतस्य सुखलिप्सया ॥ २,३१.
कुले द्योतति शुद्धात्मा प्रकाशत्वं स गच्छति । ज्योतिर्मयोऽसौ पूज्योऽसौ दीपदानप्रदो नरः ॥ २,३१.
प्राङ्मुखोदङ्मुखं दीपं देवागारे द्विजातये । कुर्याद्याम्यमुखं पित्रे अद्भिः सङ्कल्प्य सुस्थिरम् ॥ २,३१.
सर्वोपहारयुक्तानि पदान्यत्र त्रयोदश । यो ददाति मृतस्येह जीवन्नप्यात्महेतवे । स गच्छति महामार्गे महाकष्टविवर्जितः ॥ २,३१.
आसनं भाजनं भोज्यं दीयते यद्द्विजायते । सुखे न भुञ्जमानस्तु देन गच्छत्यलं पथि ॥ २,३१.
कमण्डलुप्रदानेन तृषितः पिबते जलम् ॥ २,३१.
भाजनं वस्त्रदानञ्च कुसुमञ्चाङ्गुलीयकम् । एकादशा हे दातव्यं प्रेतोद्धरणहेतवे ॥ २,३१.
त्रयोदश पदानीत्थं प्रेतस्य शुभमिच्छता । दातव्यानि यथाशक्त्या प्रेतोऽसौ प्रीणितो भवेत् ॥ २,३१.
भोजना नि तिलांश्चैव उदकुम्भांस्त्रयोदश । मुद्रिकां वस्त्रयुग्मञ्च तया याति परां गतिम् ॥ २,३१.
योऽश्वं नावं गजं वापि ब्राह्मणे प्रतिपादयेत् । स महिम्नोऽनुसारेण तत्तत्सुखमुपाश्नुते ॥ २,३१.
नानालोकान् विचरति महिषीञ्च ददाति यः । यमपुत्त्रस्य या माता महिषी सुगतिप्रदा ॥ २,३१.
ताम्बूलं कुसुमं देयं याम्यानां हर्षवर्धनम् । तेन सम्प्रीणिताः सर्वे तस्मिन् क्लेशं न कुर्वते ॥ २,३१.